करञ्जवृक्षः
अयं करञ्जवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं वृक्षः भारते तु सर्वेषु प्रदेशेषु वर्धते । अयं महान् वृक्षः । अस्य करञ्जवृक्षस्य मूलं, पर्णं, त्वक्, पुष्पं, बीजस्य तैलं चापि औषधत्वेन उपयुज्यन्ते । अस्य बीजे “करञ्जिन्” नामकः अंशः अस्ति । अयम् करञ्जः ६ – ९ मीटर् यावत् उन्नतः भवति । तस्य काण्डः ऋजु भवति । काण्डं परितः मृदु त्वक् भवति । अस्य वृक्षस्य छाया अत्यन्तं शीतला च भवति ।
इतरभाषासु अस्य करञ्जस्य नामानि
[सम्पादयतु]अयं करञ्जवृक्षः आङ्ग्लभाषया Pongamia Pinnata इति उच्यते । हिन्दीभाषया “डिटोरि” अथवा “किरमाल पापर” इति वा उच्यते । करञ्जः तेलुगुभाषया “पुङ्गु” अथवा “कानुगुचेट्टु” इति उच्यते । तमिळ्भाषा यां “पुङ्गम्” अथवा “पुन्तु” इति, मलयाळभाषया “पोन्नम्” अथवा “उन्नेमरम्” इति, कन्नडभाषया “होङ्गे मर” इति च उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य करञ्जस्य प्रयोजनानि
[सम्पादयतु]अस्य करञ्जस्य रुचिः कटुः, तिक्तः च । अयं तीक्ष्णः, उष्णः, लघुः चापि । विपाके अयं कटुः एव भवति ।
- अयं करञ्जः चर्मरोगेषु, उदरस्य समस्यासु, कण्डूयने, मूलव्याधौ च हितकरः ।
- भगन्धरं, गुल्मं, मधुमेहं, क्षयरोगं च निवारयति अयं करञ्जः ।
- अयम् उत्तेजकः, पित्तकारकः, शोधकः चपि ।
- अस्य करञ्जस्य बीजैः निर्मितं तैलं क्रिमिहरं, व्रणनिवारकं च ।
- चर्मरोगेषु करञ्जस्य तैलं बहु उपयोगकारि । तेन तैलेन सह निम्बूकस्य रसं समप्रमाणेन योजयित्वा लेपनेन लाभः अधिकः ।
- कासः महता प्रमाणेन बाधते चेत् “नायिकेम्मु” (शुनककासः) इति रोगे च अस्य करञ्जस्य बीजानि पेषयित्वा यच्छन्ति ।
- अजीर्णॆ, अतिसारे च अस्य करञ्जस्य पर्णम् उत्तमम् औषधम् ।
- अस्य करञ्जस्य पर्णस्य खादनेन उदरवेदना अपगच्छति । आहारः अपि सम्यक् जीर्णः भवति ।
- शिरसि केशाः विगलन्ति चेत् अस्य करञ्जस्य पुष्पं केशविगलिते स्थाने लेपनीयम् ।
- मूलव्याधौ रक्तस्रावः जायमानः अस्ति चेत् अस्य करञ्जस्य मूलं गोमूत्रेण सह पेषयित्वा पातव्यम् । तथा च तक्रं पथ्यत्वेन दातव्यम् ।