केनोपनिषत्
केनोपनिषत् प्राचीनासु दशसु उपनिषत्सु अन्यतमा । अस्यां ३४ मन्त्राः विद्यन्ते । अस्याः उपनिषदः प्रमुखः विषयो भवति ब्रह्मविद्या । परब्रह्मस्वरूपः परमात्मा इन्द्रियातीतः, सः एव सर्वप्रेरकः इत्ययं विषयः समीचीनतया वर्णितः वर्तते । ब्रह्मज्ञानिनः लक्षणानि कानि इत्येतं विषयं मनोरञ्जकरीत्या विरोधाभासयुक्तैः वचनैः वर्णितवन्तः। कापि देवता न स्वतन्त्रा, सर्वाः देवताः परब्रह्मणा प्रेरिताः इत्ययं सिद्धान्तः अत्र प्रदर्शितः अस्ति । 'एकं सद्विप्रा बहुधा वदन्ति' इत्यस्य वा 'एकमेवाद्वितीयम्' इत्यस्य श्रुतिवाक्यस्य मनोहरं व्याख्यानरूपं वर्तते केनोपनिषत् । परमसत्यम् एकमेव विद्यते, तच्च अतीन्द्रियं विद्यते इत्येतत् तत्त्वद्वयमेव अत्र कविभिः चर्चितः प्रमुखः विषयः ।
द्वितीयं खण्डं चतुर्थखण्डस्य द्वित्रान् श्लोकान् विहाय अवशिष्टभागेषु भाषा अतीव सरला विद्यते । द्वितीयखण्डस्य क्लेशस्य हेतुः भवति तत्र उपयुक्ता सङ्क्षेपपद्धतिः । चतुर्थखण्डस्य क्लेशस्य मूलं भवति तत्र उपयुक्तानि पारिभाषिकपदानि ।
परब्रह्म अतीन्द्रियवस्तु विद्यते । सृष्टजगति विद्यमानानि सूक्ष्मतमानि वस्तूनि विविधैः यान्त्रिकोपकरणानां साहाय्येन द्रष्टुं शक्यानि, अभिज्ञातुं शक्यानि । किन्तु येन वस्तुना इयम् इन्द्रियशक्तिः निर्मिता वर्तते तस्य दर्शनं कथम् ? नेत्राभ्यां जगत् द्रष्टुं शक्यम्, किन्तु नेत्रयोः दर्शनं कथम् ? अतः एव तत् परब्रह्म नेत्रयोः नेत्रं, कर्णयोः कर्णः इति निर्दिष्टम् । नेत्रयोः नेत्रं नाम नेत्रदर्शनस्य सामर्थ्यं यस्मिन् विद्यते सः इत्यर्थः । नेत्रं यया शक्त्या द्रष्टुं शक्नोति तस्याः शक्तेः दाता, प्रेरकः वर्तते सः । अतः सः इन्द्रियैः अगोचरः, इन्द्रियातीतः च ।
आर्यऋषीणां दृष्टिः अत्यन्तं सूक्ष्मा आसीत् इति प्रतिपदम् अस्माभिः अवगम्यते । प्रत्येकस्मिन् विषये अपि मूलतत्त्वानाम् अन्वेषणं तेषां सहजः स्वभावः आसीत् ।
शान्तिमन्त्रः
[सम्पादयतु]- ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
- श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि।
- सर्वम् ब्रह्मौपनिषदम् माऽहं ब्रह्म
- निराकुर्यां मा मा ब्रह्म
- निराकरोदनिराकरणमस्त्वनिराकरणम् मेऽस्तु।
- तदात्मनि निरते य उपनिषत्सु धर्मास्ते
- मयि सन्तु ते मयि सन्तु।
- ॐ शान्तिः शान्तिः शान्तिः॥
प्रथमखण्डः
[सम्पादयतु]इयमुपनिषत् [[सामवेदः|सामवेदी]यतलवकारब्राह्मणे नवमाध्यायान्तर्गता । अस्यां परब्रह्मतत्त्वचिन्तनं गुरुशिष्ययोः प्रश्नप्रतिवचनद्वारा क्रियते । केन इति प्रश्नपूर्वकम् आरभ्यते इति कारणात् इदं नाम । इह जिज्ञासुः शिष्यः गुरुं पृच्छति, केनेषितं पतति इत्यनेन मनुष्यस्य यानि जडरूपाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च उभयविधानि भवन्ति, एतेषां शब्दादिविषयेषु नियोगः केन क्रियते ? तदा गुरुः प्रत्युत्तरति – यः सर्वज्ञः सर्वव्यापी परमात्मा एव अत्र सर्वाणि इन्द्रियाणि नियुङ्क्ते तत्तद्विषयेषु सः एव श्रोत्रस्य श्रोत्रम्, मनसो मनः इत्यादिना सर्वजगतः मूलरुपः । एतत् तत्त्वं विदित्वा धीराः अमृताः भवन्ति ।
द्वितीयखण्डः
[सम्पादयतु]द्वितीयखण्डे तावत् आदौ शिष्यस्य अहं ब्रह्म सुवेद इत्याकारकदुरभिमानस्य निवारणार्थं यदि मन्यसे इत्यादिना आरभ्यते । यतः ब्रह्मणः पूर्णज्ञानमस्यां संसारदशायां न भवति । यदा च त्रिपुटिलयः भवति तदा एव । यः मतमिति वदति तस्य निश्चयेन अमतं ब्रह्म । सर्वबौद्धप्रत्ययेषु अनुस्यूतं ब्रह्मतत्त्वं यः वेत्ति सः अमृतत्वं प्राप्नोति । इह चेदवेदीत् इत्यनेन ब्रह्मजिज्ञासाकर्तव्यता मानवे जन्मनि एव इति निश्चीयते ।
तृतीयखण्डः
[सम्पादयतु]तृतीयखण्डे तु आख्यायिका विद्यते देवानां दुर्महिमानगर्वप्रहरणरूपा । तत्रादौ परमात्मा यक्षरूपेण आविर्भवति । तद्विज्ञातुम् आदौ गच्छति अग्निः । गत्वा च स्वस्य गर्वं दर्शयति सर्वं दहेयं यदिदं पृथिव्याम् इत्यनेन । तदा यक्षेण स्थापितं किञ्चन तृणमपि दग्धुमशक्तः प्रतिनिवर्तते । एवमेव वायुरपि आगत्य गर्वभङ्गपुरस्सरं प्रतिगच्छति । यदा इन्द्रः आगच्छति तदा यक्षः अन्तर्हितो भवति तस्मिन् स्थाने हैमवती उमा प्रत्यक्षा भवति । सा ब्रह्मतत्वस्य विषये वक्ति यत् देवानां गर्वभङ्गार्थमेव ब्रह्म यक्षरूपेण आगतम् इति । अन्ते च परब्रह्मोपासनमुक्तम् आधिदैविकाध्यात्मिकरूपेण । तस्य फलमपि उक्तं तस्य साधकस्य कृते सर्वाणि भूतानि चिदानन्दमयानि भवन्ति । सर्वभूतानां प्रियतमो भवति अयम् ।
शब्दार्थाः
[सम्पादयतु]उपनिषत् - ब्रह्मविद्या
प्रतिबोधः - ध्यानम्
दभ्र - स्वल्पम्
जातवेदः - ज्ञानी (अग्नेः नाम)
अमृतत्त्वम् - नाशरहिता नित्यानन्दस्थितिः
यक्षः - अद्भुतं पूज्यं वस्तु
मातरिश्वन् - वायुः, अन्तरङ्गे सञ्चारकः
आधिदैविकम् - दैवशक्तिसम्बद्धम्
अध्यात्मिकम् - आत्मसम्बद्धम्
प्रतिष्ठा - आधारः
अभिक्ष्णम् - इष्टम्
वनम् - आनन्दरूपम्
ज्येयम् - श्रेष्ठम्