चिन्तामणी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


Chintamani काचित् वेश्यास्त्री आसीत् । सा अनुपमा गायिका आसीत् । स्वस्य मोहकलावण्येन सुश्राव्यगानेन कलापूर्णनृत्येन च सा सर्वेषां प्रशंसापात्रम् अभवत् । नगरस्य सर्वे युवकाः आगत्य तस्याः सङ्गीतनृत्याभ्याम् आनन्दम् अनुभवन्ति स्म । एतेन ते मनोरञ्जनं प्राप्नुवन्ति स्म । एतद् तु सहजं यत् कस्मैचित् पुरुषाय अर्पणेन विना नारीहृदयं सार्थक्यं न अनुभवति । चिन्तामण्याः स्थितिः अपि एवमेव अभवत् । तस्मिन्नगरे बिल्वमङ्गलनामकः कश्चित् सर्वश्रेष्ठः विद्यासम्पन्नः ब्राह्मणयुवकः आसीत् । कदाचित् सः राजवीथ्यां चिन्तामणीं दृष्ट्वा तस्याः सौन्दर्येण आकृष्टः अभवत् । तस्याः सौन्दर्यस्य पुरतः सः संयमरहितः जातः । तस्याम् एव रात्रौ सः चिन्तामण्याः समीपं गतवान् । सः सुन्दरः, आरोग्यवान्, गौरवर्णीयः सुपुष्टशरीरवान् च आसीत् । संयमेन सदाचारेण, तेजसा च सुन्दरं तं युवकं दृष्ट्वा चिन्तामणी अपि आकृष्टा जाता । एवं परस्परौ समाकृष्टौ सम्मिलितौ च ।

अनुपमप्रेम[सम्पादयतु]

युवकः बिल्वमङ्गलः प्रतिभाशाली कविः आसीत् । चिन्तामण्याः कोकिलकण्ठेन, लोकोत्तरगायनेन, नृत्यकलया च तस्य काव्यं सार्थक्यं प्राप्तमासीत् । तस्याः कला अपि एतस्य काव्येन सफला आसीत् । तयोः प्रीतिः दिने दिने वर्धिता अभवत् । परस्परौ क्षणमपि त्यक्त्वा जीवितुं न शक्तवन्तौ । एकं विना अपरस्य जीवनं व्यर्थमिति भासते स्म । बिल्वमङ्गलस्य जीवने नियमाः, संयमः, धर्मकर्माणि च अप्रस्तुतानि अभवन् । गच्छता कालेन सः सर्वदा चिन्तामण्याः गाननृत्ये एव लीनः अभवत् । एषा अपि अन्यत्र कुत्रापि गमनागमनं त्यक्त्वा सर्वदा गृहे एव भवति स्म । तस्याः गृहे अन्यस्य कस्यापि पुरुषस्य प्रवेशः निषिद्धःअभवत् । एवं सर्वदा बिल्वमङ्गलस्य तोषणे सा लग्ना जाता । बिल्वमङ्गलस्य पिता सर्वदा शय्याश्रितः रुग्णः आसीत् । इतः परं तस्य जीवनं कष्टकरम् आसीत् । पितुः दर्शनार्थम् आगच्छतु इति वारं वारम् आह्वानम् आगच्छति स्म । किन्तु तद्विषये बिल्वमङ्गलः दुर्लक्ष्यं कृतवान् । सः चिन्तामणीं विना अन्यत् किमपि न चिन्तयति स्म । चिन्तामणी तं गृहं प्रेषयितुं बहुयत्नं कृतवती । दैवेच्छा अन्या आसीत् । पुत्रस्य प्रतीक्षां कुर्वन् तम् अदृष्ट्वा एव पिता दिवङ्गतः । तदा पुत्रः आगतवान् । पितुः अपरकार्याणि समापितवान् । अन्त्यक्रियायाः समाप्तेः समये रात्रिः अभवत् । तदा वृष्टिकालः । अन्धकामये रात्रिकाले नद्याः प्रवाहे सति अपि बिल्वमङ्गलः चिन्तामण्याः समीपं गन्तुम् इष्टवान् । एतयोः असामान्यप्रीतिः प्रगाढा शुद्धा च आसीत् । नद्याः प्रवाहः अपि तम् अवरोद्धुं न शक्तः । तस्मिन् प्रवाहे कूर्दयित्वा तरणं कृत्वा, तीरं प्राप्तवान् एव । ततः चिन्तामण्याः गृहं प्राप्तवान् । सा निद्रातः जागरिता अभवत् । द्वारम् उद्घाट्य बिल्वमङ्गलेन उक्तं सर्वं श्रुतवती ।

चिन्तमण्याः उपदेशाः[सम्पादयतु]

तयोः अलौकिकं प्रेम आसीत् । सा वास्तवप्रीतिः मोक्षस्य प्रशस्तमार्गः आसीत् । यदि कामः पतनद्वारम् उद्घाटयति तर्हि प्रीतिः आत्मकल्याणस्य मार्गं दर्शयति । चिन्तामणी भावपूर्णा जाता । तस्याः नेत्रे अश्रूपूर्णे अभवताम् । गद्गदकण्ठेन सा अवदत् " अद्य एव भवतः पिता दिवङ्गतः अस्ति । भवतः मातुः कियत् दुःखं स्यात् ? अहं कल्पनां कर्तुं शक्नोमि । सः भवतः पिता । सा तु माता भवतः जन्मदात्री । अद्य वा भवता मातुः सान्त्वनार्थं तस्याः समीपे स्थातव्यम् आसीत् । एतस्याः चिन्तामण्याः मोहेन अस्याम् भयानकरात्रौ नद्याः प्रवाहे तरणं कृत्वा मृत्युञ्जयः भूत्वा अत्र आगतवान् अस्ति । अहं का अस्मि ? अस्थिमांसरक्तकेशैः युक्ता । अस्मिन् निकृष्टशरीरे अपवित्रांशाः एव पूरिताः सन्ति । शरीरं तु अद्य भवति । श्वः नङ्क्ष्यति । भवान् प्रतिभाशाली कविः अस्ति । मम वचने किञ्चित् ध्यानं ददातु । मम सर्वाङ्गानि शीतलानि भवन्ति इति चिन्तयतु, अथवा मह्यं कुष्ठरोगः आगतः इति चिन्तयतु, मलिनव्रणैः पूयं स्रवत् भवति । अद्यतन रूपं शाश्वतं वा चिन्तयतु, एतादृशस्य अल्पकालस्य रूपस्य पृष्ठतः अनुधावन् अस्ति किल ? किं वदामि भवन्तम् ? वास्तवचिन्तामणिः इत्युक्ते नवनीलनीरदच्छविः, मयूरपिञ्छधरः नन्दनन्दनः अस्ति । तं प्राप्नोति चेत् शाश्वततया भवतः चिन्ताः दूरं गमिष्यन्ति । तस्य अपाररूपराशेः कश्चन किरणः एव एतस्मै पूर्णजगते सौन्दर्यं ददाति । तस्य पुरतः एषा वेश्या कियती तुच्छा, निकृष्टा । एतस्य नश्वरशरीरस्य विषये भवतः यावती प्रीतिः अस्ति, तस्य कञ्चित् भागं वा तस्य परमेश्वरस्य विषये यदि स्थापयति तर्हि भवान् कृतार्थः भविष्यति, एषा चिन्तामणी अपि कृतार्था भविष्यति " इति । एवं कथनसमये सा शय्यागारे स्वयं रचितस्य किञ्चित् चित्रं वारं वारम् अङ्गुल्या दर्शयति स्म । बिल्वमङ्गलः अपि तत् चित्रं दृष्टवान् । वास्तविकार्थे सः कविः, प्रतिभाशाली च आसीत् । तस्य जीवनं सदाचारेण यापितवान् आसीत् । इदानीमपि अन्यः कोऽपि दुष्टव्यवहारः नासीत् । चिन्तामणीं सः वस्तुतः इच्छति स्म, प्रीणाति स्म । तस्याः प्रतिवचनमपि तस्य हृदयं स्पृशति स्म ।

पश्चात्तापेन परिवर्तनम्[सम्पादयतु]

यथा कश्चित् श्रद्धावान् शिष्यः भक्तिभावेन गुरूपदेशं शृणोति तथैव एकाग्रचित्तेन एषः प्रतिशब्दमपि शृण्वन् आसीत् । श्रुण्वतः तस्य नेत्रे अश्रूणि प्रवहन्ति । गद्गदकण्ठेन, कष्टेन सः उक्तवान्" देवि भवती एव मम गुरुः । निश्चयेन अहं भवत्याः आज्ञापालनं करोमि । इत्युक्त्वा तस्यै साष्टाङ्गप्रणामं कृत्वा, ततः प्रस्थितवान् । ततः सः साक्षात् श्रीकृष्णस्य लीलाभूमिं व्रजदेशं गतवान् । तत्र स्वस्य कृते किञ्चित् विश्रामधाम निर्मितवान् । स्वरचितस्य श्रीकृष्णकर्णामृतम् इति काव्यस्य मङ्गलचरणस्य आरम्भे सः गुरुरूपेण चिन्तामणीं स्मृतवान् अस्ति । पूर्णरात्रौ चिन्तामणी रुदन्ती, बिल्वमङ्गलस्य शुभं भवतु इति परमात्मानः प्रार्थनां कुर्वती आसीत् । प्रातःकाले सा स्वस्य सर्वसम्पदः दानं कृत्वा, काञ्चित् सामान्यां शाटिकां ध्रुत्वा, स्वस्य विशालभवनं त्यक्त्वा, अरण्यं प्रविष्टवती । तत्र कञ्चित् कुटीरं निर्मीय, अरण्यस्य कन्दमूलफलानि खादन्ती, भगवतः स्मरणे जीवनं यापितवती । एवम् एषा अवशिष्टं जीवनं काचित् साध्वी, तपस्विनी इव यापयित्वा अन्येभ्यः स्त्रीभ्यः आदर्शप्राया जाता ।

"https://sa.wikipedia.org/w/index.php?title=चिन्तामणी&oldid=440128" इत्यस्माद् पुनः प्राप्तिः