कपालकुण्डला
कपालकुण्डला | |
---|---|
पुस्तकस्य मुखपृष्ठम् | |
लेखकः | विष्णुपदभट्टाचार्यः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
कपालकुण्डलायाः मूललेखको बङ्किमचन्द्रोऽस्ति । विष्णुपदस्य पित्रा कथेयं संस्कृतभाषायामनूदिता। कपालकुण्डलाया अभिनयः संस्कृतसाहित्यपरिषदः ३७ तमे वार्षिकोत्सवे समभवत्।
कथावस्तु
[सम्पादयतु]नवकुमारः शिरसि काष्ठभारं विधाय सन्ध्यासमये गङ्गातटमासादितवान् । तत्र कोऽपि मानवो नौका वा नासीत् । दूरे प्रकाशं दृष्ट्वा तत्रागच्छत् । तत् श्मशानमासीत् । तत्र स शवासीनं कापालिकं व्यलोकयत् । कापालिको नवकुमारस्य भोजनादेः व्यवस्थां कृत्वा जगाद - यावन्नागच्छामि तावत्त्वयात्रैव स्थीयताम्।
अथ कपालकुण्डला नवकुमारमवोचत् - कापालिकैः पूजा नरमसेन सम्पाद्यते । एहि, पलायनस्य मार्गं ते निर्दिशामि। एतस्मिन्नेव समये कापालिकः कपालकुण्डलामाह्वयन् धावँश्चागतः । कपालकुण्डला भयात् पलायिता । भीतोऽपि नवकुमारः स्वं पन्थानं नात्यजत् । मार्गे कयाचिद् भैरव्या नियतिगानं गीतम्।
हुताशनः प्रज्ज्वलन्नासीत् । कापालिकस्तत्रैव ध्यानमग्न आसीत् । नवकुमारो यूपे निबद्धोऽविद्यत । अथ शनैः कपालकुण्डला समागता खङ्गं च चोरयित्वा पुनरव्रजत् । कापालिको ध्यानानन्तरं नवकुमारस्य मस्तके रक्ततिलकम् अटीकत । कण्ठे रक्तमालाम् अर्पितवान् | नवकुमारं मोक्षाय प्रयतमानम् अवलोक्य कापालिकः ऊचिवान् – मूर्ख ! अद्य ते जनुः सफलं वर्तते । भैरवीपूजायां तव मांसम् उपहरिष्यामि । इति कथयित्वा स खड्गम् अन्विष्यति स्म । खड्गमनुपलभ्य स कपालकुण्डलां शब्दापयामास । अथ कापालिकस्तामन्वेष्टुं गतवान् । ततः सा खङ्गहस्ता समागत्य नवकुमारं विगतबन्धनं विधाय तेन सह पलायिता। कापालिकौ नवकुमारम् अप्यदृष्ट्वा तत्सर्वं कपालकुण्डलायाः कार्यं ज्ञातवान्। ततोऽधिकारिणा भवानीपूजकेन नवकुमारः उक्तः - अद्य माता कपालकुण्डला प्राणान् पणीकृत्य भवन्तं ररक्ष | भवाँस्तां रक्षतु । तया सह परिणयं करोतु । तेन स्वीकृतम् । अधिकारी वैदिकमन्त्रैस्तयोः परिणयं सम्पादितवान्। विपिनमार्गेण यात्रां कुर्वाणः नवकुमारो मतिनाम्नीं यवनीं चौरैः ताडितां व्यथितां स्कन्धे निधाय पान्थशालायामानयत् । पान्थशालायाः एकस्मिन् कक्षे कपालकुण्डला जगौ -
त्वयि जगदखिलं वसति सलीलं
भुवनगतास्त्वन्मायामुग्धाः।
रविशशिताराः किङ्करनिकराः
पालयन्ति तव नियममशेषम्।।
मतिः कपालकुण्डलायाः लोकोत्तरलावण्येन प्रभाविता तस्यै स्वकीय अन्याभूषणानि समर्पयामास ततो मतिः आगरानगरं गत्वा तत्र सम्राजः अकबरस्य बुद्ध्युत्कर्षं विफलीकृत्य, जहाँगीरस्य मेहरुन्निसाम्प्रत्यासक्तिं विलोक्यं निराशा ततः परावृत्ता । ततः सा नवकुमारं मिलित्वा गीतवती -
किमु मयि दयित कठोरः!
चरणनतायाः शरणगताया नोचित इह परिहारः।।
नवकुमारः गन्तुं व्यवसितवान् तदा सोवाच - मह्यं दासीपदं दीयताम् । न मया पत्नीपदं याच्यते । तुभ्यमहं धनं, मानं, प्रणयं, कौतुकादिकं सर्वं प्रदास्यामि । नवकुमारेणोक्तम् - "दरिद्रो ब्राह्मणोऽहम् । इह जन्मनि दरिद्र एव स्थास्यामि | धनलोभान् नाहमिच्छामि यवनीवल्लभत्वम्।"
मत्योक्तम् - भवतः कृतेऽहं आगरायाः राजसिंहासनम् उज्झितवती । नवकुमार आचख्यौ – तत्रैव पुनर्गम्यताम्।
मतिरुक्तवती - न तत्र यास्यामि, सम्प्रति भवन्तमुपलभ्यैव स्थास्यामि । नवकुमारेण चिन्तितम् एतादृगेव रूपं मम प्रथमभार्यायाः आसीद् यदाहं तां शयनागारान् निःसारयामि स्म । अथ सोऽपृच्छत्कीदृशस्ते परिचयः । मत्योक्तम् - अहं भवतः पूर्वपत्नी पद्मावत्यस्मि।
पञ्चमाङ्के कपालकुण्डला स्वननान्दुः पतिं तस्याः वशे कर्तुं यदा मुक्तकेशिनी रात्रौ वने भ्रमति, तदा मतिस्ताममिलत् । एतस्मात् प्राङ् मतिः कापालिकं भग्नमन्दिरे प्रज्ज्वलितहुताशनस्य सविधे ध्यानं कुर्वन्तं मिलितवती। तस्मै कपालकुण्डलाया मृत्युमन्तरा स्वां योजनां कथयामास यदहं तां नवकुमारात् पृथक्कर्तुमिच्छामि। सा मम प्रणयमार्गे कण्टकः वर्तते । कापालिकस्तु कपालकुण्डलायाः मृत्युमेवेच्छति स्म । एतस्मिन् समये मतिः पुरुषवेशे आसीत् । मतिः कपालकुण्डलामुक्तवती - त्वया इहैव स्थीयताम् । यावदहं नायामि । परंतु सा नभोमेघमण्डलावृतं वीक्ष्य गृहं गतवती । मतिस्तां तत्र नोपलभ्य तस्या गृहे पत्रमेकं निचिक्षेप।
षष्ठेऽङ्के गृहकर्मव्यापृता कपालकुण्डला पश्चात् पठिष्यामीति कृत्वा तत् पत्रं कबर्यां ररक्ष । तत् क्वचित् पतितं नवकुमारेण अवलोकितम् । पत्रं पठित्वा तस्य मनसि कपालकुण्डलां प्रति विश्वासाभावः सञ्जातः। पूर्वमपि तस्याः रात्रिभ्रमणकारणाद् सन्देहः पदं लब्धवानासीत्।
अथ कपालकुण्डला पत्रं कबरीबन्धे अनुपलभ्य ब्राह्मणवेषधारिणं कुमारं मिलितुं बहिर्निश्चक्राम | नवकुमारोऽन्वगच्छत् । स मार्गे कापालिकं दृष्टवान् । तेन नवकुमारोऽभिहितः – कस्मात्त्वं तां पापिष्ठां कपालकुण्डलामनुगच्छसि ? एहि, दर्शयामि तां यत्सा किं करोति । ततः कापालिक उक्तवान् पूर्वं त्वां ताञ्चान्विष्यन् बालुकागिरेः पतित्वा त्रुटितबाहुरस्मि संवृत्तः । भवानी मां स्वप्नेऽकथयत्यत्तस्याः पापिष्ठायाः बलिप्रदानमेव तव पूर्वकृतपापस्य प्रायश्चित्तम् । सा त्वया सहापि विश्वासघातं कृतवती । अद्य त्वयैव स्वहस्ताभ्यां तस्या बलिर्दीयताम् । एतेन कर्मणा तव पापप्रक्षालनं भविता।
सप्तमेऽङ्के भग्नमन्दिरे मतिः कपालकुण्डलायै स्वकीयं वास्तवं परिचयं प्राददात् अहं रामगोविन्दघोषालस्य कन्यास्मि पद्मावती । मयेव पान्थशालायां भवत्यै भूषणान्यासन्नुपहृतानि। अहं तव सपत्नी अस्मि | नवकुमारात् सम्बन्धविच्छेदाय मयैष वेषोऽङ्गीकृतः । त्वया मम स्वामिनो नवकुमारस्य सङ्गः परित्यज्यताम् । रक्ष्यताञ्च मम जीवनम्।
कपालकुण्डलया चिन्तितम् – अलं वैभवैः । विपिनचारिण्यहं पुनरपि वनविहारिणी भविष्यामि इति चिन्तयित्वा सा मतिमुक्तवती – श्वस्त्वं मम प्रवृत्तिं न लप्स्यसे। इतश्च कापालिके ब्राह्मणकुमारेण (मत्या) सह संस्थितां कपालकुण्डलामदर्शयत् । नवकुमारस्तद् दृष्ट्वा व्याकुलतामनुभूतवान् । तस्मै कापालिको मदिरां प्रयच्छत् । ब्राह्मणवेशधारिणी मतिः प्रतिदाने स्वीयमङ्गुलीयकं प्रदाय परिरभ्य च ततः प्रातिष्ठत | तस्यास्तथाऽऽलिङ्गनं दृष्ट्वा परिव्याकुलाय नवकुमाराय कापालिकः पुनः सुरां प्रादात्।
किञ्चित्कालानन्तरं कापालिको नवकुमारश्च कपालकुण्डलाममिलताम् । कापालिको नवकुमारमब्रवीत् आनीयतामियं स्नानानन्तरं पूजागृहे । अहं तावच्चलामि । मार्गे नवकुमारः कपालकुण्डलायाश्च रणयोर्निपत्याब्रवीत् - रक्ष मां, सकृत्कथय, न त्वं विश्वासघातिनी । अहं त्वामुरसि निधाय गृहं नयामि ।
कपालकुण्डलोक्तवती नाहं विश्वावसघातिनी । यो ब्राह्मणवेशधारी भवता दृष्टः सा पद्मावती वर्तते इति कथयित्वा सा तस्मै तस्या अङ्गुलीयकमदर्शयत् । ततो गृहगमनस्य प्रार्थनं नवकुमाररस्य प्रत्याख्याय साभिहितवती – इदानीं भवानीचरणतलमेव मम शरणम् । ततो नवकुमारो यावत्तां बाहुभ्यां परिरब्धुमिच्छति तावन्नदीतटमत्रुट्यत् । कपालकुण्डला जले निममज्ज । नवकुमारोऽपि जलेऽकुर्दत्। प्रस्तुतरूपकस्याङ्का दृश्येषु विभक्ताः सन्ति । अनेकदृश्येष्वेकमेव पात्रं वर्तते । अङ्कभागे सूचनाप्रदानस्य रीतिरङ्गीकृता । अर्थोपक्षेपकाणीमभावो विद्यते । मतेः कार्यकलापश्छायातत्त्वानुसारी वर्तते । सप्तमाङ्के कथायाः दृश्यं रङ्गपीठस्य द्वयोर्भागयोरस्ति | एकस्मिन् भागे मतिः कपालकुण्डला च वर्तेतेऽपरेंऽशे कापालिक-नवकुमारौ तिष्ठतः।