सामग्री पर जाएँ

कारैक्काल् अम्बा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



कारैक्काल् अम्बा

[सम्पादयतु]

तमिळ्नाडु प्रदेशेचोळ्साम्राज्ये शिवभक्त्या स्वस्य सुन्दरशरीरमपि त्यक्तवत्याः अम्बायाः नाम एव कारैक्काल् अम्बा । तमिळ्नाडु मध्ये प्रसिद्धाः शिवस्य दासाः ६३ आसन् । तान् 'नायन्मार्' इति नाम्ना आह्वयन्ति । तेषु अन्यतमा अस्ति कारैक्काल् अम्बा । चोळराज्ये समुद्रतीरस्थं वाणिज्यक्षेत्रम् अस्ति "कारैक्काल् “ । तत्र धनदत्तः नाम कश्चित् वणिक् आसीत् । तस्य अतिसौन्दर्यवती एका पुत्री आसीत् । तपोफलेन प्राप्तायाः तस्याः कृते 'पुनीतवती' इति नामकरणं कृतवान् धनदत्तः । पुनीतवती बाल्यकाले एव नितरां शिवस्य चिन्तनं कुर्वती आसीत् । सा शिवभक्तान् सर्वानपि शिवः एव इति मत्वा तेषां सेवां करोति स्म । सा विवाहवयस्का अभवत् ।

गृहस्थाश्रमः

[सम्पादयतु]

नागपट्टिनं नाम एकस्मिन् नगरे "निधिपतिः“ नाम कश्चन वणिक् आसीत् । तस्य पुत्रः आसीत् "परमदत्तः“ । तेन साकं पुनीतवत्याः विवाहः जातः । धनदत्तस्य पुनीतवती अनन्या पुत्री । अतः सः तस्यै गृहस्थाश्रमप्रवर्तनार्थं तत्रैव सर्वविधसौलभ्यानि कल्पितवान् । तयोः कृते कारैक्काल् प्रदेशे एव पृथक् गृहं , प्रभूतं धनञ्च व्यस्थापितवान् । परमदत्तः तत् धनम् उपयुज्य वाणिज्यं कृत्वा सम्पादयन् आसीत् । तस्य पत्नी अपि सुगुणवती आसीत् । सा शिवम् स्मरन्ती शिवभक्तेभ्यः भोजनं, धनं इत्यादीनि दत्त्वा गृहस्थाश्रमधर्मान् सुष्ठु परिपालयन्ती आसीत् । एवम् तयोः जीवनं सम्यक् प्रचलत् आसीत् ।

आम्रफलप्राप्तिः

[सम्पादयतु]

तदा कदाचित् कश्चन परमदत्ताय आम्रफलद्वयं दत्तवान् । परमदत्तः ते गृहम्प्रति प्रेषितवान् । पुनीतवती अपि ते फले स्वीकृत्य स्थापितवती । तस्मिन् अवसरे शिवभक्तः एकः बुभुक्षया पीडितस्सन् तत्र आगतः । तस्य स्थितिम् अवगत्य पुनीतवती भोजनं दातुं चिन्तितवती । किन्तु तस्मिन् समये गृहे अन्नं केवलं सिद्धम् आसीत् । व्यञ्जनादिकं तु न सिद्धम् । किन्तु सा बुभुक्षितस्य शिवभक्तस्य प्रतीक्षां कारयितुं न इष्टवती । तत् केवलं न शिवभक्ताय भोजनदानं तस्याः सौभाग्यम् इति सा चिन्तितवती । अतः सा परमदत्तेन प्रेषितयोः आम्रफलयोः एकं कर्तयित्वा भोजनेन साकं परिवेषितवती । तस्य बुभुक्षामपि निवारितवती । शिवभक्तः अपि आतृप्ति भुक्त्वा सन्तोषेण ततः निर्गतः ।

परमदत्तः मध्याह्ने गृहम् आगत्य हस्तपादादिकं प्रक्षाल्य भोजनार्थम् उपविष्ठवान् । पुनितवती अन्नेन सह व्यञ्जनादिकं परिवेष्य आम्रफलमपि परिवेषितवती । परमदत्तः आम्रफलं खादित्वा तस्य स्वादेन आनन्दम् अनुभूतवान् । अतः सः 'इतोपि एकं फलम् अस्ति खलु तदपि ददातु' इति उक्तवान् ।

अन्यफलं शिवभक्ताय दत्तम् इति वक्तुं शक्यं चेदपि पतिव्रता सा पत्युः रुच्यास्वादनभङ्गं कर्तुम् अनिच्छन्ती गृहस्यान्तः गत्वा हृदयपूर्वकं शिवं प्रार्थितवती । शिवस्य अनुग्रहेण एकं फलं प्राप्तवती । सा सन्तोषेण तत् फलं पत्युः कृते परिवेषितवती ।

परमदत्तः तत् फलं यदा खादितवान् तदा महदाश्चर्यम् अनुभूतवान् । 'किमिदं ! देवामृतस्यापेक्षया अपि रुचिपूर्णम् अस्ति । अहं पूर्वं यत् खादितवान् तस्य रुचिः न एतस्य इति चिन्तयन् पुनितवतीं पृष्ठवान् 'कुतः एतत् फलं प्राप्तम् ? सत्यं वद' इति । सा पतिम्प्रति सत्यकथनमेव पतिव्रतायाः धर्मः इति मत्वा प्रवृत्तं सर्वम् उक्तवती । किन्तु परमदत्तः तस्याः वाक्ये विश्वासं न प्रकटितवान् । अतः सः 'एतत् सर्वं सत्यं चेत् शिवं प्रार्थयित्वा इतोऽपि एकं फलं प्रप्नोतु' इति उक्तवान् । सा पुनः गत्वा प्रार्थितवती । शिवानुग्रहेण अन्यत् फलमपि प्राप्तवती । परमदत्तस्य हस्ते सा तत् फलं दत्तवती । एतत् सर्वं दृष्ट्वा परमदत्तः आश्चर्यचकितः । परमदत्तस्य मनसि भयम् उत्पन्नम् । स्वपत्न्याः उपरि भक्तिः अपि उत्पन्नम् । तदनन्तरं सः तया सह पत्नीसम्बन्धं त्यक्तवान् ।

पत्युः वियोगः

[सम्पादयतु]

किञ्चित् कालानन्तरं नौकायां विदेशीयाः यानि वस्तूनि इच्छन्ति तानि सर्वाणि स्वीकृतवान् । समुद्रान्तरं गत्वा वाणिज्यं कृत्वा आगच्छामि इति उक्त्वा ततः प्रस्थितवान् । विदेशे वाणिज्येन प्रभूतं धनं सम्पादितवान् । ततः सः पाण्ड्यराज्यं प्रति गत्वा द्वितीयविवाहं कृत्वा पुत्रीमपि प्राप्तवान् । पुत्र्यै 'पुनितवती' इति नामकरणमपि कृतवान् ।

एतं विषयं ज्ञात्वा पत्न्याः पुनितवत्याः बान्धवाः तां तस्याः पत्युः सकाशं नीतवन्तः । तस्याः आगमनं ज्ञात्वा परमदत्तः सकुटुम्बं तां मिलित्वा तस्याः पादौ पतित्वा नमस्कृतवान् । चकिता पुनितवाती बान्धवानां पृष्ठतः गत्वा स्थितवती । "किमर्थं पत्न्याः पादौ नमस्करोति ?“ इति बान्धवाः अपृच्छन् ।

तच्छृत्वा परमदत्तः "एषा सामान्या नास्ति, तस्याः दैवीकशक्तिम् अवगत्यैव दूरं गतवान् अस्मि । मम पुत्र्यै अपि एतस्याः नाम एव स्थापितवान् अस्मि । एतस्याः पूजामेव कर्तुम् अर्हः अहम् । भवन्तः अपि एतस्याः पूजां कुर्वन्तु, तेन भवतामपि सद्गतिः भवति“ इति उक्तवान् । तस्य वाक्येन बान्धवाः आश्चर्यचकिताः अभवन् ।

सौन्दर्यत्यागः

[सम्पादयतु]

परमदत्तस्य वाक्यं शृत्वा पुनितवती शिवस्य चरणारविन्दम् एकाग्रचित्ततया ध्यात्वा "हे भगवन् ! मम पत्युः सङ्कल्पः एवम् अस्ति, तस्मै एव एतत् सौन्दर्ययुक्तं शरीरं वहन्ती अस्मि; इतःपरं एतत् शरीरं मह्यं मास्तु, भवानेव मम शरीरात् त्वचं निष्कासयतु । भवतः भूतगणेषु अन्यतमं पैशाचरूपं ददातु इति सम्प्रार्थितवती ।

तदानीमेव तस्याः शरीरात् त्वक्भागः निर्गतः । अस्थि केवलं स्वीकृत्य पैशाचरूपं प्राप्तवती पुनितवती । तस्याः रूपं दृष्ट्वा भीताः बान्धवाः तां नमस्कृत्य ततः निर्गताः । तदनन्तरं भगवतः स्मरणमेव कुर्वती कालं यपितवती सा ।

प्रबन्धरचना

[सम्पादयतु]

प्रथमतया "अद्भुततिरुवन्तादि“नामक् प्रबन्धं रचितवती । पुनः "तिरुविरट्टैमणिमालै“ प्रबन्धोपि विरचितः तया । तदनन्तरं शिवानुग्रहेण शिवस्यनिवासस्थानं कैलासपर्वतं प्रति प्रस्थिता सा । पुनितवत्याः पैशाचरूपं दृष्ट्वा जनाः भीत्या आश्चर्येण च धावितवन्तः । किन्तु सा तु मनोवेगमतिरिच्यापि वेगेण यात्रां कृतवति शिवं द्रष्टुम् । कैलासपर्वतस्य पादाभ्याम् आरोहणं पापाय इति मत्वा शिरसा एव आरूढवती ।

शिवानुग्रहः

[सम्पादयतु]

शिवस्य पूर्णा दृष्टिः तस्याः उपरि पतिता । तदा पार्वती शिवं पृष्ठवती "का एषा पर्वतं शिरसा आरोहति ?“ इति । "सा वात्सल्येन आवां लालयति अम्बा एव“ इति शिवः उत्तरम् अवदत् । समीपमागतां पुनितवतीं दृष्ट्वा "हे अम्ब !“ इति शिवः आहूतवान् । पुनितवती अपि "हे पितः !“ इति आहूतवती ।

ईश्वरः पुनितवतीं "एतावत् पर्यन्तम् आगतं त्वया । किं वरं अपेक्षते "इति अपृच्छत् । सा "हे करुणासिन्धो ! सर्वदा तव पादारविन्दयोः एव मम मतिः भवतु । पुनः मम जननमेव न भवेत् । विधिवशेन भवति चेदपि तव स्मरणेन एव भवितव्यम् । तव आनन्दतान्डवसम्ये पादयोः अधः भूत्वा सर्वदा तव नाट्यं द्रष्टव्यं मया“ इति सम्प्रार्थितवती ।

अम्बा यद्यत् प्रार्थितवती तत् सर्वम् दत्त्वा ताम् अनुगृहीतवान् शिवः । सः तां दक्षिणभारतस्थं "तिरुवालङ्काडु“प्रदेशं गत्वा उषित्वा मम आनन्दताण्डवं सर्वदा पश्यन्ती, मम गानं कुर्वती भवतु इति ताम् अनुग्रहपूर्णं प्रेषितवान् ।

कैलासपर्वतात् निर्गत्य शिरसा एव गत्वा तिरुवालङ्काडुं प्राप्तवती अम्बा । शिवेन "अम्बा“ इति आहूता इति कारणेन, ”कारैक्काल्“ प्रदेशस्था इति कारणेन च तस्याः नाम "कारैक्काल् अम्बा“ इति जातम् । अद्यापि तिरुवालङ्काडुप्रदेशे शिवस्य समीपे एव कारैक्काल् अम्बायाः मूर्तिः अस्ति ।

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=कारैक्काल्_अम्बा&oldid=419107" इत्यस्माद् प्रतिप्राप्तम्