कान्होपात्रा
Sant Kanhopatra | |
---|---|
Kanhopatra sings to Vithoba | |
जन्मतिथिः | 15th century, exact date unknown |
जन्मस्थानम् | Mangalvedhe, Maharashtra, India |
मृत्युतिथिः | 15th century, exact date unknown |
मृत्युस्थानम् | Pandharpur, Maharashtra |
तत्त्वचिन्तनम् | Varkari |
सम्मानाः | Sant (संत) in Marathi, meaning "Saint" |
साहित्यिककृतयः | Abhanga devotional poetry |
सः पञ्चदशतम शतकस्य समयः । कर्णाटकस्य उत्तरार्धभागे पण्डरपुरसमीपस्य प्रख्याता राजधानी मङ्गलपीडा । एतत्स्थानं तदानीन्तनस्य वाणिज्यशासनसांस्कृतिकानां केन्द्रं आसीत् । तस्मिन् नगरॆ वेश्यावाटिकायां किञ्चित् सुन्दरगृहम् । तस्मिन् तदानीन्तनस्य प्रख्यातवेश्या श्यामा निवसति स्म । स्वस्य यौव्वनकाले धनिकान्, वणिजः, रसिकान् अङ्गुल्याः उपरि नर्तयितवती आसीत् । एतस्याः काचित् पुत्री, कान्होपात्रा इति । अतीवसौन्दर्यवती एषा षोडशी अप्सरॊर्वश्योः समाना आसीत् । एतस्याः अपरिमितं सौन्दर्यं परितेषु प्रदेशेषु प्रख्यातमासीत् । अनेकाः धनिकाः एतां प्राप्तुम् उत्सुकाः आसन् । तस्याः माता अपि पुत्री स्वर्णाण्डप्रसूः कुक्कुटी इति विश्वस्तवती। तस्याः द्वारा अधिकं सम्पदं सम्पादयितुं शक्यते इति आशितवती आसीत् । एतदर्थं सा पुत्र्यै सङ्गीतं नृत्यं च पाठितवती आसीत् । पुत्र्याः नृत्यप्रदर्शनं कारयित्वा सौन्दर्यप्रियान् आकृष्य धनं सम्पादनीयम् इति इच्छा मातुः आसीत् ।
बलवत् दैवचिन्तनम्
[सम्पादयतु]किन्तु स्वस्य एक चिन्तनं दैवस्य अन्यदेव चिन्तनम् इति अभवत् । एतादृशं धनार्जनं कान्होपात्रायाः इष्टं नासीत् । एतस्मिन् विषये सा मात्रा सह कलहमेव कृतवती । समाधानेन यावत् वदति चेदपि माता न शृणोति स्म । तदा सा निश्चयेन मातरं अवदत्, तबलाध्वनिः श्रूयते चेत् मम हृदयं छिन्नं छिन्नमिव भासते । मातः सारङ्ग्याः मधुरध्वनिः अपि वृश्चिकदशनमिव मम शरीरं भिद्यते । एवं शताधिका वृश्चिकाः मां दष्टवन्तः इव अतीववेदनाम् अनुभवामि । नूपुराणां निनादः माम् अशक्तां करोति । उत्तमान् वेषभूषणान् धृत्वा आगतान् रसिकान् पश्यामि चेत् मम श्वासोच्छासः स्थगितमिव भासते । ते भयानकाः यमदूताः इव दृश्यन्ते । मातः एतद् सर्वं मया न शक्यते मां क्षम्यतामिति प्रार्थयत । उदरनिमित्तं वयं सर्वेऽपि नष्टाः स्मः । पुत्रि अनुत्तमम् उदरम् इति श्यामा पुत्र्याः केशान् आमृशन्ती एवम् अवदत् । एतदर्थं मनसः पवित्रभावनानां दमनं कृत्वा, स्वस्य सर्वनाशं कृत्वा, विषपानमिव किञ्चित् किञ्चित् पातव्यमेव पुत्रि । आरम्भे हृदये निश्चयेन क्लेशः भवति एव । किन्तु अनन्तरदिनेषु सः एव अभ्यासः भवति । सः एव अस्माकं जीवनस्य कश्चन भागः इव भवति । एतादृशं जीवनम् अहं नॆच्छामि मातः । तज्जीवनं पादाघातेन क्षिपामि । स्पष्टवचनेन स्वस्य हृदयस्य भावान्, निश्चयं च उक्तवती । मनसः पवित्रभावनानां दमनं कृत्वा कामवासनायाः पङ्के पतितुम् अहं न इच्छामि । भवत्याः वचनमिव विषचषकम् अधरे स्थापयितुमपि न इच्छामि । छिन्नं वस्त्रं धृत्वा भिक्षायाचनेन वा जीवनं करोमि किन्तु एतादृशं जीवनं मास्तु । भिक्षा न लभ्यते चेत् उपवासेन, भगवतः नामजपं कुर्वती शयनं करोमि । एतेन विना मम धर्मं सतीत्वम् अस्मिन् नरकसदृशे वेश्यासमाजे दुर्दान्तकीटरूपेण स्वर्णरजतवज्रवैढूर्यखण्डेभ्यः समर्पयितुं न इच्छामि । बुभुक्षज्वाल्या पीडितः शुनकः इव मरणं प्राप्नोमि किन्तु एतादृशं घृणितं जीवनं न करोमि अहं न जीवामि एवम् इति वदन्त्याः कान्होपात्रायाः नेत्रेभ्यः अश्रुप्रवाहः प्रवहती । तस्याः अञ्चलं पूर्णम् आर्द्रम् जातम् । पुत्रि भवत्याः उत्तमं भवतु इत्येव अहम् एवं वदन्ती अस्मि ।
मातुः विचारपरिवर्तनम्
[सम्पादयतु]पुत्र्याः चिन्तनं ज्ञात्वा श्यामा चकिता अभवत् । एतावत् कष्टेन पालयित्वा इदानीं पुत्री स्वस्य हस्तात् गच्छति वा इति भयमपि तस्याः आसीत् । किन्तु मातुः ममता अपि तस्यां जागृता आसीत् । अतः सा बहुप्रेम्णा वदति पुत्रि अतः एव अहं वदामि भवती कस्यचित् धनिकस्य पाणीग्रहणं कृत्वा, तस्य आश्रये जीवनं यापयतु । एकस्य आश्रयं प्राप्नोतु । भवत्याः सौन्दर्यस्य पुरतः तु अप्सराः अपि लज्जिताः भवन्ति । भवती काञ्चित् लघुसंज्ञां ददाति चेत् पर्याप्तम् । कतिचन धनिकाः कुबेराः भवत्याः पादे पतन्ति । एतद् यौव्वनं तु अस्मद्सदृशाणां देहे सर्वदा न भवति । कुत्रापि कतिचनवर्षाणि केवलं तिष्ठति । तस्मिन् समये एव जीवनपर्यन्तं यावत् धनम् आवश्यकं तावत् सङ्ग्रहणीयम् । मम प्राणाः गच्छन्तः सन्ति मातः, मातरं मध्ये निवार्य अतीवदुःखेन पुत्री वदति । रक्तमांसेन निर्मितायाः कस्याश्चित् पाञ्चालिकायाः कण्ठाय मम बाहुमालां धारयितुं निश्चयेन अहं न इच्छामि । एवम् उक्त्वा कान्होपात्रा ततः उत्थाय अन्यं प्रकोष्ठं गत्वा उच्छैः रोदनम् आरब्धवती ।
पाण्डुरङ्गदर्शनम्
[सम्पादयतु]कालः धावति बहूनिदिनानि अतीतानि । कदाचित् सा देवसङ्क्रीतनगीतं श्रुतवती । तेन सा तीव्रतया आकृष्टा । गृहात् बहिः आगत्य दृष्टवती । के गायन्तः सन्ति इति अज्ञात्वा ते के इति पृष्टवती । ते वार्करि पन्थीयाः, पण्डरपुरस्य विठ्ठलस्य भक्ताः, तस्य दर्शनार्थं पण्डरापुरं गच्छन्तः सन्ति इति उक्तवन्तः । भवन्तः कम् उद्दिश्य गायन्तः सन्ति ? कान्होपात्रा कुतूहलेन पृष्टवती । अस्माकं देवस्य तस्य विठ्ठलस्य श्लाघनस्य भजनानि गायन्तः स्मः । सः करुणाकरः, हृदयवान्, महान्व्यक्तिः, सः अत्यन्तं श्रेष्ठः । मनसि एव काचित् आशा कान्होपात्रायाः । अतः पृष्टवती यद्यहं तं शरणं व्रजामि तर्हि माम् अपि सः स्वीकरिष्यति वा ? भवती तस्य शरणं गच्छतु । सः निश्चयेन भवत्याम् अनुग्रहं दत्त्वा भवतीं स्वीकरोति । एवं ते वार्करी पन्थस्य नियमाः, देवस्य अनुग्रहं कथं प्राप्तव्यं, सः कथं पूजनीयः ? तेन कियत् दैविकानन्दं प्राप्तुं शक्यते इति विवृतवन्तः । तेषाम् उपदेशेन प्रभाविता । तस्याः पूर्वजन्मनः शुभसंस्कारः जागरितः अभवत् । नश्वरजगतः अस्थिरता, पापानां भीषणपरिणामाः नेत्रयोः पुरतः नृत्यन्ति स्म । मामपि तस्य पाण्डुरङ्गस्य समीपं नयन्ति किल ? इति सा तान् भक्तान् अपृच्छत् । अस्तु भवती अपि आगच्छतु अस्माभिः सह गन्तुं शक्यते । पण्डरापुरं गत्वा विठ्ठलस्य दर्शनं कृत्वा भवती अपि पुनीता भवतु । स्वस्य सर्वस्वं, मातरमपि त्यक्त्वा सा तैः सह प्रस्थितवती । पण्डरपुरं प्राप्य, देवालयं प्रविश्य, पाण्डुरङ्गस्य प्रतिमायाः दर्शनानुक्षणं सा विवशा जाता । आत्मानं विस्मृतवती । तस्य सेवायां स्वं समर्पयितुं निश्चित्य, हृदये तम् एव पूरितवती । सा तत्रैव स्थितवती । प्रतिदिनं देवस्य पुरतः तस्य श्लाघनस्य भक्तिगीतानि गायन्ती, नृत्यन्ती च आत्मानं विस्मरन्ती आसीत् ।
बिदरसुल्तानस्य आक्रमणम्
[सम्पादयतु]एतावत्पर्यन्तं कान्होपात्रायाः सौन्दर्यस्य प्रभावः दशदिक्षु अपि प्रसृतः आसीत् । बीदरस्य सुल्तानः अपि एतस्य सौन्दर्यस्य विचारं ज्ञातवान् । एतादृशः सौन्दर्यखनिः स्वस्य जनानस्य अलङ्कारः भवेत् इति सः इष्टवान् । अतः तां प्रासादम् आनेतुं सेनां प्रेषितवान् आसीत् । आवश्यकं चेत् बलप्रयोगेन वा ताम् आनेतुं सूचितवान् आसीत् । यथावत् विठ्ठलमन्दिरे सा यदा अभङ्गानि गायन्ती नृत्यन्ती आसीत् तदा सुल्तानस्य सैनिकाः तत्र आगतवन्तः । ते किमर्थम् आगतवन्तः इति दर्शकाः सर्वे ज्ञातवन्तः । विरोधं कृत्वापि प्रयोजनं नास्ति इति चिन्तितवन्तः । सैनिकाः किमर्थम् आगतवन्तः सन्ति इति कान्होपात्रा अपि ज्ञातवती । तया किं करणीयम् इत्यपि निर्णयं कृतवती । ततः पलायनं कर्तुं तु मार्गः नास्ति इति ज्ञात्वा, सैनिकान् एवं प्रार्थितवती निश्चयेन अहं भवद्भिः सह आगच्छामि । किन्तु अन्ते एकवारं समीपतः भगवतः पाण्डुरङ्गस्य दर्शनं कृत्वा आगच्छामि । अनुमतिं यच्छन्तु । तस्याः कम्पनयुक्तवचनशैलीं दृष्ट्वा, देवालयस्य परितः आवृतान् सैनिकान्, तत्रत्य योग्यरक्षणस्य च परिशीलनं कृत्वा सा ततः पलायनं कर्तुं तु न शक्नोति इति मत्वा, भवती सुल्तानस्य अङ्के शयनस्य पुण्यं प्राप्तवती अस्ति । भवत्याः का न्यूनता ? भवत्या अस्माभिः सह आगन्तव्यमेव इति कश्चित् सैनिकः वदति उक्तवान् । भवत्याः अन्वेषणं कुर्वतः अस्माकम् एतादृशी स्थितिः अभवत् । अधिकसम्भाषणेन विना अस्माभिः सह प्रस्थानं करोतु इति अपरः सैनिकः गर्जयति । अग्रजाः कृपया एकवारं विठ्ठलस्य दर्शनं कृत्वा आगच्छामि इति रुदन्ती सा प्रार्थितवती । एतावता पाण्डुरङ्गस्य कृपया, तस्याः रोदनेन विचलितः कश्चन सैनिकः करुणया, कोपिष्ठसैनिकाय अवदत् । त्यजतु रे देवदर्शनं कृत्वा आगच्छामि इति वदन्ती अस्ति, भवतु, सा दर्शनं कृत्वा आगच्छतु नाम । सा कुत्र गच्छति ? वयम् अत्रैव स्मः किल ? देवदर्शनानन्तरं सा अस्माकं हस्तगता एव भविष्यति इति । एतस्य वचनं अन्यसैनिकैः अनुमितम् । ते कान्होपात्राय देवस्य दर्शनं कर्तुम् अवकाशम् अयच्छन् । ते देवालयात् बहिः आवरणे तस्याः प्रतीक्षायां स्थितवन्तः ।
विठ्ठले लीना
[सम्पादयतु]कान्होपात्रा गर्भगृहं प्रविश्य, पाण्डुरङ्गस्य पादे शिरः स्थापयित्वा, स्तोतुम् आरब्धवती । अतीव व्याकुलतया, शोकतप्तहृदयेन सा प्रार्थनाम् आरब्धवती । हे पाण्डुरङ्ग अयं मम स्वामिनं मातरं पितरं भ्रातरं भगिनीं च त्यक्त्वा मम सर्वं भवान् एव इति चिन्तयित्वा भवतः समीपम् आगतवती अस्मि । याम् आपदां दूरीकर्तुं मातरं त्यक्त्वा अत्र आगतवती अस्मि, सा आपत् एव मम पृष्ठतः आगत्य इदानीं शिरसि स्थितास्तु । नरकाय माम् आकृष्टुं यमदूताः आगत्य बहिः स्थितवन्तः सन्ति । हे देव मह्यं भवतः पदकमलस्य आश्रयस्य विना अन्यः कोऽपि आश्रयः नावश्यकम् । मां भवान् स्वीकरोतु कश्चित् दुष्टराजस्य आशापाशे भवतः भक्तायाः बलिः भवते रोचते वा ? भवतः भक्तायाः एतादृशी स्थितिः न्यायः वा ? भवान् एव चिन्तयतु भवतः श्रेष्ठत्वस्य प्रश्नः एषः भवान् एव पश्यतु पुभो इत्युक्त्वा स्वस्य शिरः परमात्मनः चरणे स्थापितवती । तस्मिन् क्षणे तस्याः प्राणाः गताः । तस्याः शरीरम् अचेतनम् अभवत् । तस्याः शरीरात् काचित् दीपशिखा प्रस्थाय भगवतः विग्रहे लीना अभवत् । एतद् दृश्यं तत्र स्थिताः भक्ताः दृष्ट्वा दिङ्मूढाः जाताः । बहिः सैनिकाः कान्होपात्राय प्रतीक्षां कृत्वा कृत्वा जामीताः अभवन् । अन्ते बलात् देवालयस्य अन्तः प्रविश्य ते तस्याः मृतशरीरं दृष्ट्वा विस्मिताः अभवन् । विषयं ज्ञात्वा सुल्तानः अग्निः इव ज्वलति स्म । किन्तु तं शान्तं कृत्वा देवालयस्य अर्चकाः तं देवालयम् आगन्तुम् असूचयन् । सः देवालयम् आगत्य विठ्ठलं दृष्ट्वा घटनायाः सत्यांशं ज्ञातवान् । पश्चात् कान्होपात्रायाः जीवनेन सः अपि नीतिं ज्ञातवान् । अपि च पाण्डुरङ्गस्य भक्तः अभवत् ।
कीर्तिशेषा कन्होपात्रा
[सम्पादयतु]कान्होपात्रायाः अस्थीनि मन्दिरस्य दक्षिणद्वारस्य समीपे समाधिं कृत्वा, तत्र मन्दिरमेकं निर्मितवन्तः । पण्डरापुरं गच्छतः भक्ताः अस्मिन् मन्दिरे कान्होपात्रायाः प्रतिमायाः दर्शनं कृत्वा एव अग्रे गच्छन्ति । एवं रीत्या पतितजनाः पावनाः भवितुम् इच्छन्ति । एषा देवस्य अनेकानि कीर्तनानि रचितवती अस्ति । अभङ्ग नाम्ना एते प्रख्याताः सन्ति । किन्तु एतादृशः अभङ्गः कति सन्ति इति न ज्ञातम् । मुखतः मुखे कतिचन अभङ्गाः सन्ति । तादृशस्य कश्चन अभङ्गे सा एवं पाण्डुरङ्गं वर्णितवती अस्ति हे विठोब मम अन्तिमः आधारः इति मत्वा भवतः समीपम् आगतवती अस्मि । अहं काचित् दरिद्रा, दीना, पापी इत्यनेन भवन्तमेव आश्रितवती अस्मि । मम जातिः धर्मः मतं च सम्पदः किमपि नास्ति । एतादृशी अहं भवतः सेवार्थं योग्या नास्मि चेदपि हे विठोभ भवतः पादे मह्यम् आश्रयं ददातु । हे प्रभो अहं भवतः सेविका, कान्होपात्रा अस्मि ।