कल्पशास्त्रस्य इतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कल्पशास्त्रस्य इतिहासः कल्पसूत्राणां विस्तारेण ज्ञानं प्रयच्छति। हस्तौ कल्पोऽथ पठ्यते विपूले वेदाङ्गसाहित्ये कल्पस्य द्वितीयं स्थानमस्ति । क्वचिच्चेतिहासे तीन स्थाने कल्पितोऽयं कल्पः । एष शब्दः कमपि विशिष्टमर्थं व्यनक्ति प्रतिपादयति वात अत एव कल्पस्य वैदिकसाहित्येऽतिशयं महत्त्वपूर्ण स्थानमस्ति । कल्पप्रयोजनीयताया आवश्यकता तदा अनुभूता, यदा शतपथादिब्राह्मणग्रन्थेषु यज्ञ-यागादीनां कर्मकाण्डीय. व्यवस्थायां विस्तृततया तद्व्यवहारे काठिन्यस्यानुभूतिर्जायते स्म। तत्पूत्यै च | कल्पसूत्राणां प्रतिशाखायां रचना सुसम्पन्ना। तद्युगस्य प्रवर्तितं पद्धत्यनुरूपं तद्रचना सूत्रात्मिकाऽभूत् । ऋग्वेदप्रातिशाख्ये वर्गद्वयवृत्तौ कल्पविषये कथितमस्ति यत् 'कल्पो वेदविहितानां कर्मणामानुपूर्वेण कल्पना शास्त्रम्' । अत्रायं निष्कर्षो विद्यते यत् येषां यज्ञयागादिविहितानां विवाहोपनयनादिकर्मणाञ्च महत्त्वपूर्ण प्रतिपादनं वैदिक ग्रन्थेषु कृतमस्ति तेषां सूत्रग्रन्थानामभिधानमस्ति कल्पः ।

इमानि सूत्राणि प्राचीनत मानि एतदर्थं मन्यन्ते, यतो हि एतानि स्व-स्वविषयप्रतिपादने ब्राह्मणारण्यकैस्सह तैरन्तर्येण सम्बद्धानि सन्ति । ऐतरेयारण्यके तद्वचनानामस्तित्वं विद्यते। अत एव ऐतिहासिकानां स्पष्टं मतमस्ति यत् कल्पग्रन्थाः वेदाङ्गसाहित्यस्य प्राचीनतमाः ग्रन्थास्सन्ति । केचन विद्वांसः कल्पग्रन्थान् वैदिकसाहित्यस्य निकटतमान् मन्यन्ते, परञ्च वेदा अपौरुषेया वेदाङ्गानि च पुरुषकृतानि सन्ति तदा तयोः सामानाधिकरण्यं कथं स्यात् । परञ्चैतत् त्ववश्यमेवास्ति यत्--कल्पग्रन्था वेदाङ्गस्य प्राचीनतमा ग्रन्थास्सन्ति।

कल्पसूत्रस्य व्युत्पत्तिापकत्वञ्च[सम्पादयतु]

सामान्यनियमानुसारेण कल्पस्य सूत्रस्य चान योर्द्वयोः शब्दयोः संयोगात् कल्पसूत्रस्य संरचना जायते । कल्पोऽयं विलक्षणः शब्दः, अयञ्च कमपि विशिष्ट मर्थं प्रतिपादयति । स च विलक्षणोऽर्थोऽस्ति-विधेः, नियमस्य, न्यायस्य, कर्मणः आदेशस्य च प्रयुक्तेऽर्थे परिव्याप्तिः । अनेनैव प्रकारेण 'सूत्रम्' शब्दस्यापि विशिष्टार्थो भवति सक्षेपः । सङ्क्षिप्तविधिमेवाश्रित्य 'सूत्रम्' इति शब्दः प्रवर्तते । सूत्र धातोः अच् प्रत्यये कृते सति सूत्रमिति शब्दस्य व्युत्पत्तिर्भवति-कि गुणात्मकमिदमिति जिज्ञासायामाह -

'स्वल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।

अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥

अत्रायमाशयः- उपर्युक्तेन सूत्र लक्षणेन विज्ञायते यत-धर्मशास्त्रीय विधि विधानानां, कर्मानुष्ठानानां, नीतिनियमानां, व्यवहृत-व्यवहाराणां धर्मस्य प्रवर्तनानाच सङ्क्षपतमं, सारयुतं, संशीतिरहितं कल्पसूत्रस्य विवेचनमिति ।

अपरच कल्पसूत्रस्य बंशिष्टयम्-वेदविदां मते न केवलं विषयदष्टया अपि तु नवनवानां युगानां निर्माणदृष्टयाऽपि संस्कृतवाङ्मये कल्पसूत्राणां स्वानुकूलं विशिष्टं स्थानमस्ति । कल्पसूत्रेभ्यो लौकिकसंस्कृताभ्युदयस्य प्रकर्षः ज्ञायते।

अत्यच्चोत्तरवैदिके युगे विभिन्न विषयाणां ये सहस्रशो ग्रन्था विरचितास्तेषां प्रेरणादायका उत्साहवर्द्धकाश्चेमे सूत्रग्रन्थाः सन्ति ।

सूत्ररचनाया उद्देश्यम्[सम्पादयतु]

वैदिकवाङ्मयस्येतिहासे कल्पसूत्राणामाविर्भावो नव्य युगस्य सूत्रपात इव लक्ष्यते । एतदपि विशिष्टमुद्देश्यमासीद्यत्-प्राक्तने वैदिके युगे तत्साहित्यस्य विस्तरत्वात्, दुर्गमत्वात् रहस्यमयत्वाच्च यथास्थितिबोधने दुस्तरं कार्यमासीत् । तत्काठिन्यमपनोदायैव सूत्रसरणेः आविर्भावः । तेभ्यो वैदिकविधीनां कण्ठस्थीकरणं सौविध्यमभवत् । वैशिष्टयञ्चैषां न्यूनातिन्यूनशब्देषु अधिकादधिकं भावप्रकटनमस्ति । तथाहि-भावस्य, भाषायाः, विचारस्य, शैल्याः, रचनाविधानस्य च दृष्टयाऽपि परिवर्तनं दरीदृश्यते'।

कल्पसूत्रस्य मुख्यो विषयः[सम्पादयतु]

कल्पसूत्राणामुपयोगिताया अनेकत्र चर्चा विद्यते सा तु तथैवास्ति, परञ्च वैदिककर्मणां प्रतिपादनं संस्काराणां व्याख्यानं यज्ञानाञ्च विधानवर्णनं प्राधान्यरूपेण विवेचनं तत्र विद्यते ।

यज्ञादीनां वैशिष्टयस्य प्रतिपादनं वेदेभ्यो ब्राह्मणेभ्यश्नोपलभ्यते । तत्राथर्ववेदे 'अयं यज्ञो भुवनस्य नाभिः' [१] इति प्रतिपाद्य जगतः समुत्पत्तिस्थानं यज्ञ एवेति सुनिश्चितम् । इत्येव नहि ततोऽग्रे विद्यते--'तं यज्ञं बर्हिषि प्रोक्षन् पुरुषं जातमग्रतः [२] । अत्र तपोभिः पवित्रिताचरणमहर्षिभिः स्वास्मभिः यज्ञः समुद्भावितः । एतत्सर्व यज्ञविषयजातं कल्पसूत्रेषु प्रतिष्ठितमस्ति ।

अत्रायं निष्कर्षः[सम्पादयतु]

प्राचीनकालादारभ्याधुनापर्यन्तं कल्पसूत्रस्येमे ग्रन्थाः कर्मकाण्ड जुषां सामाजिकानां सात्त्विकजीवनस्य परिचायकाः सन्ति । न केवलं तत्र कर्मकाण्ड सरणिरेव विद्यतेऽपितु तेषु महत्सु ग्रन्थेषु जीवनस्य चरमोत्कर्षाभ्युनतेरुपाया अपि विद्यन्ते ।

तेष्वेकतस्तु जीवनसरणिमधिकृत्यानेके नियमा वणितास्सन्ति । अन्यतश्च कुशाग्र शेमुषीनां प्राच्यविद्याप्रवर्तकानां धीमतां मेधाशक्तेः परिचायकाः सन्ति ।

कल्पसूत्राणां भेदास्तेषां विषयविभागश्च[सम्पादयतु]

कल्पसूत्राणां मुख्यतस्त्रयो भेदा भवन्ति । केषाञ्चन मते चतुर्भेदा भवन्ति । ते शुल्वसूत्रमपि कल्पसूत्रेष्वेव मन्यन्ते। उपर्युक्तेषु त्रिषु भेदेष्विमे सन्ति-श्रौतसूत्रम्, गृह्यसूत्रम्, धर्मसूत्रञ्चेति । शुल्वसूत्रे ज्यामित्यादि विज्ञानसमन्वितत्वात् पृथगेव निर्वचनम् ।

तत्र श्रौतसूत्रस्य व्यापकत्वं कार्यक्षेत्रश्च-वैदिकसनातनधर्मे कल्पसूत्राणां मह न्महत्त्वं विद्यते । वेदोक्ते कर्मकाण्डे सनातनहिन्दूसमाजस्य सुदीर्घकालात् नैष्ठिकभावेन सुदृढो विश्वासः प्रचलति । यद्यपि श्रौतसूत्राणि शतपथ-ताण्डय-गोपथादित ब्राह्मणेषु वर्णितानां कर्मकाण्ड-विधानानामेव निर्देशाः सन्ति, परञ्च तानि श्रौतसूत्राणि ब्राह्मणग्रन्थानां वैदिकसाहित्यस्य च मध्ये न स्वीकुर्वन्ति वैदिकाः। वैदिकसंहितास वणितानि यानि यज्ञ-यागादिविधानानि सन्ति तानि श्रौतसूत्रेषु साररूपेण सङ्कलितानि सन्ति। तेषां मुख्य कार्य वैदिकहविविधानस्य सोमयज्ञस्य च धार्मिकानुष्ठानानां प्रतिपादनमस्ति ।

अत्रायं निर्गलितो विषयो यत् श्रौतसूत्रेषु श्रुतिप्रोक्तानां चतुर्दश यज्ञानां प्रधानतया कर्त्तव्यविधानमस्ति । येषु च मन्तान्तरेण ब्राह्मणग्रन्थवर्णितानाम अग्नौ विहित-विधीयमानानां च यज्ञ-यागाद्यनुष्ठानानां वर्णनं विद्योतते । तथा चेमे यागाः सन्ति तत्र--दर्शः, पौर्णमासः, पिण्डपितृयागः, आग्रयणेष्टिः, चातुर्मास्यः, निरूढपशुः, सोमयागः, सत्रः ( द्वादशदिवसेषु समापनीयो द्वादशसुत्या युक्तो याग विशेष: ), गवामयनम् ( वर्षपर्यन्तं विधीयमानो यागः ), वाजपेयः, राजसूयः, सोत्रा मणी, अश्वमेधयागः, पुरुषमेधः, एकायागः, अहीनयागश्च इत्येते वर्णिताः सन्ति।

यतः अग्नि-स्थापनानन्तरमेव यागविधानं प्रवर्तते, अतः अग्निचयनस्य तथा कदा. चित् पुनराधानस्य वर्णनमपि श्रौतसूत्रेषु नितान्तमावश्यकमस्ति । यागानां नामगणना मेवावलोक्यैवानुमीयते यदेषां श्रौतसूत्राणां विषयो दुरवगाहो विद्यते । यद्यप्यत्र सर्व साधारणजनेभ्यो नास्ति कस्याप्याकर्षणस्य विषयः, परञ्च धार्मिकदृष्ट्या तु तेषां महनीयत्वमस्त्येव ।

साम्प्रतं विपरीते काले श्रौतयागानां विधानं क्वाचित्करूपेणव दृश्यते तदा वयमेषां श्रौतसूत्राणामनुशीलनेनैव तद्युगस्य धार्मिकी स्थिति व्यवहारं वा ज्ञास्यामः । अपि च कदापि काले उज्जीवनं भवेदेतेषाम् । आश्वलायन -शाङ्खायनेति श्रौतसूत्रद्वयमस्ति ऋग्वेदस्य ।

ययोः यागाद्यनुष्ठानस्य सविशेषलक्षणपुरस्सरं प्रतिपादनमस्ति । अपि चात्र परोऽनवाक्यायाः याज्यायाः तत्तच्छास्त्राणामनुष्ठानप्रकारस्य च वर्णनं विद्यते । देश काल-पात्र-प्रायश्चित्तादीनां सविशेषरूपेण विधानमस्त्यत्र ।

आश्वलायनश्रौतसूत्रे द्वादशाध्यायाः सन्ति । इयं प्रसिद्धिवर्तते यदाश्वलायन अषिः शौनक ऋषेः शिष्य आसीत्-तथा च ऐतरेयारण्यकस्याध्यायद्वयस्य रचना गुरु-शिष्याभ्यां समवेतरूपेण कृताऽऽसीत् । शाङ्खायन-श्रौतसूत्रञ्चाष्टादशाध्यायेषु विभक्त विविध-यज्ञ-यागादीनां प्रतिपादकमस्ति ।

शाङ्गायनब्राह्मणेन सम्पृक्तं श्रौतसूत्रमिदं सर्वतोभावेन प्राचीनतरं प्रतीयते । एवञ्च ब्राह्मणग्रन्थैः सह केष्वप्यंशेषु साम्यं बिभर्ति । अस्याष्टादशाध्यायेषु चरममध्याय द्वयपश्चाद् ग्रथितमिव प्रतिभाति । तावध्यायावारण्यकस्य कौषीतक्याः समानो स्तः ।

आश्वलायनश्रौतसूत्रेऽनुष्ठानविधानस्य स्वल्पेंडशे एव वर्णनं विद्यते । एतच्च स्वाधारग्रन्थादैतरेयब्राह्मणादधिकानां तथ्यानां विवरणं ददाति । किं बहनोक्तेन श्रौत. सूत्रेषु शतपथादिब्राह्मणानां महत्तारतम्येन योगदान मस्तीति प्रवदन्ति मनीषिणः ।। _ ऋग्वेद-प्रवत्तितेषु गृह्यसूत्रेषु गृह्यसूत्रद्वयं नितरां सुप्रसिद्ध मस्ति । ते चाश्वलायन शाङ्घायन गृह्यसूत्रे स्तः । तत्र प्रथमे गृह्यसूत्रे च चत्वारोऽध्यायाः सन्ति, प्रत्येकस्मिन् अध्याये च खण्डान्यनेकानि सन्ति । एषु गृहोचितकर्मणां संस्काराणाञ्च सुविशदं वर्णनमुपलभ्यते । तत्र ऋषितर्पणप्रसङ्गे एतादृशानां प्राचीनाचार्याणां नामान्युप अभ्यन्ते येषां क्वचिदप्यन्यत्र कदाचिन्नोपलभ्यन्ते । अपरञ्च वेदाध्ययनस्याचारसंहिताया विधीनां वर्णनं सहैव चतुर्थे खण्डे प्रायश्चित्ताङ्गभूतस्योपाकरणस्य ( वैदिक-श्रावण्याः ) वर्णनमप्युपलभ्यते ।

गृह्यसूत्राणां परिचयः[सम्पादयतु]

वैदिकवाङ्मये आश्वलायनगृह्यसूत्रस्य पारस्करगृह्यसूत्रस्य च यथा नितरां प्रसिद्धिवर्तते तथाऽन्येषां सूत्राणां न । तत्राश्वलायनगृह्यसूत्रस्य टीकासम्पद एव लोकप्रियतायाः विश्रुतेश्च प्रमाणं विद्यते । महनीयस्यास्य सूत्रस्य प्रमुखाष्टीकाकारा स्तेषां सारभूताः व्याख्याश्चेमाः सन्ति–जयन्तस्वामिनो विमलोदयमाला, अस्याः व्याख्यायाः कालः अष्टमशतकस्यान्तिमो भागः । ( ख ) देवस्वामिनः सुविख्यातं भाष्यम् । इमे टीकाकाराः वैदिकसाहित्ये मान्याश्चचिताश्च सन्ति । गृह्य-श्रौतसूत्रयो रुभयोरुपरि व्याख्यानमेतेषाम् । अनयोरुल्लेखः गार्ग्यनारायणेन बहुधा कृतः । (ग) नारायणः- इमे नधुनगोत्रोत्पन्नस्य दिवाकरस्यात्मजा आसन् । समयश्चैकादशः शतकः । विद्वन्मनोहारिणी प्रख्याता टीकेयं विद्यते । (घ ) हरदत्तस्य 'अनाविला' टीका विश्रुता वर्तते। अनेनैव वैयाकरणहरदत्तेन लोकविश्रुतायाः काशिकायाः 'पदमञ्जरी' नाम्नी टीका विरचिता। अत एव शाब्दिकमण्डलीषु प्रख्याता इमे सन्ति । इमे च द्रविडदेशीयाः किं वा तेषामाचारैः पूर्णाः परिचिता आसन् द्वादशे शतके ।

आश्वलायनगृह्यसूत्रं कारिकाबद्धमपि प्राप्यते । एतत् कार्य मनेकैलेखकः सम्पा दितम् । तेषु रघुनाथदीक्षित-गोपाल-कुमारिलस्वामिनाञ्च योगदानं सुप्रसिद्ध मेवास्ति । कोऽयं 'कुमारस्वामी' इत्यस्मिन् विषयेऽधुनापि मतैक्यं न तिष्ठति । एतदतिरिक्तमस्य गृह्यस्य प्रयोगस्य, पद्धतेः परिशिष्टस्य च विषयेऽपि ग्रन्थानामभावो न दृश्यते ।

आश्वलायनधर्मसूत्रमपि द्वाविंशत्यध्यायेषूपलब्धं भवति । परञ्च प्रकाशनाधीनं वर्तते । अस्यैव धर्मसूत्रस्याधारमादाय 'आश्वलायनस्मृतिर'पि हस्तलिखिता वरीवत्ति या हि एकादशाध्यायेषु विभक्ता, द्विसहस्रैः पद्यैश्च युक्ता अस्ति ।

शाङ्खायनगृह्यसूत्रे षडध्यायाः सन्ति । तेषु तेषामेव विषयाणां समावेशो वर्तते ये विषयाः पूर्वचिताः सन्ति । यथा विविधसंस्काराणां वर्णनं, गृहनिर्माण-गृहप्रवेश योश्च यथास्थानं वर्णनं विद्यते । ऋग्वेदस्य तृतीयायाः शाखायाः कौषीतक्याः कल्प सूत्राणां निर्देशोऽपि विदुषां मध्ये प्राप्यते । इयं बलवती धारणा प्रचलिता वर्तते यत् शाङ्खायन-कौषीतकि-गृह्यसूत्रे एकस्या एव शाखाया भिन्न-भिन्नाभिधाने स्तः। परञ्च निर्विवादमेतत् यत् कौपीतकी शाखा शाङ्घायनशाखातः सर्वथा भिन्नस्वरूपा विद्यते । अस्याः शाखायाः विशिष्टा ग्रन्थाः प्रकाशिताः प्रकाश्यमाणाश्च सन्ति ।

कोषीतकं धर्मसूत्रमधुनाऽप्यप्रकाशितमेवास्ति । शाङ्घायनगृह्यस्य रचना सुयज्ञेन पाहता, कौषीतकगृह्यसूत्रस्य च शाम्भव्येन कृताऽस्ति । अत एवेदं सूत्रं शाम्भव्यगृह्यसूत्रस्य नाम्नाऽपि प्रख्यातमस्ति। शाम्भव्यः करुदेशनिवासी इति महाभारते चर्चितः ।

अस्मिन् गृह्यसूत्रे पञ्चाध्यायाः सन्ति, प्रत्येकस्मिन् अध्यायेऽनेकानि पर सन्ति । ग्रन्थस्य शभारम्भो विवाहसंस्कारस्य वर्णनेन भवति, तदनन्तर या शिशो: प्रारम्भिकसंस्काराणां सामान्यपरिचयानन्तरं यतबन्धस्य विवरणं पर्याप्तरूपेण विस्ततमस्ति । बलिवैश्वदेव-कृषिकर्मणोः अनन्तरं श्राद्ध वर्णनेन गृह्यसूत्रामद समाप्तिमेति।

अत्र वैशिष्टयमिदं वर्तते यत-कौपीतक-शाजायनगृह्य योर्मध्येऽनका साम्य विद्यते। वैषम्यञ्च क्वापि दृश्यते । कौषीतकगृह्यसूत्रे केवलं पञ्चाध्यायाः सन्ति, अन्यत्र षडध्यायाः प्राप्यन्ते । आदितः चतुर्वध्यायेषु विषयक्रमस्य प्रतिपादनशैल्याश्चोभ यत्र साम्यम् । परञ्च कौषीतकस्यान्तिमाध्यायविषयस्य समीक्षणं शाङ्खायनस्यान्तिमा ध्यायाभ्यां सह न भविष्यति । कौषीतकस्यावसाने पितृमेधसो वर्णनं विद्यते, यद्धि शाङ्खायनगृह्यसूत्रे नोपलभ्यते, एतत्तु शाङ्खायनश्रौतसूत्रस्यैवांशः । अस्त्यत्र कौषीत कस्य क्रमः समुचितो न्यायसङ्गतश्च । यतो हि श्राद्धं गृह्यस्यैवाङ्गम्, न तु श्रौतस्येति विदन्ति वैदिकाः ।

शुक्लयजुर्वेदीयं कल्पसूत्रम्[सम्पादयतु]

कात्यायनप्रणीतस्य श्रौतसूत्रस्य विषयस्य निखिलं ज्ञानं श्रौतसूत्र-स्वरूपपरिज्ञानं च नितान्तमावश्यकमस्ति । ग्रन्थोऽयमस्य साहित्यस्य प्रतिनिधिस्वरूपः । सहैवान्य श्रौतसूत्राणां तारतम्यविषये तुलनात्मक-विवेचनायातीवोपयुक्तश्चास्ति ।

श्रौतसूत्रमिदं सूत्रपद्धतिमवलम्ब्य निबद्धेषु षड्विंशत्यध्यायेषु विभक्तोऽयं समस्त यज्ञयागादीनां प्रतिपादको ग्रन्थो विद्यते । तद्विवरणं यथा-प्रथमेऽध्याये ( दशकण्डि कासु विभक्ते ) यागसन्दर्भितानामावश्यकविषयाणां समावेशः, द्वितीय-तृतीयाध्याययोः दर्श-पूर्णमासयागस्याखिलं वर्णनं विद्यते । चतुर्थाध्याये-पिण्डपितृयज्ञस्य, दाक्षायणस्य, आग्रयणस्य, अग्न्याधानस्य, पुनराधानस्य, अग्न्युपस्थानस्य अग्निहोत्रस्य च क्रमेण निरूपणमस्ति । पञ्चमेऽध्याये चातुर्मास्यस्य मित्रवृन्द इष्टेश्च विधिविधानपूर्वकं मर्यादित पुष्कलं वर्णनमुपलभ्यते । षष्ठेऽध्याये निरूढपशुबन्धस्य विस्तरेण सुस्पष्टं विवरणमस्ति ।

सप्तमाध्यायादारभ्य दशमाध्यायपर्यन्तमग्निष्टोमयागस्य विवरणात्मक वर्णनं विद्यते । येषु च सप्तमाष्टमाध्याययो: अग्निष्टोमस्य प्राग्भूतानां कर्मणाम्, नवमे प्रातःसवनस्य, दशमे माध्यन्दिनस्य सायंसवनस्य च वर्णनमेतस्य महन्महत्त्वं प्रतिपादयति । एकादशा ध्यायस्य महत्त्वपूर्णेषु भागेषु 'ब्रह्मा' संज्ञकस्य ऋत्विजः कर्त्तव्यस्योपयोगस्य च वर्णन विद्यते। द्वादशाध्याये 'द्वादशाह' इत्यस्य, त्रयोदशेऽध्याये गवामयनस्य, चतुर्दशे वाज पेयस्य, पञ्चदशे राजसूयस्य षोडशाध्यायमारभ्याष्टादशाध्यायपर्यन्तमग्निचयनस्य एकोनविंशत्यध्याये सौत्रामण्याः, विंशत्यध्यायेऽश्वमेध इत्यस्य, एकविंशतितमेऽध्याय च–'पुरुपमेध, सर्वमेध, पितृमेध इत्येतेषां विस्तृत सुव्यवस्थितञ्च वर्णनं विद्यते । । यांशष्टधम्-प्रथमाध्यायः कात्यायनस्य मूलभूतानां विचाराणां निर्देशकोऽस्ति ।

अपि च-द्वितीयाध्यायात्--एकविंशत्यध्यायपर्यन्त स्थिताः वर्ण्यविषयाः शतपथब्राह्मणस्य भिन्न-भिन्न काण्डानामाधारमाधत्य विरचिताः सन्ति, उभयत्र च नितान्तं साम्यमस्ति । २२ अध्यायात् २४ अध्यायपर्यन्तानां वर्ण्यविषयाः--एकाह-अहीन-सत्रसम्बद्धाः सन्ति । खण्डस्यास्य मूलाधारः ताण्डय-महाब्राह्मणो विद्यते । ,अतद् वैशिष्टयं विद्यते यत्-- ताण्डयमहाब्राह्मणः सामवेदस्य प्रधाने ब्राह्मणे सत्यपि अस्मिन् शुक्ल-यजुर्वेदीये ब्राह्मणेऽतीवोपयोगो दृश्यते । एवमेव पञ्चविंशतितमेऽध्याये च प्रायश्चित्तस्य वर्णनं विद्यते । इति तु सुविदितमस्ति यदुत्पातानां शमने यज्ञे च विहितानां त्रुटीनां परिमार्जनं प्रायश्चित्तेनैव भवति । पर्यन्ते पड्विंशतितमेऽध्याये प्रवर्यस्य समीचीनं वर्णनं विद्यते । अनेन बहुविधवर्णनेन सह कात्यायनश्रौतसूत्रस्य समाप्तिर्भवति ।

अनेन प्रस्तुतेनोपर्युक्तेन विवरणेन श्रौतसूत्रविषयस्य सामान्या स्थितिः अस्मत् समक्षं समायाति । यद्यपि ब्राह्मणग्रन्थेष्वपि यज्ञ-यागादीनां विधानं समुपलब्धं भवति । परञ्च तद्वर्णनं क्वापि सुविस्तृतं, क्वचिच्च भिन्न-भिन्नाध्यायेषु विकीर्णरूपेण प्राप्यते । श्रौतसूत्राणां मुख्यमुद्देश्यं श्रौतयागानां सक्षेपेण सुव्यवस्थितं क्रमबद्ध प्रतिपादनमस्ति । अमुमेव मूलोद्देश्यं मनसि निधाय तद्विरचयितुभिः ब्राह्मणेषूपलब्धानां मूलसामग्रीणां क्वचिद्विस्तरेण क्वचित् सङ्क्षपेण विरच्य पिपठिषूणां कृते बोधगम्यं सरलीकृतञ्च कात्यायनश्रौतसूत्रस्य मूलनिर्देशकं शतपथब्राह्मणमेवास्ति, परञ्च त्रिष्वध्यायेषु ताण्डय महाब्राह्मणस्यापि साहाय्यं वर्तते । अस्य श्रौतसूत्रस्योपरि कर्काचार्यस्य सुविस्तृतं भाष्यं निगूढरहस्योद्भेदनाय कुञ्चिकवास्ति । यस्याधारमादाय विरचिता म० म० विद्याधर गौडमहाशयस्य सरलावृत्तिरपि नितान्तं महत्त्वपूर्णोपादेया च विद्योतते ।

शुक्लगजुर्वेदस्य गृह्यसूत्रम्[सम्पादयतु]

पारस्कर-गृह्यसूत्रमिति नाम्ना जगति सुविख्यातमस्ति । अस्य त्रियु काण्डेषु प्रथमे काण्डे ---आवसथ्याग्नेराधानम्, विवाहकार्यम्, गर्भाधानादार भ्यान्नप्राशनं यावत् वणितमस्ति । द्वितीये काण्डे-चूडाकरणोपनयन-समावर्तन-पञ्च महायज्ञ-श्रवणाकर्म-सीता-यज्ञादीनां महत्त्वपूर्ण विवरणमस्ति । अन्तिमे तृतीयेकाण्डे च-श्राद्धकृत्यानन्तरम् अवकीणि-प्रायश्चित्तादीनां विविधविधानानां गूढं प्रतिपादन मस्ति । अस्य टीका भाष्यसम्पद एव लोकप्रियताया द्योतिकाः सन्ति । अस्य कर्कादि पञ्चभाष्यकाराणां व्याख्याः गृह्यस्यार्थगौरवं प्रतिपादयन्ति । इमे पञ्च व्याख्यातारः सन्ति-कर्क-जयराम-हरिहर-गदाधर-विश्वनाथप्रभृतयः । हरिहरस्य पद्धतिरपि यजु

दिनां कर्मकाण्डस्य निरूपिका महत्त्वपूर्णा चास्ति ।

कात्यायनश्राद्ध-सूत्रम्[सम्पादयतु]

प्रस्तुतमिदं सूत्रं श्राद्धविषयस्य वर्णनं विस्तरेण सम्पाद यति । अस्मिन् सूत्रसंवलिताः नव कण्डिकाः सन्ति । अस्योपरि तिस्रष्टीकाः विद्यो तन्ते । ताश्च यथा-कर्काचार्यस्य, गदाधरस्य, कृष्ण मिश्रस्य च श्राद्धकाशिका । हलायुधस्य व्याख्याया उल्लेखः श्राद्धकाशिकायाः प्रारम्भिके द्वितीयश्लोके प्राप्यते । कात्यायनस्य कृतित्वाद् ‘कातीयश्राद्धसूत्रमिति नाम्ना प्रख्यातमस्ति । कात्यायन राचतं शुल्वसूत्रं काश्याम् अच्युतग्रन्थमालातः प्रकाशितमस्ति । अस्मिन् सप्त कण्डिकाः त । यासु प्रथमकण्डिकायां परिभाषायाः प्रकरणमस्ति । इत्येव नहि-वेदिनिर्माणस्य चतुरस्रादिक्षेत्रस्य चित्यादीनां निरूपणञ्चाप्यत्र गृहीतमस्ति । ज्यामितेः वैदिकयुगीनं प्रतिपादनमत्यन्तं महत्त्वपूर्णमस्ति ।

पारस्करस्य टीकाकाराः[सम्पादयतु]

(१) कर्क:- इमे वैदिकवाङ्मयस्य चिरपरिचिताः मान्याष्टीकाकाराः सन्ति । एभिः कात्यायनस्य श्रौतसूत्रे पारस्करस्य गृह्यसूत्रे च चोभयत्रापि सारगर्भिता टीका सुमनोभिष्टीकिताः । धर्मशास्त्रकारेण हेमाद्रिणा स्वकीये कालनिर्णये ( त्रयोदशशत. कस्यान्तिमे चरणे ) त्रिकाण्डमण्डनं समुद्धतम्, अपि च स्वमहनीये ग्रन्थे आपस्तम्ब, ध्वनितार्थकारिकायां द्वि-त्रिस्थलेषु ककाचार्यः समुद्धतः । तत्र विज्ञेन हेमाद्रिणा श्राद्धनिर्णये कर्कमतः विखण्डितः । इत्थं हेमाद्रेः त्रिकाण्डमण्डनाच्च प्राचीनतरः कर्कः। तद्व्याख्यायाः नाम 'गृह्यसूत्र-भाष्यम्' अस्ति । पूर्वाचार्याणां यथा व्याख्यापद्धतिर्भवति तादृश्येव स्वल्पाक्षरैरावश्यकपदानामत्र व्याख्या विहिताऽस्ति, न तत्र किञ्चिदप्यभीष्टं

वस्तु परित्यक्तम्।

(२) जयरामः- एते महान्तो वीरवसुन्धराया मेवाडस्य निवासिन आसन् । भारद्वाजगोत्रोत्पन्नस्याचार्यस्यापरनामकस्य दामोदरस्य पौत्रा आसन् । एषां जनकस्य नाम बलभद्र आसीत् । एभिः कृतभाष्यस्य नाम-सज्जनवल्लभः । मन्त्राणां सुस्पष्टा व्याख्या अस्य भाष्यस्य वैशिष्ट्य मस्ति । पाठ-संशोधनमत्र कामप्यनिर्वचनीयतां प्रकटयति । तत्तचितवेदानां पाठं विशिष्टवैदिकानां मुखेभ्यः श्रुत्वा एभिर्मन्त्राणां पाठनिर्धारणं कृतम् । यत्रान्यष्टीकाकृद्भिः पद्धतौ अर्थे चाग्रहः प्रदर्शितस्तत्र वेद पण्डितेन जयरामेण गृह्यसूत्रे समुद्धृतानां मन्त्राणां व्याख्यानामतिकौशलेन प्रामाणिक तया च कृतमस्ति । एतदेवास्य वैशिष्टयम् ।

( ३ ) आचार्यो हरिहरः- एतेन महता स्वकृतटीकायां विज्ञानेश्वरमतं समुद्धत मिति हेतोः एषां काल: पञ्चाशदुत्तरकादशशतकादनन्तरमेव सिद्धयति । अपि च श्रीदत्तेन स्व-'आचारादर्श' हेमाद्रिणा च श्राद्धप्रकरणे एतन्मतं स्थापितम्, फलतः एषां समयो द्वादशशतकान्तरालवर्ती । एते महान्तोऽनुमानेनोत्तरभारतस्य विशेषतः कान्यकुब्जप्रदेशनिवासिनः प्रतीयन्ते। हरिहरस्य व्याख्या टीकापेक्षया पद्धतेः स्वरूप धारणादतिशय महत्त्वं धारयति । हरिहरेणास्यां पद्धतौ महता समारम्भेण गृह्यकर्म काण्डस्य वर्णनं कृतमस्ति । गृह्यसूत्रस्य सर्वतोऽधिका लोकप्रिया व्याख्या इयमेवास्ति । हरिहरस्य धर्मशास्त्राध्ययनं महत्त्वपूर्णमस्ति । एतेषां रचनायां वैवस्वतमनोः, वृद्ध शातातपमहर्षेः, याज्ञवल्क्यस्य, अङ्गिरसः, हारीतस्य, सुमन्तोः लौगाक्षेश्च-मतानि समद्धतानि सन्ति । टीकाप्रारम्भे कस्यापि वासुदेवनामकस्याचार्यस्य समादरपूर्वक स्मरणं कृतमस्ति, तन्मतञ्चानुसृतं टीकायाम् । अस्याः व्याख्याया अभिधान विद्यते 'गृह्यसूत्रव्याख्यानम् । एते स्वात्मानमग्निहोत्रिणः ख्यापयन्ति ।

(४) आचार्यो गदाधरः- अनेन प्रबुद्धेन आचार्येण प्राचीनाचार्याणां मतान्या लोच्य स्वव्याख्यायां विस्तरेणोल्लेखः कृतः । एतादृशेष्वाचार्येषु भर्तयज्ञः, वासदेवः, गङ्गाधरः, रेणुदीक्षितः, हरिहरादयश्व मुख्याः सन्ति । हरिहरविषये मतखण्डने तत्र वाक्यमिदमस्ति यत् 'अत्र हरिहरमिश्ररबुद्ध्वैव पाण्डित्यं कृतमस्ति' । एवमेव परुष'शब्दार्थस्य व्याख्यायां विविधाचार्याणां मतमाकलितमस्ति । तद्यथा इमे 'कोऽपि बलशाली पुरुष' इति हरिहरः, जितेन्द्रिय:-भर्तयज्ञः, जामाता रणकः गङ्गाधरश्च । एष्वर्थेषु गदाधरेणान्तिमोऽर्थः स्वीकृतः ।

अन्यत्र च कर्क-जयराम भर्तयज्ञानां मतान्यालोच्य हरिहरमतं स्वीकृतम् । अत्र भाष्ये समुद्धता: ग्रन्थाः ग्रन्थकाराश्चेमे सन्ति--मनुः, याज्ञवल्क्यः, हारीतः, आपस्तम्बः, व्यासः, मिताक्षरा पराशरः, मदनरलम्, वृद्धशातातपः, स्मृत्यर्थसारः, मदनपारिजातः, वशिष्ठः प्रयोग पारिजातः हेमाद्रिश्च । गदाधरस्याभिरुचिः ज्योतिषतत्त्वविषयेऽधिका विद्यते । अतः एभिः संस्काराणां समुचितकालनिर्णयाय ज्योतिषग्रन्थानां सदुपयोगः कृतः । एतादृशो विख्यातो ग्रन्थः रत्नकोशो विद्यते ।

कादाचित्करूपेण मूलग्रन्थेऽनुल्लिखितानां विषयाणां विवरणमपि प्रदत्तमस्ति । गदाधरस्य भाष्ये 'गृह्य भाष्ये' भर्तयज्ञ-जयरामयोः भाष्य योविशेषः प्रभावो दृश्यते । व्याख्याता गदाधरः कस्यापि संस्कारस्य व्याख्यायां तद्विषयेऽनेकविधानां मतानां सारसङ्ग्रहणं महता विस्तरेण करोति । एतदेवास्य वैशिष्टयम् । एषां पितुर्नाम वामनदीक्षित आसीत् । एते 'विरग्निचित्-सम्रोड्-स्थपति महायाज्ञिकस्योपाधिना विभूषिताः सन्ति । यतो ह्यत्र हेमाद्रेश्चर्चा विद्यतेऽतो ह्यस्य कालः पञ्चाशदुत्तरचतुर्दशशतकं यावदिति निष्कर्षः ।

(५) विश्वनाथः - इमे नन्दपुरस्य काश्यपगोत्रिणो नागरब्राह्मणा आसन् । पितुर्नाम नरसिंहो मातुश्च गङ्गादेवी। ययोः स्मरणं टीकायाः प्रारम्भे कृतमस्ति । एषां व्याख्याया: नाम 'गृह्यसूत्रप्रकाशिका' विद्यते, याऽवसाने खण्डिताऽऽसीत् । ग्रन्थान्तिमानां पञ्चखण्डानां टीकाग्रन्थकृतः पितृव्यस्यानन्तस्य प्रपौत्रेण लक्ष्मीधरेण १६९२ वैक्रमाब्दे लिखिता। इमे स्तम्भतीर्थादागत्य ( खम्भात-गुर्जरप्रदेशात् ) काश्यां वसति चक्रः । अत्रैव काश्यां व्याख्येयं पूर्णतामगात् । इत्थं विश्वनाथस्य काल: पोडश शताब्द्याः उत्तरार्धः सिद्धयति । परिमाणेनेयं व्याख्या नितान्तं विस्तृता गम्भीरा च विद्यते ।

वैजवापगृह्यसूत्रम् – अपरञ्च शुक्लयजुर्वेदस्यैकस्यान्यस्य गृह्यसूत्रस्यापि परिज्ञानं भवति । यस्य रचयितुर्नाम बैजवापो विद्यते । सुप्रसिद्धे चरणव्यूहे शुक्लयजुर्वेदस्य पञ्चदश शाखासु वैजवापमन्यतमं स्वीक्रियते । बैजवापस्य कल्पसूत्रस्य प्रथमतो निर्देशः विख्यातेन कुमारिल भट्टेन स्वतन्त्रवातिके कृतोऽस्ति ।

आश्वलायनकं सूत्रं वैजवापिकृतं, तथैव कात्यायन-कल्पसूत्रस्यातिपुरातनेन व्याख्याकारेणाचार्येण 'पितृभूति' इत्याख्येन बैजवाप-श्रौतसूत्रस्यैकं सूत्रमपि समुद्धृत मस्ति । तद्यथा-एवञ्च बैजवापेनाचार्येण सूचितं—न सावित्रीमाह इति । . .

अन्यत्राप्येतैः बैजवापस्य नामनिर्देशः कृतः । आचार्यस्य पितृभूतेः कालो नवम शताब्द्यनन्तरं न कथमपि स्वीकार्यः । महर्षिणा कात्यायनेन विरचितैका श्रौतपद्धति रप्युपलब्धाऽऽसीत्-यस्याः संजैव 'सम्प्रदाय' इत्यासीत्। एतस्या निर्देशा उद्धरणानि च बहुषु प्राचीन ग्रन्थेषुपलभ्यन्ते । किम्बहुना-याज्ञवल्क्यस्मृतौ 'बालक्रीडा'व्याख्या प्रणेत्रा विश्वरूपाचार्येणोक्तव्याख्यायामस्याः पद्धतेः उल्लेखः कृतः । पितृभूतिः विश्वरूपात् प्राचीनतमः आचार्यः प्रतीयते । तस्मात् बैजवापस्य कालो नितरां प्राची सिद्धयति ।

इत्येव न हि बैजवापस्य गृह्यसूत्रस्योद्धरणमनेकेषु प्राचीनमध्यकालीनेषु धार्मिक निबन्धेष्वप्युपलब्धं भवति । एष्वपरार्कस्मृतिचन्द्रिकयोः सर्वतोऽधि को प्राचीनौ व्यास कारौ स्तः, यौ स्वग्रन्थेषु बैजवापं स्मरतः । किम्बहुना-अपरार्केण 'विनायकपूजायाः समस्तः प्रसङ्गः बैजवापगृह्यसूत्रात् समुद्धतम् । विनायकेन समाक्रान्तः पुरुषो नानाविधान स्वप्नान् पश्यति । तद्यथा--विनायकोपसृष्टलक्षणं खलु भवति-स्वप्ने सर्पान् पश्यति । अत्यन्तमपोऽवगाहते । अन्तरिक्ष कामति । पांसुकर्दमे चावसीदति । पृष्ठतो मां कथित धावतीति मन्यते । उष्ट्रान् गर्दभान् शुनी दिवाकीर्तिमांन्याश्चाप्रयातान् पश्यति । स्वप्ने दृष्टानेतानुपद्रवान् झटिति दूरीकरणार्थमुपायानां वर्णनं मिलति । श्रीमता भगवद्दत्तेन 'बैजवापगृह्यसूत्रसङ्कलनम्' इति नाम्ना समुपलब्धान् अंशान् महता श्रमेणे कत्रीकृतम्।

अनेन प्रकारेण शुक्लयजुर्वेदीयश्रौतसूत्राणां परिचयानन्तरं कृष्णयजुर्वेदीयश्रौत सूत्राणां यथोपलब्धानां परिचयः प्रदीयते ।

कृष्णयजुर्वेदीय-श्रौतसूत्राणि[सम्पादयतु]

( १ ) 'बौधायनश्रौतसूत्रम्,

( २ ) आपस्तम्बः,

( ३ ) हिरण्यकेशी वा सत्याषाढः,

( ४ ) वैखानसः,

(५) भारद्वाजः,

( ६ ) मानवश्रौतसूत्रञ्च ।

एष्वादितः पञ्च तैत्तिरीयशाखया, अन्तिमञ्च मैत्रायणी शाखया सम्बद्धानि सन्ति । एषु बौधायन-आपस्तम्बशाखाभ्यां च कल्पस्य चतुरो ग्रन्थान्–श्रौत-गृह्य-धर्म-शुल्वविशेषान् पूर्णतमान् विचक्रिरे। एते ग्रन्थाः पारस्परिक रूपेण तथा सम्बद्धाः सन्ति येन वयमेकस्यैव ग्रन्थस्य खण्डचतुष्टयं स्वीकरिष्यामः । एकेनवाचार्येण बौधायनेनाथवाऽऽपस्तम्बेन तत्तत् कल्पसूत्राणां प्रणयनं कृतमिति सिद्धान्तमनुसरणे न कापि विप्रतिपत्तिर्दृश्यते न वा संशीतिः । ग्रन्थकारयोरैक्यभावं नापि कोऽपि स्वीकुर्यात्, परञ्चैतत्तु संशीतिरहितं तथ्यमस्ति यदिमे समना ग्रन्था एकस्यामेव समानशैल्यां निर्मिताः सन्ति । एषु प्रतिपादनमैक्यमपि सुस्पष्टमस्ति । कल्पसूत्रेष्वेषु बौधायन-मानवौ निश्चितमेव प्राचीनतमौ स्तः, यतो ह्यनयोरुल्लेख आपस्तम्बसूत्रे समुपलब्धो भवति ।

(१) बौधायन-श्रौतसूत्रम् - अस्य सम्पादनं पाश्चात्यविदुषा डॉ० 'कैलेण्ड' महाशयेन कृतम् । तथा च गोविन्दस्वामिनो भाष्येण सह दक्षिणभारते महीशूरात् ( मैसूर ) प्रकाशितमिदं सूत्रम् । अनेनैव प्रकारेण बौधायनगृह्यसूत्र-धर्मसूत्र शुल्वसूत्राण्यपि प्रकाशितानि सन्ति । तत्र बौधायनश्रौतस्य सम्पादन डॉ करोड महाशयेन बिब्लिओथिका-इण्डिका-कलिकातातस्तथा गोविन्दस्वामिनो भार महीशूर( मैसूर )नगरात् अभूताम् । गृह्य-धर्मयोः प्रकाशनं 'गवर्नमेण्ट ओरियण्टल लाइब्रेरी' महीशूरनगरे अभूत् । तथैव शुल्वसूत्रस्य परिष्करणमांग्लानवानख प्रख्यातेन प्राच्यविद्याविशारदेन डॉ० थीवोमहाशयेन 'पण्डित'पत्रस्य नवम भागे ( काश्याम् ) कृतम् ।

(२) आपस्तम्ब-फल्पसूत्रम्- इदं कल्पसूयं त्रिपु प्रश्नेप्वध्यायेपु वा विभक्त मस्ति । अपि च पूर्णरूपेण सुरक्षितं सर्वाङ्गपूर्णञ्चास्ति । आपस्तम्बश्रोतसूत्रस्य मुख्यः सम्बन्धः तैत्तिरीयब्राह्मणेन सह विद्यतेऽत एवाय कारणं यद् ब्राह्मणस्य यागविधा नानां विशिष्टं सारभितञ्च वर्णनमत्रोपलब्धमस्ति । एवमेव ---आपस्तम्बगृह्यसूत्रे त्रिंशत् खण्डानि सन्ति, येषु विवाह-उपनयन-उपाकर्मोत्सर्जन-समावर्तन-मधुपर्क-सीमन्तो नयनादीनां त्रयोविंशतिविषयाणां मुख्यतः प्रतिपादनमस्ति ।

आपस्तम्बधर्मसूत्रे च ब्रह्मचर्यस्य, भोजनविचारस्य प्रायश्चित्तादेच मुख्यानां विषयाणां वर्णनमस्ति । आपस्तम्बपरिभापासूत्रं कप दिस्वामिनो भाष्येण हरदत्तस्य व्याख्यया च प्रकाशितमस्ति ।

श्रौतसूत्रसाहित्ये बौधायनश्रौतसूत्रमतिप्राचीन मिति विदन्ति वैदिकविद्वांसः । इदं श्रौतसूत्रं एकोनत्रिशत्प्रश्नेष्वध्यायेषु वा विभक्तमस्ति । प्रत्येकस्मिन् प्रश्ने कण्डिकाः सन्ति, यासु कण्डिकासु आभ्यन्तरे सूत्राणां सत्ता अस्ति । अत्रास्याः शैल्याः वैशिष्टयमस्ति यदस्याः कण्डिकायाः वाक्यं सन्धियुक्तरूपेण प्रस्तुतमस्ति । अतोऽस्याः सूत्ररूपेऽवान्त रविभाजनस्य न कोऽपि सङ्केतः प्राप्यते ।

परिणामतः सूत्रमिदं ब्राह्मणानां शैल्या सम्पृक्तमिव प्रतिभाति । वैशिष्टयञ्चेदं प्राचीनतां सङ्केतयति । आपस्तम्बश्रौतं चतुर्विशति ( २४ )प्रश्नेषु विभक्तमस्ति । यस्याभ्यन्तरे कण्डिकानां सूत्राणाञ्चास्तित्वं विद्यमानमस्ति । वर्ण्यविषयाः बौधायनश्रौतस्यैव सन्ति परञ्चोप स्थापनशैली नितरां भिन्ना प्रतिभाति । अपरञ्च-कात्यायनश्रौतसूत्रमिव लघ्वक्षरसूत्रेषु विभक्तमस्ति । परञ्च सूत्राणि न तथा सुसम्बद्धानि व्यवस्थितानि च सन्ति । सूत्रेषु शैथिल्याय स्थानमस्तीति विद्वज्जनसम्मतः ।।

(३) हिरण्यकेशी किंवा सत्याषाढश्रौतसूत्रम् – कृष्णयजुर्वेदस्य श्रौतसूत्रमिदं महत्त्वदृष्टया न्यूनमस्ति । अस्मिन् चतुर्विंशतिः ( २४ ) प्रश्नाः सन्ति, येषु विविध यागविधानानां वर्णनं कृतमस्ति । इदं सूत्रमापस्तम्बश्रौतसूत्रेण सह घनिष्ठसम्बन्धं स्थापयति, बहुषु स्थलेषु च तत्सूत्राणि सहसव गृह्णाति । सूत्रशैल्यां ग्रथिते सत्यपि अस्य शैली तथा तादृशी वा सुसंयता लघ्वक्षरा च नास्ति ।

(४) वैखानसश्रौतसूत्रम् - इदमपि तैत्तिरीयशाखया सम्बद्ध मस्ति । अस्योपरि बौधायनश्रौतसूत्रादीनां पूर्ववणितानां त्रयाणां सूत्राणां विशेषः प्रभावो दृश्यते । कल्प सूत्रस्य द्वात्रिंशदध्यायेपु स्थितेषु एकविंशति ( २१ ) प्रश्नेषु श्रौतयागानामेव विवरणमुप लब्धमस्ति । बौधायनश्रौतसूत्रस्येवास्य ग्रन्थस्य रचना-शैली विद्यते । वाक्यानि दीर्घरूपे प्राप्नुवन्ति, येषु सूत्राणां विभाजनमसम्भवम् । तस्मात् सूत्रं सूत्रमिव न प्रतिभाति । अपि तु लम्वायमानानि गद्यानीव विद्यमानानि सन्ति । अनेनैव सम्बद्ध वैखानसधर्मसूत्रमप्यस्ति । यस्य सम्पादनमांग्लानुवादेन साकं पाश्चात्यविदुषा डॉ० कैलेण्डमहाशयेन कृतं कलिकातातः प्रकाशितम् । कृष्ण-शुक्लयजुषोः श्रौतसूत्रेभ्यो विपरीतमग्न्याधानात् प्रारब्धो भवति । तदनन्तरमग्निहोत्रहोमस्य वर्णनं विद्यते । पिण्डपितृयज्ञस्य वर्णनं वैखानसस्मार्तसूत्रे विद्यते, यतः उभयोः सूत्रयोः अपेक्षया इदमेव प्राचीनतमं स्वीक्रियते ।

(५) वाधूलश्रौतसूत्रम् - इदमपि तैत्तिरीयशाखया सम्बद्धं श्रौतसूत्रमस्ति । असे प्रकाशनम्-अनुवादेन, भाषाशास्त्रीयटिप्पणीविभूषितया भूमिकया सह डॉ० कैले महाशयेन कृतम् । अस्योपर्येका टीकाऽपि प्राप्ता भवति । विदुषां मते हस्तलेखन इतस्ततो भावात् अस्य विमर्शात्मकस्य संस्करणस्यात्यन्तमावश्यकता वरीवत्ति।

(६ ) भारद्वाजश्रौतसूत्रम् - महर्षेः भारद्वाजस्य नैकटयसम्बन्धः कृष्णयजुर्वेदस्य तैत्तिरीयशाखातः परिज्ञायते । भारद्वाजशाखीयकल्पसूत्राणामनेके ग्रन्थाः समुपलब्धाः सन्ति । भारद्वाजगृह्यसूत्रस्य प्रकाशनं तु बहुकालपूर्वं हालेण्डात् अभवत् । सम्प्रति भारद्वाजसम्बद्धयोः श्रौतसूत्रयोः परिशिष्टसूत्रस्य चैषां त्रयाणां सूत्राणामेकत्र सम्पादन मांग्लानुवादेन सह डॉ० चिन्तामणिगणेशकाशीकरेण कृतं तच्च वैदिकसंशोधनमण्ड लात् भागद्वये १९६४ ईसवीये प्रकाशितमस्ति । भारद्वाजश्रौतसूत्रस्य तैत्तिरीयशाखया सम्बद्धाया घटनायाः प्रमाणं तैत्तिरीयसंहिताया मन्त्राणां तस्मिन् विस्तरेणोद्धरण मस्ति । अत्र ‘इति विज्ञायते' इति सङ्केतमादाय ब्राह्मणवाक्यानामुद्धरणानि सन्ति, येषु बहून्युद्धरणानि तैत्तिरीयब्राह्मणादुद्धतानि सन्ति । कृष्णयजुषो मैत्रायणीसंहिताया: काठकसंहितायाश्चापि मन्त्राः समुद्धृताः सन्ति ।

'भारद्वाजपैतृमेधिकसूत्र' प्राचीनकालेऽतिशयं महत्त्वपूर्णमासीत् । तत्र कारणं विद्यते यत्-आपस्तम्ब-हिरण्यकेशीशाखयोस्तस्मिन् युगे एतद्विषयकं स्वकीयं सूत्रं नासीत् अतस्तदध्ययनशीला भारद्वाजपैतृकमेधिकसूत्राणां स्वग्रन्थेषूपयोगं कुर्वन्ति स्म । एतत्तथ्यं टीकाकारैः स्पष्टीकृतमिति । ग्रन्थानामन्तरङ्गसाक्ष्यः प्रतीयते यत् भारद्वाजश्रौतसूत्रं बौधायनश्रौतसूत्रादुत्तरकालीनमस्ति । परञ्चापस्तम्बश्रौतात्तत् पूर्व तनं विद्यते । वस्तुतस्तथ्यप्राप्तये एषां त्रयाणां रचनाशैल्याः, विषयप्रतिपादनस्य मन्त्रो द्धरणपद्धतेश्च समीक्षा कर्तव्येति शेषः ।

भारद्वाजश्रौतसूत्रस्य हस्तलेखाः प्रायो दक्षिणभारते ( उपलब्धाः भवन्ति ) प्राप्यन्ते । इत्यनेन नैतद् युक्तिकरं यदस्य मूलोद्गमस्थानं दक्षिणभारतमेव । समीक्ष्यतां तावत्-अस्मिन् विषये नैरन्तर्येण । भारद्वाजगृह्य सूत्रस्य सीमन्तोन्नयनप्रकरणे एष इलोकः समायाति

'सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः ।

विवृत्तचक्रा आसीनास्तीरेण यमुने तव' ॥

एतदग्रे सूत्रकारस्य कथनमस्ति यत्-यस्याः नद्यास्तटे यजमानस्यावासो भवेत् तन्नद्याः नाम ऊहनीयमिति । अस्योदाहरणं यथा-'तीरेण वेगवति तव. तीरेण कार तव' । प्रस्तुतेनोदाहरणेन सिद्धधति यत्-टीकाकर्तुः देशो वेगवत्याः कावेर्या वा तटे आमीदित्यनमानम् । पूर्वोक्तश्लोक: भारद्वाजगोत्रोत्पन्नानां मूलस्थानं तरणितनजा यास्तटे प्रमाणयति । आपस्तम्बश्रोते भारद्वाजश्रोते च पारस्परिक साम्यं गरिन सम्बन्धश्चासीत् । एतत् साम्यमुभयोभौगोलिकसाम्ये आधृतमस्ति । आपस्तम्बस्य मलदेशः उत्तरभारतमेवास्ति न तु दक्षिणभारतमिति समीक्षकाणां दृढं मतमस्ति ।

पिशिष्टं पिपरणमेतस्य समस्य पर्यविषया:- भारद्वाजश्रौतसूत्रे पचवश प्रपना

अध्याया वा सन्ति । येषु वर्ण्यविषयाः क्रमश इमे सन्ति-दर्शपौर्णमासः, अग्न्याधेयः, अग्निहोत्रम्, आग्रयणं, निरूढपशुबन्धः, चातुर्मास्यं ( वैश्वदेवं पर्व, साकमेधं पर्व, शुना सीरीयं पर्व, काम्यं चातुर्मास्यं, पञ्च सांवत्सरिकम् ), पूर्वप्रायश्चित्तम्, ज्योतिष्टोमः ( प्रातःसवनं, माध्यन्दिनं सवनम्, तृतीयं सवनम् ) ज्योतिष्टोमब्रह्मत्वं चेति ।

भारद्वाजपतृमेधिक-सूत्राणां मुख्यो विषय:-श्राद्धस्यानेकविधानान्यनुष्ठानानि । अत्र द्वौ प्रश्नौ स्तः-ययोः क्रमेण प्रेतसंस्कारः, श्मशाननयनम्, दाहचितिः, पात्रचयः, अस्थिसञ्चयनम्, श्मशानचितिः इत्यादि विषयाः क्रमेण सूत्रेषु वर्णिता: सन्ति ।

अपरञ्च भारद्वाजपरिशेषसूत्रं यज्ञीयपरिभाषायाः व्याख्याविवेचकं सूत्रमस्ति । अतस्तस्यैवापरं नाम परिभाषासूत्रमप्यस्ति । येषां गणनात्मिका संख्या-द्वाविंशत्युत्तरं द्विशतमस्ति । एषां सूत्राणामतिरिक्तमन्यापि काचित् सामग्री—विभिन्नवैदिक ग्रन्थेषु भारद्वाजनाम्ना ग्रथिताः सन्ति । परञ्च भारद्वाजीयग्रन्थेषु नोपलब्धा भवन्ति । अनेन प्रतीयते यत्-श्रौतस्य विषये भारद्वाजविरचिता अन्येऽपि ग्रन्था उपलब्धा आसन्, येभ्य उद्धरणानि तत्तद्ग्रन्थेष्वद्यापि समुपलभ्यन्ते ।

अपरञ्च-यद्यपि भारद्वाजधर्मस्याद्यत्वे समुपलब्धिर्न भवति परञ्चास्य सत्ता तु प्राचीनकाले विद्यमानवासीत् । आचार्येण विश्वरूपेण याज्ञवल्क्यस्मृतौ बहुशोऽनेक विधः प्रयोगः कृतः। अत्रायं सुस्पष्टो निष्कर्षो यत्--भारद्वाजस्य समग्रं कल्पसूत्रम वश्यमेव विद्यमानमासीत् । तदन्तर्गतानि श्रौत-गृह्य-धर्मसूत्राणि समुपलब्धानि भवन्ति । एषु कानिचित् प्रकाशितानि सन्ति । इत्थं वैदिक-कर्मानुष्ठानस्येतिहासे भारद्वाजस्य योगदानमतिशयं महनीयमादरणीयञ्चास्ति ।। - महर्षिणा भरद्वाजेन विरचितायाः पद्यगुम्फितायाः स्मृतेः उल्लेखोऽपि मिलति । स्मृतिचन्द्रिकायाः कर्ता हरदत्तेन चास्याः स्मृतेः पद्यानि समुद्धृतानि सन्ति । पराशरमाधवीये शतपथब्राह्मणस्योल्लेखा भारद्वाजनाम्ना विहिताः सन्ति । हेमाद्रि विज्ञानेश्वर-बालम्भट्टप्रभृतिभिः आचार्यैः भारद्वाजस्मृतित उद्धरणानि गृहीतानि । अतो भारद्वाजस्मृतेः सत्तायां न कोऽपि सन्देहः न कापि विप्रतिपत्तिश्चेति ।

(७) मानवश्रौतसूत्रम्- श्रौतसूत्रमिदं कृष्णयजुर्वेदस्य मैत्रायणीशाखया सम्बद्धः प्राचीनतमेषु सूश्रेष्वन्यतमं मन्यते । सम्पूर्णो ग्रन्थः पञ्चाध्यायेषु विभक्तोऽस्ति, प्रत्येका ध्यायश्च खण्डेपु विभाजितो विद्यते । तत्र प्रथमेऽध्याये दर्शपौर्णमासस्य, पिण्डपितृयज्ञस्य, अग्न्याधानस्य, अग्निहोत्रस्य, अग्न्युपस्थापनस्य, आग्रयणस्य, पुनराधानस्य, चातुर्मा स्यस्य, पितृयज्ञस्य, पञ्चसांवत्सरिकस्य, पशुबन्धस्य च विवरणं विद्यते । द्वितीयेऽध्याये ऽग्निष्टोमस्य विशदं वर्णनं विद्यते । तृतीयेऽध्याये प्रायश्चित्तस्य, चतुर्थेऽध्याये प्रवर्गास्य, पञ्चमेऽध्याये चेप्टे: वर्णनमस्ति । अस्य शैली वर्णनात्मिका वर्तते। कृष्णयजुर्वेदस्य च ग्राह्मणैः साम्यं स्थापयति, परञ्चास्मिन् आख्यानादेः सत्ता नैवास्ति या ब्राह्मणानां विशिष्टो विषयः ।

मानवधर्मसूत्रस्य पञ्चाध्यायाः पाश्चात्यविदुषा वनाएउरेण सेण्टपीटर्सवर्गतः प्रकाशिताः, षष्ठाध्यायश्च गेल्डरेणानुवादेन सह सम्पादितः । अपरञ्च मानवगृह्यसूत्र मष्टावक्रभाष्येण सह गायकवाड़ओरियण्टलसीरीजवगैदातः प्रकाशितमस्ति ।

(८) वाराहश्रौतसूत्रम् - इदमपि श्रौतसूत्रं मैत्रायणीशाखया सुसम्बद्धमस्ति, अस्मिन् त्रयोऽध्यायाः सन्ति, प्रत्येकोऽध्यायः खण्डमस्ति । तत्र प्रथमेऽध्याये दर्शमासस्य अग्न्याधानस्य, पशुबन्धस्य, चातुर्मास्यादीनाञ्च, द्वितीयेऽध्यायेऽग्निचयनस्य तृतीयेऽध्यारे च वाजपेय-राजसूय-अश्वमेधयागानां वर्णनं विद्यते । यागानुष्ठानानां विशदं वर्ण कात्यायनश्रौतसूत्रस्येवोपलब्धं न भवति । सूत्राण्यल्पकलेस्वराणि परिज्ञाने च सारल्येन सुबोधानि सन्ति । एतच्छुत्रं हौत्र-काम्ययोः दर्शपूर्णमासस्य वर्णनं न करोति । एतच्च सूत्रं डॉ०कैलेण्ड-डॉ० रघुवीराभ्यां सम्पादितं लवपुरात् प्रकाशितमस्ति ।

कृष्णयजुर्वेदस्य मैत्रायणीशाखायाः स्थानविषये चरणव्यूहस्य टीकायामयं श्लोकः प्राप्यते

'मयूरपर्वताच्चैव यावद् गुर्जरदेशतः ।

व्याप्ता वायव्य-देशात्तु मैत्रायणी प्रतिष्ठिता' ॥

अत्रायमाशयः- महाराष्ट्रप्रदेशस्य नासिकमण्डलस्थितात् मयूरपर्वतादारभ्य गुर्जर प्रदेशं यावत् यो हि भागस्तस्मिन् मैत्रायणीशाखा सुप्रतिष्ठिता विद्यते। अद्यापि सैषा स्थितिविद्यमाना विद्यते । मैत्रायणीशाखायाः सहयोगिनौ द्वौ ग्रन्थौ विशिष्टौ स्तः तौ च मानव-वाराही । अनयो: मानवशाखायाः श्रौत-गृह्ये उपलब्धे स्तः । मानव श्रौतसूत्रमानवगृह्यसूत्रे च प्रकाशिते स्तः । एवमेव वाराह-श्रौत-गृह्ये प्रकाशिते स्तः । वाराहगृह्यसूत्रं डॉ० शामशास्त्रिणा गायकवाड ओ० सी० बडोदातः प्रकाशितम् ।

अस्यैव ग्रन्थस्यान्यसंस्करणञ्च डॉ० रघुवीरेण १९३२ ईसवीये वर्षे प्रकाशितम् । वाराश्रौतसूत्रस्य सम्पादनं डॉ०कैलेण्ड-डॉ० रघुवीराभ्यां १९३३ ईसदीये कृतम् । अस्य श्रौतसूत्रस्यको हस्तलेखः समुपलब्धोऽस्ति, यस्मिन् वाराहपरिशिष्टमपि प्राप्त मस्ति । एतेनेदं सुस्पष्टं भवति यत् वाराहशाखाया अस्तित्वं पुराकाले सविशेष मासीत्, महाराष्ट्रे च 'धूलिया' इति नाम्नि नगरेऽद्यापि वाराहशाखाध्यायिनां .. ब्राह्मणानां वसतिर्विद्यते ।

(९) काठकश्रौतसूत्रम् - अस्य ग्रन्थस्य स्वल्पांश एवोपलब्धो भवति । ब्यूलर महाशयेन काश्मीरस्यान्वेषणे उपलब्धमेतत् । पिण्डपितृयज्ञात् सम्बद्धस्यास्य श्रौत सत्रस्य स्वल्पांशो भागः । सम्पूर्णग्रन्थोऽधुनापि नास्ति समुपलब्धः । काठककल्पसूत्रस्य गृह्यभाग: तिसृभिष्टीकाभिस्सह सारांशेन प्रकाशितः । अस्माकं सौभाग्येन सः गृह्य काठकश्रौतसूत्रस्येव खण्डितो नास्ति ।

कृष्णयजुर्वेदीयगृह्यसूत्राणि[सम्पादयतु]

(१) बौधायनगृह्यसूत्रम् - गृह्यसूत्रमिदं बौधायनकल्पसूत्रस्यैको विशिष्टोंs शोऽस्ति । महीशूर( मैसूर)राजकीय-ओरियण्टलपुस्तकालयसीरीजे प्रकाशित गृह्यसूत्रं परिभाषया गृह्यशेषेण पितृमेधसूत्रैश्च समन्वितमस्ति । अस्मिन् चत्वारः प्रश्नाः सन्ति । भिन्नेषु हस्तलेखेषु गृह्यसूत्रस्यास्य दश प्रश्नाः ( अध्यायाः ) उपला सन्ति, येनास्मिन् विविधपरिवर्तनानां परिवर्धनानाञ्च सङ्केतो मिलति ।

( २ ) भारद्वाजगृह्यसूत्रम् - गृह्यसूत्रमिदं भारद्वाजकल्पसूत्रस्यांशोऽस्ति, यस्मिन् श्रयः प्रश्नाः ( अध्यायाः ) सन्ति । अस्य प्रकाशनं लाइडेनस्य डॉ० सालोमन्स महाशयेन कृतम् । विज्ञेन सम्पादकेनास्य गृह्यस्य परिवर्धनविषये यन्मतमभिव्यक्तं तन्न समुचितं प्रतीयते । विवाहप्रकरणेऽनेकत्राधुनिकताया: सङ्केतो मिलति । तेन न चात्र क्षेपकस्य सम्भावना व्यक्तीभवति ।

(३) आपस्तम्बगृह्यसूत्रम् - आपस्तम्बकल्पसुत्रस्य सप्तविंशतितमप्रश्न एव गृह्य सूत्रमस्ति, यस्मिन् त्रिंशत् प्रश्नाः सन्ति । गृह्यमिदं मन्त्र पाठस्य मन्त्राणां निर्देशं करोति ये मन्त्राः कल्पसूत्रस्य २५-२६ प्रश्नयोः गृहीताः सन्ति । हरदत्तस्य अनाकुलावृत्त्या सुदर्शनावृत्त्या सुदर्शनाचार्यस्य च तात्पर्यदर्शन व्याख्यया सह 'चौखम्बासीरीजे' प्रकाशिता विद्यते ।

आपस्तम्बगृह्यसूत्रमष्टपटलेषु विभक्तमस्ति । प्रत्येकस्मिन् पटले खण्डानि सन्ति, येषां संख्या त्रयोविंशतिः अस्ति । खण्डेषु सूत्राणां स्थितिवर्तते । परिणामतः समस्तो ग्रन्थः सूत्रेषु विभक्तोऽस्ति । अस्य गृह्यस्य विषयः स एवास्ति यो ह्यन्यगृह्यसूत्रेषूप लब्धो भवति । अस्य द्वौ व्याख्याकारौ स्तः । तत्र प्रथमो हरदत्ताचार्यः यः पञ्चदश शताब्दीतः प्राचीनतरः, द्वितीयः सुदर्शनाचार्यः य: १६६८ वैक्रमाब्दे विरचितायां निर्णयसिन्धौ कमलाकरभट्टेन नाम्ना निर्दिष्ट: अर्वाचीनः विद्यते । हरदत्त महाशया: शवमतानुयायिनः सन्ति, अपि च कावेरी-तटनिवासिनो दाक्षिणात्या विद्वांस आसन्, यैः आपस्तम्बगृह्यसूत्रे गृह्यमन्त्रे, धर्मसूत्रे परिभाषायाञ्च व्याख्या लिखिता। आश्व लायनगृह्यसूत्रस्य 'अनाविला'टीकाया: गौतमधर्मसूत्रस्य च 'मिताक्षरा'व्याख्याया रचयितार इमे हरदत्ताचार्याः सन्ति ।।

(४) हिरण्यकेशिगृह्यसूत्रम् – अस्यापरं नाम सत्याषाढगृह्यसूत्रमस्ति, यत हिरण्यकेशिकल्पसूत्रस्यकोनविंशति-विंशतितमप्रश्नयोः समाहितमस्ति । गृह्यानणनेप अस्मिन् आवश्यका मन्त्राः समावेशिताः सन्ति । अत्र प्रयुक्ता अनेके शब्दा अपाणिनीयाः सन्ति । अस्योपरि मातृदत्तस्य प्रौढा प्राञ्जला च व्याख्या विद्यते । सारभितया टीकया सह मूलग्रन्थस्य सम्पादनं डॉ० क्रिस्तेमहाशयेन वियनातः प्रकाशितम । अस्यांग्लानुवादश्च 'सेक्रेड बुक आफ ईस्ट' इत्याख्यायां ग्रन्थमालायां डॉ० ओल्डन वर्गनामकेन विदुपा प्रकाशितम् ।

(५) वैखानसगृह्यसूत्रम् - तैत्तिरीयशाखया सम्बद्ध मिदं गृह्यसूत्रमवान्तरकालीनं. कथ्यते । सूत्रमिदमनुष्ठानेषु प्रयोजनीयानां मन्त्राणां केवलं प्रतीकानामेवोल्लेखयति । एषां सर्वेषां मन्त्राणां स्वतन्यं सङ्कलनं 'वैखानसीया मन्त्रसंहिता' इति स्वरूपे कत मस्ति । गृह्यस्य मन्त्रसंहितायाश्च पारस्परिकसम्बन्धविषये विद्वत्स्वैकमत्यं नास्ति । कतिपये सज्जनाः मन्त्रसंहितां गृह्यात् प्राचीनां मन्यन्ते । केचनार्वाचीनां समकालीनां वा मन्त्रसंहितां स्वीकुर्वन्ति । डॉ० कैलेण्डेनास्यांग्लानुवादः प्रकाशितः ।

(६ ) अग्निवेश्यं गृह्यसूत्रम् - अस्य गृह्यस्य रचयितारः 'अग्निवेश' नामका | वैदिका आचार्याः सन्ति, यैः तैत्तिरीयानां वाधूलशाखान्तर्गताया 'अग्निवेश'

उपशाखायाः प्रवर्तनं कृतम् । अन्येभ्यो गृह्यसूत्रेभ्योऽस्य वर्ण्यविषयो रचनाकौशल भिन्नो दृष्टिगोचरो भवति । अस्मिन् वणितेष्वनुष्ठानेषु नारायणबले:, यतिसंकार संन्यासविधेः वानप्रस्थविधेश्वोपरि अवान्तरकालीन-धार्मिकसम्प्रदायानां प्रभा स्पष्टतः परिलक्षितो भवति । परिणामतः सामान्यगृह्यसूत्रेभ्योऽस्य मार्ग एव भिन्न ऽनन्तशयनसंस्कृतग्रन्थमालायामिदं गृह्यसूत्रं प्रकाशितमस्ति ।

(७) मानवगृह्यसूत्रम् -अस्यापरं नाम मैत्रायणी मानवगृह्यसूत्रमप्यस्ति । मैत्रायणीशाखायाश्चरणव्यूहे निर्दिष्टानां भेदानां मानवस्य, वराहस्य, दन्द छागलेयस्य, हारिद्रवेयस्य श्यामायनीयस्य च 'मानवाः' अन्यतमा विभेदाः सन्ति । परिणामतोऽस्या उपशाखाया मानवगृह्यसूत्रमिदं मैत्रायणीयसंहिताया मन्त्रान प्रयोगावसरे निर्दिष्टान् करोति । एतत् समुचितमेव । अस्मिन् गृह्ये द्वौ पुरुषौ प्रकरणे वा स्तः । प्रत्येकस्मिन् पुरुषेऽनेकाः कण्डिका: सन्ति । अस्मिन् गृह्यसूत्रे विनायक पूजाया विशिष्टं वर्णनं विद्यते। अष्टावक्रभाष्येण सह गायकवाड़-ओरियण्टल सीरीजे बडोदरातः प्रकाशितमस्ति । भाष्यकारोऽस्य रचयितुर्नाम मानवाचार्य इति प्रतिपादयति । अस्य विशिष्टज्ञानविषये विद्वांसोऽपि स्वल्पज्ञानिनः सन्ति । न जाने मानवाचार्यो वस्तुतः कोऽपि प्राचीनाचार्योऽथवा मानवशाखया सम्पृक्तत्वात् लेखकस्य पश्चात्कालीनं नामकरणमस्ति ।

(८) वाराहगृह्यसूत्रम् - मैत्रायणी-शाखान्तर्गताया वाराह-उपशाखाया उल्लेखः चरणव्यूहे वर्तते । फलतो गृह्यसूत्रमिदं मैत्रायणीसंहिताया मन्त्राणां प्रयोगं विदधाति । अस्य बहुनि सूत्राणि मानवगृह्यस्य काठकगृह्यस्य च सदशानि सन्ति । गृह्योपयोगिनां विशेषवस्तूनामभावे तथा महत्त्वपूर्ण नास्ति ।

(९) काठकगृह्यसूत्रम्- एतदपि मानवगृह्यसूत्रेणेव साम्यं दधाति, कठशाखया च स्पष्टरूपेण स्वसम्बन्ध स्थापयति । काठकगृह्यसूत्रस्यैवापरं नाम लौगाक्षिसूत्रमस्ति । अनेनैव नाम्ना हेमाद्रिणान्यनिबन्धकारैश्चास्योद्धरणं स्व-स्वग्रन्थेषु प्रदत्तम् । अत्र द्वौ विभागौ मिलतः । भागस्यैकस्यानुसारमस्मिन् प्रारभ्यान्तं यावत् ७३ कण्डिकाः सन्ति । द्वितीये प्रकारे चास्मिन् पञ्च महत् खण्डानि अध्याया वा सन्ति । पञ्चाध्यायेषु विभागात् अस्य लोकप्रियं नाम 'गृह्य-पश्चिका' विद्यते । अस्य त्रिषु टीकाकारेषु आदित्यदर्शन: प्राचीनतमः सर्वश्रेष्ठश्वास्ति । माधवाचार्यस्यात्मजस्य ब्राह्मणबलस्य व्याख्या नेयं टीकाऽपि त्वधिकांशे पद्धतिरेवास्ति । हरिपालात्मजस्य देवपालस्य टीका भाष्यनाम्ना प्रख्याताऽस्ति । आसां तिसृणां व्याख्यानां सारांशेन सह डॉ० कैलेण्डेन लवपु रात् १९८१ वैक्रमाब्दे अतीव मनोहरं स्फीतं संस्करणं प्रकाशितम्।

सामवेदीय-कल्पसूत्राणि[सम्पादयतु]

आयफल्पः -- सामवेदकल्पसूत्रेष्वस्य नाम सर्वोत्कृष्ट विद्यते । महातपा मशको नाम ऋषिः अस्य रचयिता प्रख्यापितः । दीर्घकायोऽयं ग्रन्थः, यस्मिन् एकादशाध्यायाः सन्ति । आर्षेयकल्पस्य मुख्य प्रयोजनमिदमस्तीति यत् कस्मिन् यागे कस्य विशिष्टस्य साम्नो गायनं सम्पाद्यते। अयं कल्पोऽस्य विषयस्य पूर्ण परिशानं प्रववाति । एतत् सिद्धमेवास्ति यत् सोमयागस्य त्रयः प्रकारा भवन्ति---

(१)  एकाह-यो यागः एकस्मिन् दिवसे एव सम्पन्नो भवति ।

(२)  अहीन- ( यागः ) द्वाभ्यां दिवसाभ्या मारभ्यंकादशदिवसपर्यन्तं यावत् प्रचलति ।

(३)  सत्र-द्वादश-दिवसः प्रारभ्य वर्षमेकं यावत् ततोऽप्यधिककालपर्यन्तं प्रचलन्ति यागाः । आर्षेयकल्पस्य सम्बन्धः ताण्डयब्राह्मणेन सह विद्यते ।

अत्रायमभिप्राय:-अयं कल्पः सामवेदीयब्राह्मणयागानां येन क्रमेणोल्लेखं करोति तेनैव क्रमेणानुवर्तनं कल्पसूत्रमिदमपि करोति । एतद्यागानामतिरिक्तमत्र चतुर्णा मभिचारयागानामप्युल्लेखो वर्तते-श्येन-इषु-सन्दंश-वजुप्रभृतीनां येषां वर्णनं ताण्डय ब्राह्मणे अनुपलब्धत्वात् तत्पूरके षड्विंशब्राह्मणे एव मिलति । विशेषतो ध्यातव्य मत्र एतदप्यस्ति यत्-आर्षेयकल्पः एषां यागानां क्रमो वर्णनञ्च पडविंशानुसार मस्वीकृत्य यजुर्वेदानुसारं स्वीकरोति। आर्षेयकल्पः सामर्चानामुल्लेखः प्रतीकेन ददाति । यश्च सङ्केत: ऋचः सङ्केतको न भूत्वा तृचं सङ्केतयति । सोमयागस्यावसरे प्रयुज्यमानानां साम्नां सङ्गीतिप्रकारस्य विस्तरेण वर्णनमेतस्य कल्पसूत्रस्य महत्त्वपूर्ण वैशिष्टयमस्ति।

ज्योतिष्टोम-संस्थानानि चतुर्विधानि भवन्ति-अग्निष्टोमः, उक्थ्यः, षोडशी, अतिरात्रञ्च । अग्निष्टोमसंस्थानवतां सोमयागानां समाप्तिः अग्निष्टोमनामकात् सामगायनाद् भवति । उक्थ्ययागानामवसान उक्थ्यस्तोमैर्भवति । अत्रतध्यातव्य मस्ति यत् ज्योतिष्टोमे प्रयुक्तः 'ज्योति'शब्द: पारिभाषिकः शब्दो विद्यते । यः शब्दः त्रिवृत्-पञ्चदश-सप्तदश-एकविंशस्तोमानां वाचको विद्यते । यश्चाग्निष्टोमसंस्थायां 'बहिस्पवमान'-आज्य-माध्यन्दिन-पृष्ट-आर्भव-अग्निष्टोमादयः साम्ना सह नियतक्रमे सम्बन्ध स्थापयन्ति । एतेषु विभिन्नेषु यागेषु प्रयुक्तानां साम्नामिदं कल्पसूत्रं विधिवदनुष्ठानं प्रयोगञ्च साधयति । सामगायनस्यानेकविधसूक्ष्मोपदेशप्रदमिदं कल्पसूत्रं विषयस्य पाण्डित्यपूर्णविवेचने साम-गायनानां विविधप्रकाराणां निरूपणे स्वप्रति स्पद्धिनं कमपि ग्रन्थं न स्वीकरोति । विशेषतः कल्पसूत्रमिदं ताण्डयमहाब्राह्मणस्य पूरकमिति हेतोभविष्यति यदिदं ब्राह्मणे निर्दिष्टयागे प्रयुक्तानां साम्नां विवरणं प्रददाति । इदं लाटचायनश्रौतसूत्रात् प्राचीनतमं विद्यते, यतो हि लाटयायनेनास्य निर्देशः कृतः ।

आर्षेयकल्पस्यैकः पूरकग्रन्थोऽप्यस्ति क्षुद्र कल्पः । द्वावपि वस्तुत एकस्यैव कल्प सूत्रस्य द्वौ भागौ स्तः । आर्षेयकल्पस्य धीमतष्टीकाकारस्य नाम वरदराजः, येन स्वकृतटीकायाः प्रारम्भ एको विस्तृत उपोद्घातः प्रदत्तः । अस्मिन् ग्रन्थे परित्यक्तानामग्निष्टोम-उक्थ्य-अतिरात्रादीनां वर्णनं प्रारम्भे प्रदत्तमस्ति । सामगायनं सोमयागविधामस्य च विषये अतिशयामुपादेयां सामग्री प्रदायास्मिन् उपोद्घाते स्वयाज्ञिकानुशीलनस्य विश्लेषणस्य च प्रगाढः परिचयः प्रदत्तः । अस्य पितुर्नाम 'वामनार्यः' विद्यते । एतदतिरिक्तमेतेषां न किमपि ज्ञातमस्ति । अत्र वैशिष्टयं विद्यते यत्--ग्रन्थाध्यायान्ते सर्वत्र-प्रीयतां पुरुषोत्तमः तथा गोविन्दः प्रीयताम्' इति लिखितमस्ति । प्रतीयते पविमे श्रीवैष्णवमतावलम्बिनो तामिलनाडुनिवासिनः चासन् ।

एतैः उपग्रन्थसूत्रस्यै कस्मिन् परिच्छेदभूते प्रतिहारसूत्रे स्वटीका प्रख्या यतः उपग्रन्थसूत्रस्य टीकाकारैर्माधवाचार्यैरस्मिन् अंशे टीका न लिखिता क्षुद्रकल्पे टीकाकर्तृभिः श्रीनिवासमहाशयः आर्षेयकल्पे अस्या विवृतेः स्वटी क्वाप्युल्लेखो न कृतः । आर्षकल्पे एकादशाध्यायाः सन्ति, येषु प्रतिपाद्य विषया. सन्ति, तथा च–प्रथमेऽध्याये ‘गवामयन'स्य विवरणमस्ति । द्वितीयेऽपि पो वत् । तृतीयाध्यायादारभ्य पञ्चमाध्यायपर्यन्तम् ‘एकाह' इत्यस्य वर्णनं विद्यते चतुर्थाध्याये चातुर्मास्यस्य, पञ्चमाध्याये 'राट्' इत्यादीनाम्, षष्ठाध्यायात् अष्टमा ध्यायपर्यन्तम् अहीनयागानां, नवमेऽध्याये साम्नः, दशमैकादशाध्याययोश्च नाना विधानामयनानां विस्तृतं वर्णनमस्ति । यत्र-आदित्यामयनस्य, अङ्गिरसामयनस्य सारस्वतमयनादीनां दशविधानां यागानां निर्देशोऽस्ति । ग्रन्थोऽयं सर्परात्रस्य-प्रजापते. सहस्रसंवत्सरस्य विश्वसृजामयनस्य च सङ्क्षिप्तवर्णनेन सह समाप्तिमेति ।

क्षुद्रकल्पसूत्रम्-अस्य रचना कल्पसूत्र स्थितेऽपि कल्पसूत्रेषु गृहीतायां सूत्रशैल्यां विद्यते । अस्य लेखन-शैली ब्राह्मणशल्यामस्ति । एतत् सूत्रमार्षेयकल्पस्य द्वितीयो भागः स्वीक्रियते । वस्तुतः सूत्रमिदमायकल्पस्य पूरकमेवास्ति । यतो हि तस्मिन् अवणितानां यागानां वर्णनं विधाय विषय-पूत्तिर्भवति । अत एव द्वितीयष्टीकाकारः श्रीनिवासः क्षुद्रकल्पममुम् 'उत्तरकल्पसूत्रमिति स्वीकरोति । परञ्चोभौ ग्रन्थो एक एवाभिन्नग्रन्थ इति स्वीकारे सहमतिविद्यते । अत एवान्यश्रौतसूत्राणि द्वयोरैक्यं स्वीकृत्य अमुम् 'आर्षेयक्षुद्रकल्पम्' इति नाम्ना व्यवहरन्ति ।

आर्षेयकल्पस्याधारः ‘पञ्चविंशब्राह्मणम्' इति विद्यते । कारणञ्चात्र कल्पसूत्र मिदं ब्राह्मणे वणितात् ‘गवामयन'प्रसङ्गादारभ्य 'विश्वसृजामयन'पर्यन्तं यागानां तेनैव क्रमेण वर्णनं करोति, परञ्च क्षुद्र कल्पसूत्रं पञ्चविंशब्राह्मणेऽगृहीतानामवणितानां विषयाणां निरूपणं करोति । अस्मिन् वयः प्रपाठकाः सन्ति येषु षडध्यायाः सन्ति । तत्र प्रथमेऽध्याये--काम्ययज्ञानां तत्प्रयुक्तानां सामप्रकाराणाञ्च विशदं वर्णनं विद्यते । द्वितीयाध्यायस्य विषयः 'प्रायश्चित्तम्' विद्यते। तृतीयाध्यायस्य प्रारम्भः त्रिवर्णं विधीयमानात् यज्ञादस्ति । ब्राह्मणकल्पस्य बर्णनं ताण्डयब्राह्मणे अभूत् । अतोऽत्र नैव चचितः । अन्यवर्णानामेव यागानां निरूपणमस्ति । तत्पश्चाच्च-उभयसामयज्ञस्य, प्रवर्हयज्ञस्याग्निष्टोमस्य च कमेण वर्णनानि सन्ति । एवमेव चतुर्थाध्याये पृष्टय पडहानुकल्प-द्वादशाहानुकल्पा वर्णिताः सन्ति । तृतीय-चतुर्थाध्याययोः समावेशो द्वितीये प्रपाठके विद्यते । सम्पूर्णस्तृतीयः प्रपाठकः स्वपञ्चम-षष्ठाध्याययोः द्वादशाह विकल्पस्य महत्सम्भारेण निरूपणं करोति । एतावता क्षुद्रकल्पवर्ण्यविषयाणां यत् किञ्चित् सङ्केतः प्राप्नोति ।

अस्य कल्पसूत्रस्य टीकाकर्तुर्नाम श्रीनिवासाचार्यः । इमे तामिलनाडुप्रदेशस्य श्रीवैष्णवा आसन् । एतेषां स्वीयो वेदः कृष्णयजुर्वेद आसीत् । एकनिष्ठे वैदिककुले एषां जनिः । पितुर्नाम टीकापुष्पिकायां 'श्रीरामानुजसिद्धान्त-स्थापनाचार्य-शतक्रतु ताताचार्य' इति निर्दिष्ट मस्ति । टीकाकारश्च स्वात्मानं शतक्रतु-चतुर्वेदी-श्रीनिवासा चार्यरूपेण ख्यापयति । एतेन सिद्धयति यदिमे वेदविद्याया निष्णाताः पण्डिता आसन्। इत्येव नहि रामानुजाचार्यः सिद्धान्तस्य तलस्पशिनो मर्मज्ञा विद्वांस आसन् । अस्य स्योद्घाटनं टीकाकारैः स्वयमेवोट्टङ्गितम्, तद्यथा तगिरैव -

‘शतक्रतुं तातगुरुं वेद-वेदाङ्गपारगम् ।

वेदान्तानां गुरुं वन्दे वेदान्ताचार्यलक्षणम् ॥

श्रीश्रीनिवासगुरुणा शतक्रतुतनूभुवा ।

चतुराम्नाय-षट्सूत्री-पारगेन हरेमुंदे' ।

अस्य पितुः शतक्रतुकुमारताताचार्यस्य संरक्षका आसन्-तजोरभूपतयः अच्युताः। एषां काल: १५६१ ईसवीयतः-१६१४ ईसवीयपर्यन्तम् । कुमारताताचार्येण स्वरचिते नाटके पारिजातहरणे स्वसप्तपुत्राणां तत्प्रणीतग्रन्थानाञ्च निर्देशः कृतः । श्रीनिवासः तस्य सप्तपुत्रेषु ज्येष्ठ आसीत्, यस्य ग्रन्थेषु अस्य · क्षुद्रकल्पभाष्यस्यापि नाम तत्र निर्दिष्टमस्ति । तेनैतत् स्पष्टं भवति यत्-श्रीनिवास: सप्तदशशतकस्य प्रारम्भिके काले विद्यमान आसीत् । अनेन याज्ञिकेन विविधानेकयज्ञानां सम्पादनं कृतमत एवास्य शतक्रतु-चतुर्वेदी-विशेषणयोः औचित्यं सिद्धयति । यज्ञसंस्थायाः सिद्धान्तस्यानुष्ठानस्य च व्युत्पन्न-पण्डितः आसीत् । एतत्तथ्यं तत्कृतभाष्येण सद्यः स्फुरितो भवति । आर्षेयकल्पस्येवाचार्यमशकगार्यः अस्य पूरककल्पसूत्रस्यापि रचयिता स्वीकृतः । लाटयायनश्रौतसूत्रमग्निस्वामिनो भाष्येण सह बिब्लि० इण्डिकायां प्रकाशितमस्ति । सामवेदेन सम्बद्धत्वाद् तेषां साम्नां गायनस्य वर्णनं करोति येषा मग्निष्टोमेऽन्यसोमयागेषु च प्रयोगाः सन्ति । दाह्यायनश्रौतसूत्रमप्यनेन वेदेन सम्बद्ध मस्ति । अस्मिन् ग्रन्थे ३२ पटलानां सत्ता विद्यते ।

लाटयायनश्रौतसूत्रेण सहास्य महत् साम्यं विद्यते । जैमिनीयश्रौतसूत्रमपि सामवेदस्य जैमिनीयशाखया सम्बन्धितं श्रौतसूत्रमस्ति । अस्मिन् सूत्रे २६ कण्डिकाः सन्ति । यस्य सम्पादनं गास्ट्रामहाशयेन कृतम् । अग्न्याधेयस्याग्निहोत्रहोमस्य चात्र वर्णनं विद्यते ।

(क) गोमिलगृह्यसूत्रम् - इत्यस्य प्रकाशनमनेकत्र सम्पन्नमस्ति । एतच्चान्य विषयस्सह पिण्डपितृयज्ञस्यापि वर्णयति । गोभिलगृह्यसूत्रस्यांग्लानुवादः 'सेक्रेड बूक आफ इस्ट' इति 'सीरीजस्य' त्रिंशत्तमे खण्डे डॉ० गोल्डेनवर्गेण कृतः। खदिरगृह्य सूत्रस्याप्यांग्लानुवादः एकोनत्रिंशत्तमे खण्डे प्रकाशितो विद्यते । अपरञ्च गृह्यसूत्रमिदं रुद्रस्कन्दस्य टीकया सह महीशूरात् प्रकाशितमस्ति । अन्यच्च जैमिनीयं गृह्यसूत्रं डॉ० कैलेण्डेन लवपुरात् प्रकाशितम् ।

एषु त्रिषु सामवेदीय-गृह्यसूत्रेषु गोभिलगृह्यसूत्रमतीव प्रख्यातं विद्यते । तथैवाति प्रचलिततया कौथुमशाखया सम्बद्धत्वात् अत्यधिकं लोकप्रियञ्चाप्यस्ति । एतच्च मन्त्रब्राह्मणनामकात् सामवेदीयमन्त्रसङ्ग्रहात्मकग्रन्थादनुष्ठानावसरे मन्त्राणामुद्धरणं ददाति, तत्तु प्रतीकरूपेणव । सामसंहिताया मन्त्रभागा अपि समुद्धताः सन्ति । मन्त्रब्राह्मणस्य गोभिलगृह्यसूत्रस्य च पौर्वापर्यविषये विद्वत्सु मतभेदो विद्यते । परञ्च द्वयोः ग्रन्थयोः तुलनात्मकसमीक्षणेन 'मन्त्रब्राह्मण' इति संशीतिरहितं गोभिलगृह्यसूत्रात् प्राचीनतरं सिद्धयति । अस्य ब्राह्मणस्य मन्त्राः सम्प्रदाये प्रसिद्धा अत एव तत्प्रतीकानां सङ्केतं ग्रन्थकारः करोति, तस्मिश्चानुपलब्धानां मन्त्राणा पूर्णरूपेण करोति । यदि चेत् मन्त्रब्राह्मणस्य पूर्वसत्ता न स्यात्तदा प्रतीकानाम सङ्गतिः कीदृशी ?

( ख ) खादिरगृह्यसूत्रम् - सामवेदस्य राणायणीयशाखया सम्बद्धमिदंग गोभिल( गृह्य )सूत्रस्योपरि सर्वात्मना आधारितमस्ति । तदादेशा नियमा सक्षेपेण प्रस्तुताः सन्ति । एतदेव कारणं यदिदं निश्चितरूपेण गोभिलगृह्यसा सङ्क्षिप्तं संस्करणमस्ति ।

(ग) जैमिनीयगृह्यसूत्रम् – सूत्रमिदं खण्डद्वये विभक्तमस्ति । तत्र प्रयो खण्डे २४ कण्डिकाः द्वितीये खण्डे च नव कण्डिका: सन्ति । अस्य सुबोधिनी टीका 'श्रीनिवासाध्वरी महाशयेन विरचिताऽस्ति । अस्याष्टीकायाः कतिपयानि महत्त्वपूर्णा न्युद्ध रणान्येव मूलग्रन्थेन सह डॉ० कैलेण्डेन प्रकाशितानि । जैमिनीयशाखाया अनेकानि तथ्यान्युपलब्धानि सन्ति । पुरुषसूक्तस्य सप्त एव ऋचो निर्दिष्टाः सन्त्यत्र याः सामशाखानुसार्यः सन्ति ।

अथर्ववेदीयं कल्पसूत्रम्[सम्पादयतु]

अथर्ववेदस्यकमात्रं कल्पसूत्रं 'वैतानश्रौतसूत्रम'स्ति, यद्धि गोपथब्राह्मणस्योपरि आधारितमस्ति । अपि चैतत् कात्यायनश्रौतसूत्रेणापि घनिष्ठ सम्बन्ध स्थापयति । अस्मिन् अष्टाध्यायाः सन्ति, ये कण्डिकासु विभक्ताः सन्ति । श्रौतसूत्राणामितिहासे सूत्रमिदं सर्वतोऽवान्तरकालीनो ग्रन्थ: स्वीक्रियते । इदं परिमाणे स्वल्पमस्ति । एतच्च 'ब्रह्मा' नामकस्य ऋत्विजः, तत्सहायकस्य यजमानस्य च कर्तव्यानामनुष्ठानानाञ्च विवरणं ददाति । एतत् गोपथब्राह्मणस्यानुसरणमनेकांशेषु करोति । अपि च कात्यायनश्रौतसूत्रस्यापि प्रभाव अस्योपरि विशेषोऽस्ति । कौशिकगृह्यसूत्रमथर्व वेदस्यकमात्रं गृह्यसूत्रमस्ति । इदं सूत्रं चतुर्दशाध्यायेषु विभक्तमस्ति । अस्योपरि 'हारिल'स्य केशवस्य च सक्षिप्ताः व्याख्याः समुपलब्धा भवन्ति । ग्रन्थोऽयं प्राचीन भारतीयायाः ‘यातुविद्यायाः' परिज्ञानायानुपमेयां सामग्री प्रस्तौति । याः सामग्रयो ऽन्यत्र दुर्लभाः सन्ति । साहाय्येनास्य ग्रन्थस्य वयमथर्ववेदस्य नानाविधानामनुष्ठानानां विधि-विधानानि पूर्णरूपेण ज्ञायन्ते । अतोऽस्यानुशीलनस्याभावेऽथर्ववेदस्योन्मीलनं न भवति । एतदेवास्योपादेयताया बीजम् । आयुर्वेदशास्त्रस्यौषधाय त्वेतत् अक्षयं भाण्डा गारमेवास्ति । तस्मात् महते कल्याणाय सूत्रमिदं प्रवर्तते ।

धर्मसूत्रम्[सम्पादयतु]

धर्मसत्राणि कल्पस्याविभाज्यान्यङ्गानि सन्ति । संविधानतः प्रत्येकमया मालाया: स्वविशिष्टं धर्मसूत्रं भवितव्यम् । परञ्च नेतादृशी स्थितिः । आश्वलायनस्य, शाङ्खाय नस्य मानवशाखायाश्च श्रौतसूत्र-गृह्यसूत्रे चोभौ प्राप्येते, परञ्च तासां शाखानां धर्म सत्रात्मकोंऽशो न प्राप्यते । आश्वलायन-धर्मसूत्रस्य शाङ्खायनधर्मसूत्रस्य च नितरामप लब्धिर्न भवति । मानवधर्मसूत्रमपि, यस्याधारमादाय कालान्तरे मनुस्मृतेः निर्माणमभूत् अधुनापि नोपलब्धमस्ति । केवलं बौधायन-आपस्तम्बहिरण्यकेश्यादीनां कल्प णामुपलब्धिः पूर्णतया भवति । तेन एषां धर्मसूत्राण्यपि मिलन्ति ।

मीमांसकेन मारिलभट्टेन तन्त्रवात्तिके विभिन्नवेदानां धर्मसूत्राणां प्रामाणिको निर्देशः कृतः । गृह्यसूत्राणि पाकयज्ञस्य संस्काराणाञ्च विशेषरूपेणोपनयन-विवाह-श्राद्धानां वर्णनं कुर्वन्ति । धर्मसूत्राण्यपि एषां विषयाणां वर्णनं सुनिश्चितं कुर्वन्ति, परञ्च दृष्टिभेदेन । गृह्येऽनुष्ठानानामाकार-प्रकारे विधाने च विशेषाग्रहो भवति, धर्मसूत्रे चैतद्विपरीत माचार-कर्त्तव्यकर्म-व्यवहाराणां महत्त्वं भवति । धर्मसूत्र चतुर्वर्णानां कर्त्तव्यकर्म व्यवहारेण सह राजधर्मस्य वर्णनं मुख्यमस्ति । राज्ञः कर्त्तव्यम्, प्रजया सह सम्बन्धः, व्यवहारस्य नियमः, अवस्थाविशेषे प्रायश्चित्तस्य विधानं धर्मसूत्राय महत्त्वप्रदानं करोति । विवाहस्यानेकविधानामुभयत्र वर्णनमस्ति, परञ्च गृह्यसूत्रस्य मुख्यमुद्देश्य केवलं तस्य धार्मिकपद्धतेः अनुष्ठान-प्रकारस्य च विवरणे नास्ति । धर्मसूत्रे विवाहो त्पन्नपुत्राणां मध्ये सम्पद्विभाजनस्य मुख्यः प्रश्नः । दायभागस्य विचारः, स्त्रीणां पारतन्त्र्यम्, व्यभिचाराय प्रायश्चित्तम्, नियोगस्य नियमः, गृहस्थस्य नित्य-नैमित्तिक कर्मणां वर्णनं सर्वेषु धर्मसूत्रेषु नियमतः स्वल्पमात्रायामथवाऽधिकमात्रायामुपलभ्यते । एषामेव धर्मसूत्राणां सक्षेपतमं वर्णनमत्र प्रस्तूयते ।

(१) गौतमधर्मसूत्रम्-प्राप्तधर्मसूत्रेषु प्राचीनतमोऽयं ग्रन्थः स्वीक्रियते । यस्य सम्बन्धः कुमारिलभट्टस्य प्रामाण्ये सामवेदेन सह विद्यते । चरणव्यूहे निर्दिष्टाया राणायनीयशाखाया नव (९) अवान्तरशाखासु गौतमोऽन्यतमो विद्यते । गोभिलेन गृह्यसूत्रे गौतमः स्मृतः । प्राचीनेषु धर्मशास्त्रकारेषु केवलं मनोः उल्लेखोऽत्र मिलति । वौधायनधर्मसूत्रे न केवलमस्योल्लेख एव प्राप्नोति अपितु प्रस्तुतस्य तृतीयप्रश्नस्य दशमाध्याये गौतमधर्मसूत्रस्यैकोनविंशतितमादध्यायात् प्रायश्चित्तविषयिकाः सर्वाः सामग्रयो गृहीताः सन्ति । अनेनैव प्रकारेण वशिष्ठधर्मसूत्रस्य द्वादशाध्यायो गौतमस्य कोनविंशतितमादध्यायात् गृहीतोऽस्ति । अस्मिन् ग्रन्थे अष्टविंशत्यध्यायो मन्ति, येषु वर्णधर्मस्य, राजधर्मस्य, नित्यकर्मणां प्रायश्चित्तस्य च सविशेष प्रतिपादनमस्ति । गौतमधर्मसूत्रस्य निर्देशो याज्ञवल्क्येन, कुमारिलभट्टेन, आद्यशङ्कराचार्येण मेधातिथि महाशयेन च कृतः । अस्य काल: ६०० वैक्रमाब्दात् पूर्व, ४०० पूर्व वैक्रमाब्दमध्ये निश्चेतूं शक्यः । हरदत्तेन स्वव्याख्यया, आचार्येण मस्करीमहाभागेन च स्वभाग चास्यायं सरलीकृत्य विषयो बोधगम्यः कृतः । सूत्रमिदं हरदत्तस्य व्याख्यया आत श्रमात् पुण्यपत्तनस्थितात् मस्करीभाष्येण च सह महीशूरात् प्रकाशितमस्ति ।

(२) बौधायनधर्मसूत्रम् –

एतत्तेषां कल्पसूत्रस्यैवांशमात्रमस्ति । बोका सत्रे चत्वारः प्रश्नाः खण्डानि वा सन्ति । तत्र प्रथमे प्रश्ने ब्रहाची विचारस्य. राजकीयविधेः, अष्टविधानां विवाहानाञ्च वैशद्येत वर्णनं विद्यते। द्वितीयः प्रश्नः प्रायश्चित्तस्य, उत्तराधिकारस्य, चतुर्णामाश्रमाणां, ग्रह विवरण प्रददाति । तृतीये प्रश्ने वैखानसस्य संन्यासिनश्च धर्माणां चान्द्रायणादिव्रतानाञ्च विधानमस्ति । चतुर्थे प्रश्ने च काम्यसिद्धीनां वर्णनमस्ति। एषु प्रश्नचतुष्टयेषु - अन्तिमस्य प्रश्नस्य भाषा शैली च प्रथमतः त्रिभ्यः प्रश्नेभ्यः पार्थक्यं समर्थयति।  

( ३ ) आपस्तम्बकल्पसूत्रम् –

आपस्तम्बकल्पसूत्रस्य द्वौ प्रश्नौ आपस्तम्ब-धर्मसूत्रयोर्नाम्ना विख्याती स्तः । बौधायनस्यापेक्षयाऽस्य भाषाधिका प्राचीना अपाणिनीया च नास्ति । अपि चानेकाप्रचलितानां विरलानां शब्दानामप्यत्रोपलब्धि स्ति, येनास्य प्राचीनता सिद्धिर्न भवति । संहिताया अनन्तरं ब्राह्मणानामनेकान्युद्ध रणानि प्रदत्तानि सन्ति । तैः प्राचीनधर्मस्योपरि दशग्रन्थकाराणां नाम्नां मतानाञ्चोल्लेखः कृतः । येषु काण्व कुणिक-कुत्स-कौत्स-पुष्करसादि-वार्ष्यायणि-श्वेतकेतु-हारीतादयो मुख्याः सन्ति। तथैवा पस्तम्बधर्मसूत्रे मीमांसाया: पारिभाषिकशब्दानां मीमांसासिद्धान्तस्य चाधिको निर्देशो मिलति । अपि चानेकविषयेष्वस्य निर्णयो जैमिनिना साम्यं धारयति ।

( ४ ) हिरण्केशिधर्मसूत्रम् - अस्याः शाखायाः कल्पसूत्रस्य द्वौ प्रश्नौ स्तः । नायं स्वतन्त्रो ग्रन्थो भवितुमर्हति । वस्तुतस्त्विदं धर्मसूत्रमापस्तम्बधर्मसूत्रस्यैव सङ्क्षिप्तं प्रवचनमस्ति । एभिः आपस्तम्बात् शतशः मूत्राणि अक्षरशः स्वग्रन्थे समुद्धृतानि सन्ति । एषां सूत्राणां पाठः पाणिनेः विशेषानुकूलो विद्यते । एषां टीकाकारैः महादेवैः अनेकस्थलेषु हरदत्तस्यापेक्षया एकाधिकावश्यकविषयाणां वर्णनं कृतम् । ये विशेषो पादेयाः सङ्ग्राह्याश्च सन्ति ।

(५) वशिष्ठ-धर्मशास्त्रम् -

सूर्यवंशकुलगुरोमहर्षेर्वशिष्ठस्य धार्मिकजगति महत्त्व पूर्ण स्थानमस्ति । एते महान्तः अस्माकं स्मृतिकारेषु आदरार्हे उच्चस्थाने प्रतिष्ठिता धर्मसूत्रकाराः सन्ति । येषां धर्मशास्त्रं मात्रायां स्वल्पकायेऽपि गुणेषु विपुलं महनीय ञ्चास्ति । सुप्रसिद्धमीमांसकाः कुमारिलभट्टाः स्वीये तन्त्रवात्तिके वशिष्ठधर्मशास्त्रस्य सम्बन्धः ऋग्वेदेन सह कथयन्ति, परञ्चायं प्रायोवादः । ऋग्वेदिनां पार्वे स्वस्वतन्त्र धर्मशास्त्रं पासीत् । फलतः स्वतन्त्ररूपेण निर्मितममुं धर्मशास्त्रं स्वायत्तीकृत्य एतैः अस्योपरि स्ववेदस्य चिह्न स्थापितम् । अस्य ग्रन्थस्य प्रायश्चित्तप्रकरणे यथा ऋग्वेदस्य 'अयवामीय'-'हविष्पान्तीय'-'अघमर्षण' सूक्तस्य च मन्त्राणामुल्लेखो विद्यते, तथैव तैत्तिरीयसंहिताया अपि अनेकमन्त्राणां निःसन्दिग्धमुद्धरणं विद्यमानमस्ति ।

( ६ ) वैखानसधर्मसूत्रम् - इदं धर्मसूत्रं वैखानस-स्मृतिसूत्रस्याष्टमो नवमो दशमश्च प्रश्नो विद्यते । एते त्रयः प्रश्ना मिलित्वा एतनिष्पन्नं कुर्वन्ति । अस्य महती विशिष्टता विद्यते आश्रयाणां वर्णानाञ्च विशदं विवेचनम् । वानप्रस्थ-संन्यास-गृहस्था श्रमाणामवान्तरभेदानामियत् विशदं वर्णनमत्रोपलब्धं भवति यदितरधर्मशास्त्रेषु प्राप्यं नास्ति । सार्ययुक्तानां जातीनां विशिष्टप्रकाराणामप्यत्र वर्णनं विद्यते । परञ्च राज्ञः कर्त्तव्यस्य, न्यायविधानस्य, श्राद्धस्यानुष्ठानादेः, धर्मशास्त्रेषु नियमतः प्राप्त विषयाणाञ्चात्र सर्वथाऽभावो विद्यते । अस्य श्लोका मनुस्मृतिप_विशेष साम्यं धार यन्ति । वैखानसगृह्यस्यापि वैशिष्टयं ध्यातव्यमस्ति । अस्य सम्पादनमांग्लभाषानु वादेन सह डॉ० कैलेण्डमहाशयेन निष्पादितम् ।

(७) विष्णुधर्मसूत्रम् - एतदेवैकं धर्मसूत्रमस्ति यत्-कस्यापि मानवग्रन्थ कारस्य नैव रचना, अपि तु स्वदिव्योत्पत्तौ श्रद्धां विदधाति । अत्र गद्यात्मक-सूत्राणां पद्यानाञ्चकत्र सन्निवेशो विद्यते । अस्य स्वरूपस्य विषये पर्याप्तो मतभेदो दृश्यते । मनुस्मृत्या सहास्य सम्बन्धस्य पौर्वापर्यविप्रतिपत्तेश्च विषयो विद्यते। अस्य धर्मसूत्रस्य १६० श्लोकाः 'मनुस्मृतौ' अक्षरशः प्राप्यन्ते, तथा चास्यानेकानि सूत्राणि स्वविषय विवेचनस्य निमित्तं मनुस्मृति-पर्वः साम्यं धारयन्ति । अस्य ग्रन्थस्य सम्पादक: अमुं धर्मसूत्रं मनुस्मृत्या प्राचीनतरं स्वीकरोति, परञ्च द्वयोस्तुलनायां विष्णुधर्म सूत्रमेव मनुस्मृतेः अधमणं प्रतीयते । यतस्तेन मनोः अनेकश्लोकानां यत्र-तत्र परिवर्तनं विधाय स्वस्मिन् सम्मेलनं कृतम् । सैषा स्थितिः अनेकत्र दृश्यते ।

अनेन प्रकारेण शतशः स्थलानां सत्ता एतदेव सूचयति यत्-विष्णुधर्मसूत्रस्य रचना पश्चाद्वतिनी विद्यते । येन धर्मसूयकारेण स्वप्रतिष्ठाय प्रामाण्याय च मनोः श्लोकानां किञ्चिद् परिवर्तनं विधायोपयोगः कृतः । अनेनैव प्रकारेण याज्ञवल्क्यस्मृतेः गौतमधर्मसूत्रस्य, वशिष्ठ धर्मसूत्रस्य, भगवद्गीतायाश्च श्लोकाः सूत्राणि चाक्षरशोऽथवा किश्चित् परिवर्तनेन सहात्रोपलब्धानि सन्ति । काठकगृह्यसूत्रस्यापि वैश्वदेव-बलि-श्राद्ध-वृषोत्सर्गविषयक रनेकैः सूत्रैः सहात्र साम्यमुपलब्धं भवति ।

एतादृश्यामवस्थायां विष्णुधर्मसूत्रस्य प्राचीनता मौलिकता च संशयापन्ना विद्यते । तथ्यन्त्विदमेव प्रतीयते यत् अनेनवो परिनिविष्टेभ्यो ग्रन्येभ्यः सामग्रीमादाय स्वकलेवर सज्जीकृतम् । इदं साम्यमस्ति क्वचिदक्षरशः क्वचिच्चांशतः, परञ्चास्त्येव । फलतः अमुं पञ्चमशतकस्य .. स्वीकारे तथ्याद्विपरीतं न भविष्यति । डॉ० जालीमहाशयेन कलिकाता प्रकाशनमांग्लानुवादेन सह ‘सेक्रेड-बुक-सीरीजस्य सप्तमे खण्डे कृतम् । एक सूत्राणामतिरिक्त हारीतस्य धर्मसूत्रं शवलिखितं धर्मसूत्रमप्युपलब्धमस्ति ।। तेषां सम्बन्धः कल्पसूत्रैः सह साक्षाद्रूपेण न सिद्धयति ।

शुल्बसूत्रम्[सम्पादयतु]

भारतवर्षे रेखागणितस्य प्राचीनेतिहासस्य ज्ञानाय शुल्वमूत्राणामध्ययनं नितान्त. मावश्यकमस्ति । शुल्बसूत्रं वेदाङ्गान्तर्गतं कल्पसूत्रस्यान्यतममङ्गमस्ति । कल्पसूत्रस्य मुख्यो विषयो वैदिकं कर्मकाण्डम् । कर्मकाण्डस्य प्रधानतया द्वौ प्रकारौ स्तः-गृह्यसूत्रं, श्रौतसुत्रञ्च । द्वयोः गृह्यसूत्रस्य मुख्यो विषयो विवाहादिसंस्काराणां विस्तृतं वर्णनम् । श्रौतसूत्रेषु श्रुतिप्रतिपादितानां विविधयज्ञ-यागानां विशदं विवरणं प्रस्तुतमस्ति । शुल्वसूत्रमेषां श्रौतसूत्राणां महत्त्वपूर्णः एकोऽशो विद्यते । शुल्वशब्दस्यार्थोऽस्ति रज्जुः, अतो रज्जुना प्रमापिताया वेद्या: रचना शुल्बसूत्रस्य प्रतिपाद्यो विपयः ।

सिद्धान्तस्य दृष्टया तु प्रत्येकस्या वैदिकशाखाया स्वविशिष्टं शुल्बसूत्रं भवति । परञ्च व्यवहारतो नेयं स्थितिः । कर्मकाण्डेन सह मुख्यतः सम्बद्धत्वात् शुल्वमूत्राणि यजुर्वेदस्यैव शाखायां प्राप्यन्ते । यजुर्वेदस्यानेकशाखाभिः सह शुल्वसूत्राणामस्तित्वं प्राप्यते । शुक्लयजुर्वेदेन सम्बद्धमेकमेव शुल्बसूत्रमस्ति—कात्यायनशुल्बसूत्रम्, परञ्च कृष्णयजुर्वेदेन सह सम्बद्धानि पट् शुल्वसूत्राणि प्राप्यन्ते । तद्यथा-बौधायन-आप स्तम्ब-मानव-मैत्रायणीय-वाराह-वाधूलसंज्ञकानि च । एतदतिरिक्तम् -आपस्तम्बशुल्व टीकायां करविन्दस्वामिना मशकशुल्वस्य हिरण्यकेशीशुल्वस्य चोल्लेखः कृतः । एते शुल्वसूत्रे साम्प्रतं नोपलब्धे स्तः । आपस्तम्बशुल्वे ( ६।१० ) हिरण्यकेशीशुल्वादेक मुद्धरणमप्युपलब्धं भवति ।

एषु सप्तोपलब्धसूत्रेषु बौधायनशुल्वसूत्रमेव सर्वतोऽधिकं प्राचीनं महत्तमञ्च शुल्बसूत्रमस्ति । अस्मिन् वय: परिच्छेदाः सन्ति । तत्र प्रथमे परिच्छेदे ११६ सूत्राणि सन्ति, येषु मङ्गलाचरणानन्तरं शुल्वे प्रयुक्तानां विविधमानानां, याज्ञिकवेदीनां निर्माणाय मुख्यानां रेखागणितीयतथ्यानां, विभिन्न वेदीनां क्रमिकस्थानस्याकार प्रकारस्य च वर्णनं विद्यते । द्वितीये परिच्छेदे ८६ सूत्राणि सन्ति, येषु वेदिनिर्माणस्य मामान्यनियमानां वहुशो वर्णनानन्तरं गार्हपत्यचितेः छन्दश्चितेश्च रचनाया विवरणं प्रस्तुतमस्ति । तृतीयपरिच्छेदे ३२३ सूत्राणि सन्ति, येषु काम्येष्टीनां १७ प्रभेदेभ्यो वेदिनिर्माणस्य विशदं विवरण मस्ति ।

आपस्तम्ब-शुल्बसूयं पट् ( ६ ) पटलेषु विभक्तगस्ति । येषामाभ्यन्तरेऽन्यावान्तर वर्गाः सन्ति । इत्थमस्मिन् २१ अध्यायाः २२३ सूत्राणि च सन्ति । तत्र प्रथमे पटल वेदिरचनाया आधारभतानां रेखागणितीय गिद्धान्तानां निर्वचनमस्ति । द्वितीये पटल वेद्याः क्रमिकस्थानानां तद्रूपाणाञ्च वर्णनं करोति । अत्र तनिष्पादनप्रक्रियाया अपि विवरणमस्ति । अन्तिमपञ्चदशाध्यायेषु काम्येष्टय विभिन्नवेदीनामाकार प्रकारस्य विशदं विवेचनमस्ति। अत्र बौधायन-आपस्तम्बाभ्यां प्रायः समस्त काम्येष्टीनां समानरूपेण विवेचनं कृतम् । उभयोरान्तर्यमिदमेवास्ति यत्---आपस्तम्ब स्यापेक्षया बौधायनेऽधिकं विस्तारं विभेदांश्च सत्ता प्राप्नोति । आपस्तम्वधर्मसूत्रम पेक्षाकृतं सरलं सक्षिप्तञ्चास्ति ।

बोधायनशुल्वस्य टीकाकाराः[सम्पादयतु]

बौधायनस्य द्वयोष्टीकाकारयोः स्थिति यते । याभ्यामेकस्तथा न प्राचीनः प्रतीयते, परञ्च द्वितीयष्टीकाकारः पर्याप्तरूपेण प्राचीन इति विदुषां मतम् ।

( क ) द्वारकानाथयज्वा- इमे आर्यभट्टस्य पश्वातिनो निश्चितरूपेण प्रतीयन्ते । यत एतैः स्वटीकायामार्यभटीयस्यैकस्य सिद्धान्तस्य निर्देशः कृतः । शुल्वसूत्रानुसारं व्यासस्य. परिधेश्च सम्बन्धः Jc भवति, परञ्च द्वारिकानाथयज्वामहाशयेनास्मिन् नियमे संशोधनमुपस्थापितं येन Jc इत्यस्य मूल्यमाधुनिकगणनानुसारमेव ३,१४१६ पर्यन्तं सिद्ध यति । अनेनैव प्रकारेणान्यगणनायै अपि यज्वामहाशयेन स्वविमलप्रतिभायाः परिचयः प्रदत्तः । अस्या व्याख्याया नाम विद्यते-शुल्वदीपिका । श्रीमता यज्वा महाशयेन स्वटीकायाः पुष्पिकायां 'महात्मज' लिखितमस्ति । अस्य शुल्वसूत्रस्य यज्वनष्टीकया-आंग्लानुवादेन–विस्तृताभिष्टिप्पणीभिश्च सह डॉ० थीबोमहाशये नैकं सुन्दरं संस्करणं प्रकाशितम् । अस्य पुनर्मुद्रणं नवदेहलीतः १९८० ईसवीये वर्षे प्रकाशितमभूत् ।

( ख ) वेङ्कटेश्वरदीक्षित:-अस्य टीकाया नाम 'शुल्वमीमांसा' विद्यते । इमे यज्वनोऽपेक्षया नवीना ग्रन्थकाराः प्रतीयन्ते ।

आपस्तम्बशुल्वस्य टीकाकारा:[सम्पादयतु]

शुल्वसू त्रमिदं टीकादृष्टयाऽतीव लोकप्रिय मासीत् अस्ति च ।

( क ) कदिस्वामी- एषु टीकाकारेषु इमे सर्वतोऽधिकाः प्राचीनाः प्रतीयन्ते । एतैरेपां ग्रन्थानां टीका: कृताः । ते ग्रन्थाः सन्ति--आपस्तम्बश्रौतसूत्रम्, आपस्तम्ब सूत्रपरिभाषा, दर्शपौर्णमाससूत्रं, भारद्वाजगृह्यसूत्रमित्यादि । शूलपाणिना, हेमाद्रिणा, नीलकण्ठेन चैपां मतस्योद्धरणं स्वग्रन्थेषु कृतम् । अनेन निर्देशे तेषां समयनिरूपणं सुनिश्चितं भविष्यति । शूलपाणेः समय: ११५० ईसवीयस्य निकटे वर्तते । वेदार्थ दीपिकाया रचयितुः पड्गुरुशिष्यस्य ( ११४१-११९३ ई० ) इमे गुरव आसन् । हेमाद्रेश्वापि काल: त्रयोदशशतकमस्ति । अनेन प्रकारेण शूलपाणिना हेमाद्रिणा चोद्धृतत्वात् कपदिस्वामिनः समयो द्वादशशतकात् पूर्वमेव भवितव्यः । इमे दक्षिण भारतीयाः प्रतीयन्ते । स्वटीकायामेतैः कतिपयानां नियमानां रचनाप्रकाराणाञ्च विवरणं प्रदत्तम् ।

( ख ) करविन्दस्वामी-- एभिर्महाशयः आपस्तम्बस्य सम्पूर्णे श्रौतसूत्रे स्वव्याख्या लिखिता। एषां कालनिर्धारणमधुनापर्यन्तं समुचितरूपेण नाभूत् । एतैर्नामनिर्देशं विनवार्यभटप्रथमस्य ग्रन्थस्यार्यभटीयस्य कतिपयान् निर्देशान् स्वग्रन्थेषु उल्लेखाः कृताः। यः एते निश्चितरूपेण पञ्चमशतकादर्वाचीनाः प्रतीयन्ते । एतेषां टीकायाः नाम शुल्वप्रदीपिका विद्यते। इयञ्च मूलग्रन्थग्रन्थिस्फोटनाय मर्मभेदिनी व्यास विद्यते ।

(ग ) सुन्दरराजः- अस्य टीकाया नाम 'शुल्वप्रदीप' इत्यस्ति । या ग्रन्थ कारस्य नाम्नि 'सुन्दर राजीय' इति नाम्न्या प्रख्याता विद्यते। अस्यापि कालस्य यथार्थतो ज्ञानं न भवति । अस्य ग्रन्थस्य प्राचीनहस्तलेखस्य काल: वै० सं० १६३८ वर्तते । यः तञ्जोरस्य राजकीयपुस्तकालयेषु सुरक्षितोऽस्ति । अतोऽस्य कालः षोडश शतकात् प्राचीनः स्यात् । एभिः बौधायनशुल्वस्य टीकाकारस्य द्वारकानाथयज्वा महाशयस्य कतिपयवाक्यानि स्वटीकायां समुद्धतानि ।

(घ ) गोपालः - अस्य व्याख्याया नाम विद्यते---आपस्तम्बीयशुल्वभाष्यम् । अस्य पितुर्नाम ‘गातर्य नृसिंह सोमसुत्' विद्यते । इत्यनेन प्रतीयते यत्-इमे कर्मकाण्ड दीक्षिते वैदिकपरिवारे समुत्पन्नाः कर्मकाण्डीयपरम्परातः पूर्णपरिचिताश्वासन् ।

कात्यायनशुल्बसूत्रस्य प्रसिद्ध नाम विद्यते--कात्यायनशुल्वपरिशिष्टमथवा कातीय शुल्वपरिशिष्टम् । इदं भागद्वये विभक्तमस्ति । तत्र प्रथमो भागः सूत्रात्मकः, सप्त कण्डिकासु च विभक्तेऽस्मिन् नवति ( ९० ) सूत्राणि सन्ति । अस्मिन् वेदीनां रचनायै अपेक्षित-रेखागणितीयतथ्यानां, वेदीनां स्थानक्रमस्य तत्परिमाणस्य च सम्पूर्ण वर्णनं विद्यते । अत्र काम्येष्टीनां वेदीनाञ्च वर्णनं नास्ति । यतः कात्यायनश्रौतसूत्रस्य सप्तदशेऽध्यायेऽस्य वर्णनं पूर्वमेव कृतम् ।

द्वितीयः खण्ड: श्लोकात्मको विद्यते, ४० किंवा ४८ श्लोकाः प्राप्यन्ते । अत्र परिमापिकाया रज्जोः, निपुण-वेदिनिर्मातणां गुणानां तत्कर्तव्यानाञ्च, सहैव पूर्वभागे वणितानां रचनापद्धतीनामपि विवरणमस्ति । अस्यैव द्वितीयखण्डस्य कातीयपरिशिष्टमस्ति । यतो ह्यत्र पूर्वखण्डविषयाणां सक्षेपेण पुनर्वर्णनं विद्यते । पूर्वोक्तयोर्द्वयोः शुल्बसूत्रयोः अपेक्षयाऽस्मिन् कतिपयानि वैशिष्ट्यानि प्राप्यन्ते । कात्यायनेन वेदिनिर्माणस्यावश्यकानां समस्तानां रेखागणितीयविषयाणां विवरणं विशेषक्रमबद्ध रूपेशात्र प्रस्तुतमस्ति । अस्योपरि टीकाद्वयमुपलभ्यते ।

( क ) रामः रामबाजपेयो वा- इमे महानुभावा नैमिषस्य (नैमिषारण्य इति ख्यातस्य ) निवासिन आसन् । एतैरनेके ग्रन्था विरचिताः, येषु मुख्याः सन्ति-- क्रमदीपिका, कुण्डाकृतिः, शुल्ववार्तिकः, सांङ्ख्यायनगृह्यपद्धतिः, समरसारः, समरसार सङ्ग्रहः, शारदातिलकतन्त्रस्य व्याख्या, कातीयशुल्वसूत्रस्य टीका च । कुण्डाकृति इत्यस्य रचनाकाल: १५०६ वैक्रमाब्दे विद्यते। अतो रामस्याविर्भावकालः पञ्चदश शतकस्य मध्यभागः सिद्ध यति । राममहाशयाः स्वविषयस्य विज्ञाः पण्डिताः प्रतीयन्ते ।

अनेन शुल्बसूत्रेषु उल्लिखितस्य /२ इत्यस्य यन्मूल्यं प्रदत्तमस्ति तत् शुल्व सूत्रे प्रदत्तस्य मूल्यस्यापेक्षया किमप्यधिकं सूक्ष्मं यथोचितञ्चास्ति । शुल्वानुसारं /२ इत्यस्य मूल्यमस्ति-१. ४१४२१५६८६३ तथा रामस्यानुसारं /२ इत्यस्य मूल्यमस्ति १. ४१४२१३५०२। साम्प्रतिकगणनानुसारं /२ इत्यस्य मूल्यमस्ति १. ४१४२१३५६ । एषां त्रयाणां मूल्यानां तुलनया स्पष्टं भवति यत्-शुल्व सूत्राणां निर्णया ५ दशमलव-अङ्कपर्यन्तमेव समुचितमस्ति । परञ्च रामस्य गणना ७ दशमलव-अङ्कपर्यन्ता गणना समुचिता विद्यते । गणनेयं टीकाकारस्य सूक्ष्म गणनापद्धतेः प्रतीकस्वरूपा विद्यते।

(ख ) महीधरः-महीधरमहाशयाः काशीनिवासिनः प्रकाण्डवैदिका आसन् । वेदस्य तन्त्रस्य च विषये एषामनेकानि प्रौढग्रन्थरत्नान्यद्यापि प्राप्यन्ते । एभिः स्व 'मन्त्रमहोदधेः' समापनं १५८९ ईसवीये विष्णुभक्तिकल्पलताप्रकाशस्य च रचना १५९७ ईसवीये वत्सरे कृतेति ।

श्रीमता महीधरेण स्वकात्यायनशुल्वसूत्रभाष्यस्य पुष्पिकायामनेकज्ञातव्यतथ्यानि प्रदत्तानि । स्वगुरोः रत्नेश्वरमिश्रस्य ( प्रख्यातविदुषः केशवमिश्रस्यात्मजस्य ) आज्ञया एभिः भाष्यवृत्त्यनुसारिणी विवृतिलिखिता। भाज्यन्तु कर्काचार्यस्य प्रतीयते । वृत्तिः रामेण लिंखिता। तेन स्पष्टं भवति यत्-महीधरेण रामवाजपेयिनो वृत्त्यनन्तरं स्वविवृतिलिखिता। विवृतेः रचनाकाल: १६४६ वैक्रमाब्दे विद्यते ।

(ग ) महामहोपाध्याय-पण्डित-विद्याधरगौडेनापि कात्यायनश्रौतसूत्रे कातीय शुल्वसूत्रे च स्वसरलायाः सुबोधाया व्याख्याया रचनां विधायैतद्ग्रन्थविषयान् साधारणजनेभ्योऽपि बोधगम्यं कृतम्। यथार्थनाम्नो विद्याधरगौडस्य जनिः १९४३ वैक्रमाब्देऽभूत् । एषां पूज्याः पितरो महामहोपाध्यायाः पण्डितप्रभुदत्तगौडमहोदया वेदस्य कर्मकाण्डस्य च अद्वितीया विद्वांस आसन् । समस्ते उत्तरभारते सम्पन्नेषु यज्ञेषु यागेषु च स्यान्नाम कोऽपि यज्ञभागो भवेत्, यस्य यं वा श्रीगौडमहानुभावस्या चार्यत्वस्य पूर्णः सहयोगः प्राप्तो नासीत् । पिता-पुत्रौ द्वावपि महामहोपाध्यायो आस्ताम् । अपि च काशीहिन्दू विश्वविद्यालये वेदविभागाध्यक्षा आसन् ।

विद्याधर गौडरचितानां कात्यायनश्रौतसूत्राणां 'सरला' नाम्नी व्याख्या कर्काचार्यभाष्यस्या नुगमनं करोति । परञ्च भाष्यस्य काठिन्यस्थानेऽत्र सारल्यस्य धारा प्रवाहिता भवति । सरलावृत्तेः उपोद्घाते श्रौतयागविषयकानां समस्तानां प्रमेयाणामतिसरलशैल्या विस्तरेण प्रतिपादनमस्ति । यस्मिश्च यथा च ग्रन्थकारस्य वैदिकशास्त्राणामालोडनं मीमांसाशास्त्रस्य च गम्भीरमध्ययनं स्पष्टतः परिस्फुरितं भवति । कातीयशुल्व सूत्रस्य टीकाया अप्येतादृशं वैशिष्ट्यं विद्यते । विषयस्य प्रतिपादनं सुबोधरीत्या उदाहरणैः सह कृतम् । कल्पसूत्रस्य द्वयोः प्रकारयोः निर्मिता व्याख्या सर्वथा अभिनन्द नीया विद्यते । एषां निधनं काश्यामेव १९९८ वैक्रमाब्दे ५५ वर्षाणामायुषि अभवत् ।

शुल्बसूत्रेषु प्राचीना महत्त्वपूर्णाश्च मे एव त्रयो ग्रन्थाः सन्ति–बौधायनस्य, आपस्तम्बस्य, कात्यायनस्य च शुल्वसूत्राणि, येषामनुशीलनेन जैनधर्मस्योदयात्पूर्व भारतीयरेखागणितस्य विशिष्टं रूपं समालोचकानामग्रतः समायाति । एषु त्रिषु विविधनवीनतथ्यानां सङ्कलनमस्ति । यानि परस्परपूरकानि सन्ति । एतदतिरिक्तं शुल्वसूत्राणि तथा महत्त्वपूर्णानि न सन्ति महत्त्वदृष्टया च सामान्याः केवलं ग्रन्थाः सन्ति । एषां ग्रन्थानां सामान्यपरिचया:--

(क) मानवशुल्बसूत्रम्- गद्यपद्याभ्यां मिश्रितमिदं स्वल्पकायो ग्रन्थोऽस्ति । भस्मिन् अनेकवेदीनां वर्णनं मिलति, यच्च पूर्वोक्तग्रन्थेषु न प्राप्यते। भत्र च 'सुपर्ण चिति'नाम्न्या प्रसिद्धायास्तस्या वेद्या: वर्णनं विद्यते या 'श्येनचिति'नाम्न्या अन्यत्र प्रसिद्धाऽस्ति ।

(ख ) मैत्रायणीयशुल्वसूत्रम्- मानवशुल्वस्येदमेकमपरं संस्करणमस्ति । द्वयोः विषय एव न केवलमेकसमानः, अपि तु द्वयोरेकसमाना श्लोका अपि प्राप्यन्ते। परञ्च द्वयोः कतिपयमन्तरमप्यस्ति, विशेषतः क्रमव्यवस्थायाम् ।

(ग) वाराहशुल्बसूत्रम्- इदं शुल्बसूत्रं मानव-मैत्रायणीयशुल्वयोः समान मेवास्ति । कृष्णयजुषा सम्बद्धत्वादेषु त्रिषु समानस्थितिः काप्याश्चर्यस्य घटना नास्ति ।

टोकाकारः- काशीनिवासिना नारदस्य पुत्रेण श्रीमता शिवदासेन मानवशुल्वेषु एका टीका विलिखिता । शिवदासस्यानुजेन शङ्करभट्टेन मैत्रायणीयशुल्वे टीका रचिता । उभावपि भ्रातरौ स्वटीकासु रामवाजपेयिनमतस्योल्लेखः कृतो यत् निश्चयेन शुल्वस्य टीकाकारो राम एवास्ति । शिवदासेन वेदभाष्यकारस्य सायणस्योल्लेख: कृतो येनास्य काल: चतुर्दशशतकात्पूर्व नैव भविष्यति । शुल्वसूत्रसम्बद्धस्य प्राचीन साहित्यस्येयमेव रूपरेखा विद्यते ।

उद्धरणानि[सम्पादयतु]

  1. अथर्ववेद १०१९०१८
  2. तत्रैव १०९०९। ४०