कथामुखम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कथामुखम्


पञ्चतन्त्रकथायाः पृष्ठभूमिका
Mendhut-Tantri02.jpg
मुख्यपात्राणि विष्णुशर्मा, अमरशक्तिः, बहुशक्तिः, उग्रशक्तिः, अनन्तशक्तिः, सुमतिः
उपकथा(ः) न सन्ति
तन्त्रस्य नाम कथामुखम् (तन्त्रं नास्ति)
अग्रिमतन्त्रम् मित्रभेदः
पूर्वकथा ---
अग्रिमकथा सिंहवृषभयोः स्नेहस्य जम्बुकेन विनाशः

पञ्चतन्त्रस्य कथामुखम् एव पञ्चतन्त्रस्य सर्वासां कथानाम् उद्भवकारणम्। एतस्याः कथायाः आरम्भात् पूर्वं पञ्चतन्त्रकारः इष्टान्, श्रेष्ठान्, देवान् च नमस्कुर्वन् मङ्गलाचरणम् आचरति। एतस्याः कथायाः मुख्यपात्राणि क्रमेण विष्णुशर्मा, अमरशक्तिः, बहुशक्तिः, उग्रशक्तिः, अनन्तशक्तिः, सुमतिः च सन्ति। एतस्यां कथायां दक्षिणदेशे स्थितस्य महिलारोप्याख्यस्य नगरस्यापि उल्लेखः अस्ति, यस्मिन् अमरशक्त्याख्यः राजा शास्यमाणः आसीत्।

कथामुखम् (प्रस्तावना)[सम्पादयतु]

अथ विष्णुशर्मा-आख्यः कश्चन राजनीतिनिपुणः सर्वेषां नीतिशास्त्राणां सारतत्त्वम् अधीत्य तत्त्वभूतं ज्ञानं पञ्चभिः तन्त्रैः गुम्फितस्य पञ्चतन्त्राख्यस्य रमणीयस्य राजनीतिशास्त्रस्य आरम्भं करोति। ग्रन्थकर्ता ग्रन्थस्य निर्विघ्नतापरिसमाप्त्यै आशीर्वादात्मकेन मङ्गलाचरणेन ग्रन्थस्य आरम्भं करोति। त्रिदेवेभ्यः, स्कन्द-वरुण-यम-अग्नि-इन्द्र-कुबेर-चन्द्र-आदित्येभ्यः, सरस्वत्यै, समुद्र-पर्वत-नदी-पृथिवी-सर्प-वायुभ्यः, अश्विनाभ्यां, श्रियै, सिद्धेभ्यः, दित्यै, देवेभ्यः, चण्डिकादिमातृभ्यः, वेद-तीर्थ-यज्ञेभ्यः, शिवगणेभ्यः, वसु-मुनि-ग्रहेभ्यः च सर्वदा रक्षणस्य प्रार्थनां करोति। ततः ग्रन्थकारः मनुस्मृतिकार-बृहस्पति-शुक्राचार्य-व्यास-पराशर-चाणक्यादिभ्यः नीतिशास्त्रप्रणेतृभ्यः अपि नमस्करोति [१]

  • सप्तपर्वताः -

महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः॥

विन्ध्यश्च पारियात्रश्चसप्तैते कुलपर्वताः ॥ १९.३ ॥ ब्रह्मपुराणम्/अध्यायः १९

  • चण्डिकाद्याः मातरः -

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा॥

वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः॥ ३,१९.७ ॥[२] ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः १९

  • युगानि (कृतादीनि) - कृत(सत्य)-त्रेता-द्वापर-कलिवर्षाणि। आर्यभटीयम् [३]
  • नवग्रहाः -

नमः सूर्याय चन्द्राय मङ्गलाय बुधाय च ।
गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः॥

कर्णपरम्परया (श्रवणपरम्परया) श्रूयते यत्, दक्षिणदेशस्य कस्यचित् जनपदस्य महिलारोप्य-नगरे दानी, रूपवान्, नरोत्तमः, सर्वकलानिपुणः अमरशक्ति-आख्यः राजा आसीत्। तस्य राज्ञः त्रयः राजकुमाराः आसन्। तेषां नामानि क्रमेण बहुशक्तिः, उग्रशक्तिः, अनन्तशक्तिः च। ते राजकुमाराः दुर्बुद्धयः आसन्।

राजकुमाराणां शास्त्रविमुखतायाः खिन्नः राजा सचिवान् अवदत्, "मम पुत्राः अविवेकिनः, शास्त्रविमुखाः च सन्ति इति भवन्तः जानन्ति। तेन एतावद् बृहत् राज्यम् अपि मह्यं सुखं दातुं न शक्नोति" इति। ततः राजा मूर्खपुत्रेण कियत् कष्टं भवति इति निरूपयति।

सः राजा कथयति – मूर्खपुत्रः जीवनपर्यन्तं कष्टाय भवति। रूपवान्, धनवान्, भाग्यवान् च अविद्वान् पुत्रः अनुत्तमः भवति। यः पुत्रः विद्वान्, भक्तिमान् च नास्ति, तेन कोऽपि लाभः न भवति। विद्वत्सभायां पितुः लज्जायाः कारणमेव भवति सः मूर्खपुत्रः। विद्वज्जनानां गणनायाः काले यस्याः पुत्रस्य गणना न भवति, सा माता तु वन्ध्या एव परिगण्यते इति।

मद् वृत्तिं प्राप्नुवन्तः पञ्चशतं विद्वांसः अत्र उपस्थिताः सन्ति। एते मे पुत्राः विद्वांसः कथं भवेयुः इति उपायं चिन्तयन्तु भवन्तः (सचिवाः)। तेषु कश्चन पण्डितः अवदत्, देव ! द्वादशवर्षाणि व्याकरणस्य अध्ययनानन्तरं धर्मशास्त्र-अर्थशास्त्र-कामशास्त्राणाम् अध्ययनं श्रूयते। ततः एव ज्ञानप्राप्तिः भवति इति।

कश्चन सुमतिर्नामकः सचिवः अवदत् – अनेकानि शास्त्राणि सन्ति, मानवदेहोऽयम् अपि अशाश्वतः। अतः ज्ञानप्राप्त्यै कोऽपि लघुमार्गं चिन्तयतु। सारहीनविषयान् त्यक्त्वा केवलम् उपयुक्तानां विषयाणाम् एव अध्ययनं करणीयम् [४]। अतः अत्र उपस्थिताय विष्णुशर्मा-आख्याय ब्राह्मणाय स्वपुत्रान् यच्छतु। सर्वेषु शास्त्रेषु निपुणः सः तान् शीघ्रं हि ज्ञानवतः करिष्यति इति।

ततः राजा विष्णुशर्मणम् अवदत्, हे भगवन् ! मयि अनुग्रहं कृत्वा मे पुत्रान् सर्वश्रेष्ठविदुषः कुरु। अहं शतग्रामाणाम् अधिपतित्वेन तव नियुक्तिं करिष्ये इति। राज्ञः वचनं श्रुत्वा विष्णुशर्मा प्रत्युदतरत्, देव ! तथ्यवदनं मे शृणु। शतग्रामाणाम् आधिपत्ये प्राप्ते सत्यपि विद्याविक्रयणं न करिष्याम्यहम्। शृणु मे सिंहनादं यत्, अद्यतनं दिनं लिख। इतः षण्मासाभ्यान्तरे ते पुत्रान् शास्त्रज्ञान् करिष्ये। यदि इत्थं कर्तुम् असमर्थो भविष्यामि, तर्हि स्वनामत्यागं करिष्यामि इति।

ब्राह्मणस्य असम्भाव्यां प्रतीज्ञां श्रुत्वा चकितः राजा स्वराजकुमारान् तस्मै समर्प्य निश्चिन्तः अभवत्। पञ्चतन्त्रस्य रचनां कृत्वा विष्णशर्मा तान् राजकुमारान् अपाठयत्। षण्मासेषु ते राजकुमाराः नीतिशास्त्रज्ञाः अभूवन्, तदारभ्य बालान् अवबोधयितुं पञ्चतन्त्राख्यं नीतिशास्त्रं जगति प्रवृत्तम् अभवत्। मित्रभेद-मित्रप्राप्ति-काकोलूकीय-लब्धप्रणाश-अपरीक्षितकारकाणि यः पठति, तस्य तिरस्कारम् इन्द्रः अपि कर्तुं न शक्नोति [५] इति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. पञ्चतन्त्रम्, श्लो. १,२,३
  2. https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AE%E0%A4%AF%E0%A5%82%E0%A4%B0%E0%A5%80
  3. http://www.sanskritworld.in/public/assets/book/book_510246e20e66c.txt
  4. अनन्तपारं किल शब्दशास्त्रं, स्वल्पं तथायुर्बहवश्च विघ्नाः ।
    सारं ततो ग्राह्यमुपास्य फल्गु, हंसैर्यथा क्षीरमिवाम्बुमध्यात् ।। कथामुखं, श्लो. ९ ।।
  5. अधीते य इदं नित्यं, नीतिशास्त्रं शृणोति च ।
    न पराभवमाप्नोति, शक्रादपि कदाचन ।। कथामुखं, श्लो. १० ।।

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कथामुखम्&oldid=422611" इत्यस्माद् पुनः प्राप्तिः