सामग्री पर जाएँ

सुमध्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



पुरुषोत्तमपुम् इति किञ्चन नगरम् आसीत् । सौन्दर्यस्य, सुव्यवस्थायाः शासने तन्नगरं प्रसिद्धमासीत् । तस्मिन् नगरे उन्नतस्तरस्य वेश्याः आसन् । तासु सुमध्या बहुप्रख्यातिं प्राप्तवती । सुमध्या सत्कुलप्रसूता आसीत् । तथापि दुष्टसहवासेन सा मार्गभ्रष्टा अभवत् । तेनमार्गेण एव गच्छन्ती अन्ते वेश्या अभवत् । बाल्ये मातापितुः रक्षणे सा शास्त्राध्ययनं कृतवती । बाल्ये प्राप्तस्य धार्मिकवातावरणस्य कारणेन सा धार्मिकानुशसनस्य बहुज्ञानं सम्पादितवती । अतः स्वस्य पतनेन बहुपश्चात्तापः आसीत् तस्याः । किन्तु एतेन मलिनजीवनेन मुक्तिं प्राप्तुम् अन्यः मार्गः नासीत् । तदर्थं खिन्नमनस्का सा स्वस्य जीवनस्य विषये एव असह्यं भावम् अनुभवति स्म । तस्मिन् एव नगरे कश्चन उत्तमः ब्राह्मणयुवकः आसीत् । तस्य नाम भद्रतनुः इति । यदा सः सुमध्यां दृष्टवान् तदारभ्य तस्याः सौन्दर्याराधकः अभवत् । कथञ्चित् तस्याः प्राप्त्यर्थं तस्य आग्रहः आसीत् ।

अनुरक्तःभद्रतनुः

[सम्पादयतु]

युवकः भद्रतनुः अपि बाल्ये उत्तमधार्मिकसंस्कारं प्राप्तवान् आसीत् । सदाचारसम्पन्न्नः अपि आसीत् । किन्तु दुष्टसहवासेन सः अपि दुष्टः जातः । मद्यपानद्यूतचौर्यादीनि दुर्व्यसनानि रूढिगतानि । दुरभ्यासाः शृङ्खला इव भवति । एकं स्पृशति चेत् अवशिष्टं सर्वं पृष्ठतः स्वयम् आगच्छन्ति । अतः सः धर्मनिन्दनामपि आरब्धवान् । परलोक देवानां विषये तस्य आसक्तिः एव दूरङ्गतः । पाखण्डः इव दृश्यते स्म । भद्रतनुः वेश्यानां सहवासम् अनुभूतवान् । गच्छता कालेन सुमध्यायाः समीपम् आगतवान् । सुमध्यायाः रूपेण सः बहुधा आकृष्टः । प्रतिदिनं तस्याः समीपं गच्छति स्म । कालक्रमेण सुमध्या अपि तं ब्राह्मणयुवकम् इच्छति स्म । कतिचन दिनानन्तरम् इच्छा प्रेमस्य रूपं प्राप्नोत् । सुमध्यायै स्वस्य कार्यविषये असह्यमभवत् । परिणामेन सा भद्रतनुं विहाय अन्यं पुरुषं गृहम् आगन्तुम् अवकाशं न दत्तवती । आगतान् सर्वान् निर्गमितवती । भद्रतनोः अधःपतनेन तस्याः दुःखम् अभवत् । एवं तस्य विषये दयया अनुकम्पेन च सा तस्मै मद्यपानं द्यूतः मांसाहरणं चौर्यं च बहुदुष्टगुणाः इति विवृतवती । तान् त्यक्तुम् अनुरोधं कृतवती । तेषां त्यागेन विना मत्समीपं नागच्छतु इत्यपि उक्तवती । तस्याः वचनानि तस्य हृदयं स्पृशन्ति । बहुपरिणामं जनयन्ति । परिणामेन सः दुर्व्यसनेन दूरं गच्छन् आसीत् । क्रमशः तान् त्यजन् आसीत् । दुर्व्यसनेन विमुक्त्या विना नागच्छतु इति तु सुमध्या उक्तवती आसीत् । किन्तु एकदिनमपि सा तस्य दर्शनेन विना स्थातुं न शक्नोति स्म । तस्य आगमनं निवारयितुं सा न शक्तवती । भद्रतनवे सुमध्यायाः समीपगमनेन विना जीवनस्य अन्यलक्ष्यं नासीत् । तस्य परिवर्तनस्य विषये तस्याः शङ्का आसीत् । किन्तु तस्याः अन्यभयमपि आसीत् । स्वस्य अनुरोधेन सः अत्र आगमनेन विना अन्यत्र गच्छति वा किम् ? इति । किं करणीयम् इति चिन्तितवती । तदा रात्रिः आसीत् । महती वृष्टिः अपि आसीत् । मध्यरात्रसमये भद्रतनुः सुमध्यायाः गृहस्य द्वारस्य कुट्टितवान् । सुमध्या द्वारम् उद्घाटितवती । तस्य वस्त्राणि आर्द्राणि आसन् । अन्तः आगत्य भद्रतनुः वस्त्रपरिवर्तनं कुर्वन् अवदत् । क्षमताम् सुमध्ये अद्य मम पितुः श्राद्धमासीत् । एतादृशानां तिथिश्राद्धानां विषये मम कश्चिदपि आसक्तिः नास्ति । किन्तु किं करोमि, जनेभ्यः भयम् अनुभोक्तव्यम् । कथञ्चित् सर्वाणि कार्याणि कृत्वा समापितवान् अस्मि । शीघ्रं शीघ्रं करणीयमिति चिन्तयन् एव आसम् । तथापि समयः अधिकः व्यतीतः । तत्र कार्याणि कुर्वन् आसम् किन्तु मम मनः पूर्णम् अत्रैव भवत्याम् आसीत् । मह्यं दैवपूजा, देवपूजा सर्वं भवती एव अस्ति । भवत्या विना मम किमपि नावश्यकम् । तस्य वचनानि श्रुण्वती आसीत् सुमध्या । तस्य अधःपतनं दृष्ट्वा सा खेदम् अनुभूतवती । स्वस्मिन् एतस्य कियत् मोहः कियत् अज्ञानी अस्ति एषः एतस्य अज्ञानं दूरीकरणीयमेव इति निश्चितवती ।

अज्ञानापाहा सुमध्या

[सम्पादयतु]

सुमध्या मृदुवचनेन तु एतस्य परिवर्तनं न भवति इति ज्ञात्वा सा रोषेण उक्तवती । हे ब्राह्मण धिक्कारः भवन्तम् । भवत्सदृशस्य पुत्रस्य प्राप्तेः अपेक्षया भवतः पिता पुत्रहीनः चेदपि उत्तमम् अभविष्यत् । तस्य श्राद्धदिने पूज्यकार्याणि त्यक्त्वा अस्मिन् नरककूपे पतितुम् आगतवान् अस्ति । भवान् शास्त्रार्थानाम् अध्ययनेन ज्ञातवान् अस्ति । श्राद्धदिने स्त्रीसङ्गं करोति चेत् आत्मना सह पितॄणामपि अधःपतनं भविष्यति इति शास्त्रेषु न पठितवान् वा ? मत्सदृश्याः वेश्यायाः अस्थि मांसचर्मयुक्तशरीरे भवतः उन्मत्तताकारणं किमस्ति ?

हे मूर्ख
दुर्मते मैथुनं यस्तु कुमते पितृवासरे ।
रेतोभोगिन एव स्युः पितरस्तस्य सोऽपि च ॥

यमदण्डान्तर स्थायि जीवितं च शरीरिणाम्।
तथापि पातकं मूढ कुरुषे निर्भयः सदा ॥

जलबुद्बुदवन्मूढ क्षण विध्वंसि जीविनम् ।
किमर्थं शाश्वतधिया करोषि दुरितं सदा ॥

ललाटे लिखितं यस्य मृत्युरित्यक्षरद्वयम् ।
स कथं कुरुते पापं समस्त क्लेशदायकम् ॥

अहो माया महाविष्णोरेका बलवती क्षितौ ।
यतः पापमिवामित्रं सञ्चेतुं हर्षितो जनः ॥

स्थानं पापाय मा देहि निज देहे दुराशय ।
दहत्याश्रयमेनं हि वीतिहोत्र इव ज्वलन् ॥

(मृत्युः यदाकदापि वा आगच्छतु) सर्वेषां जीवीनां जीवनं यमराजस्य आधीन्ये भवति । एतद् ज्ञात्वापि भवान् निर्भयेण सदा पापकार्ये निमग्नः भवति किल ? एतद् जीवनं शाश्वतं किम् ? एतद् तु जलस्य उपरितन बुद्बुदः इव क्षणे एव नश्यति । एतद् शाश्वतमिति मत्वा प्रतिदिनं किमर्थं पापकार्याणि कुर्वन् अस्ति ? मृत्यु इति अक्षरद्वयस्य पदं प्रत्येकस्य ललाटेऽपि लिखितमस्ति । तथापि क्लेशदायकानि पापकार्याणि किमर्थं कुर्वन्ति वा न जाने आहा प्रपञ्चे भगवतः महाविष्णोः माया बहुशक्तिमती अस्ति । अतः एव शत्रुसमानाः पापानि वितीर्य आनन्देन स्थातुं यत्नं कुर्वन्ति । हे दुराशापीडित भवान् भवतः शरीरे पापाय स्थानं न ददातु । यथा अग्निः स्वस्य आश्रयदातमेव दहति तथैव पापम् अपि स्वस्य आश्रयमेव भस्मीकरोति । अतः सोदर सम्यक् चिन्तयतु भवतः हृदयात् माम् दूरीकरोतु । तत्र परमात्मानं प्रतिष्ठापयतु । यः परमात्मनः शरणं गत्वा, तं भजन्ति, ते तस्य कठिणमायाप्रभावेण सहजतया दूरे तिष्ठन्ति । भगवान् बहुदयालुः । निश्चयेन सः भवतः रक्षणं करोति । एवम् उक्त्वा सुमध्या मौनमाश्रितवती ।

पश्चात्तपः वैराग्यं च

[सम्पादयतु]

भद्रतनौ बहुप्रभावं जनयति एतानि वचनानि । कशाताडनेन उत्थापितम् इव अभवत् । अहं शास्त्राणि पठितवान् अस्मि, ब्राह्मणः अस्मि । किन्तु एतस्याः वेश्यायाः अपेक्षया कनीयः अस्मि । मम धिक्कारः भवतु इति चिन्तयित्वा, किञ्चित्कालं वृक्षः इव तूष्णीं स्थितवान् । तस्य पूर्वं सर्वं स्मृतवान् । स्वस्य जप तप धर्मकार्याणि स्मृतवान् । मन्दं मन्दं पतनमार्गस्य विचारमपि चिन्तितवान् । तदा सः तस्य दोषं ज्ञातवान् । तस्य हृदये परिवर्तनं जातम् । नेत्राभ्याम् अश्रूणां प्रवाहः आरब्धः । सः पश्चात्तापम् अनुभूतवान् । इदानीं सुमध्या तस्य गुरुः इव दृश्यते स्म । तस्यै शिरसाष्टाङ्गं प्रणामं कृत्वा देवि मह्यं योग्यं मार्गदर्शनं कृत्वा मम उद्धारं कृतवती अस्ति भवती । पतनात् मां रक्षितवती । भवत्यै मम अनन्तानन्तवन्दनानि । इत्युक्त्वा सः ततः प्रस्थितवान् । सः मार्कण्डेयमुनेः समीपम् आगतवान् । तस्य आज्ञानुसारं भद्रतनुः दान्तमुनेः आश्रमं गत्वा तेन दीक्षां प्राप्तवान् । कठोरनियमानि पालयन् धार्मिकरीत्या अवशिष्टं जीवनं यापितवान् । तस्य पूजादिभिः प्रसन्नः भगवान् प्रत्यक्षः भूत्वा तस्य अनेकसमस्याः परिहृतवान् ।

"https://sa.wikipedia.org/w/index.php?title=सुमध्या&oldid=408614" इत्यस्माद् प्रतिप्राप्तम्