सामग्री पर जाएँ

को तक इन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अमिताभबुद्धः, को-तक-इन

को-तक-इन ( /ˈkoʊ təkə ɛnə/) (हिन्दी: को तक इन, जापानी: 高徳院, आङ्ग्ल: Kōtoku-in)इति जपान्-देशस्य कानागावा-राज्यस्य कामाकुरा-नगरे स्थितं जोदो-शु-सम्प्रदायस्य बौद्धमन्दिरम् अस्ति । तस्मिन् मन्दिरे कांस्येन निर्मिता विशालबुद्धप्रतिमा अस्ति । तस्याः प्रतिमायाः नाम "दाईबुत्सु" इति । विशाले परिसरे विद्यमाना सा प्रतिमा जपान्-देशस्य प्रख्यातचिह्नेषु अन्यतमा अस्ति ।

अमिताभबुद्धप्रतिमा

[सम्पादयतु]
१९३० तमे वर्षे
आन्तरिकरचना
प्रतिमानिर्माणस्य सूचनाः

कुमाकुरा-नगरे स्थिता सा अमिताभप्रतिमा को-तक-इन्-मन्दिरे विद्यमाना अस्ति । १२५२ तमे वर्षे तस्याः प्रतिमायाः निर्माणम् अभवत् इति मन्दिरप्रशसनस्य याच्ञा अस्ति । तस्याः पूर्वम् अस्मिन् एव स्थाने काष्ठनिर्मिता विशालमूर्तिः आसीत् । तस्याः अभिताभकाष्ठमूर्तेः निर्माणं दश वर्षाणाम् अमितपरिश्रमेण १२४३ तमे वर्षे पूर्णम् अभवत् । तस्याः मूर्तेः निर्माणाय इनाडा-नो-त्सुबा आख्यया महिलया धनराशिः दत्तः आसीत् । तेन धनराशिना जोको आख्यः बौद्धभिक्षुः तस्याः अमिताभप्रतिमायाः निर्माणम् अकारयत् । ततः १२४८ तमे वर्षे चक्रवाताक्रमणे तस्याम् अमिताभमूर्त्यां खण्डितायां सत्यां जोको-भिक्षुः नवीनायाः कांस्यप्रतिमायाः निर्माणाय घोषणां कृत्वा पुनः धनसङ्ग्रहणम् आरभत [१] । नवीना कांस्यप्रतिमा गोरेमोन-नगरे [२] उत तानजी हिसातोमो-नगरे [३] निर्मिता इति इतिहासविदाम् अनुमानम् [४] । तस्यां कांस्यप्रतिमायां सुवर्णावरणम् अपि कृतं स्यात् इत्यपि मन्यते । किञ्च अमिताभबौद्धप्रतिमायाः कर्णयोः समीपे सुवर्णस्य चिह्नानि प्राप्तानि [५] । काष्ठप्रतिमा यस्मिन् खण्डे आसीत्, सः खण्डः १२४३ तमे वर्षे चक्रवातेन नष्टे सति १३३४ तमे वर्षे तस्य पुनर्निर्माणम् अभवत् । परन्तु ततः पुनः १३६९ तमे वर्षे चक्रवातप्रहारेण सः खण्डः विनष्टः । अतः तस्य खण्डस्य पुनर्निर्माणम् अभवत् [१] । सः पुनर्निर्मितः खण्डोऽपि १४९८ तमस्य वर्षस्य सितम्बर-मासस्य विंशे दिनाङ्के जाते पुरे पुनः विनष्टः [६] । तदारभ्य एषा कांस्यप्रतिमा अलिन्दविहिने विशाले परिसरे एव विद्यते [६] ।

आसनेन सह मूर्तेः आहत्य औन्नत्यं १३.३५ मी-परिमितं (४३.८ फीट्) अस्ति [७] । मूर्तेः अनुमानितभारः ९३ टन अस्ति । मूर्तिः अन्तस्तात् शून्या अस्ति । अतः यात्रिणः अन्तः प्रविष्टुं शक्नुवन्ति [८] । मूर्तेः निर्माणावसरे आसने ३२ कांस्यनिर्मितानि कमलदलानि आसन् । परन्तु तेषु सद्यः चत्वारि कमलदलानि एव अवशिष्टानि सन्ति । तानि कमलदलानि अपि मूर्तेः भिन्ने स्थाने रक्षितानि सन्ति [९] । मन्दिरस्य द्वारे एकं विशिष्टं वाक्यं लिखितम् अस्ति यत् –

हे अपरिचित ! यस्यां कस्याम् अपि कलायां निपूणः स्याः, तव धर्मः कोऽपि स्याश्च, परन्तु एनं परिसरं प्रवेशनात् प्राक् एतत् स्मर यत्, एतत् स्थानं शरदां शतात् पूजया पवित्रीभूतं स्थानम् अस्ति । एतत् बुद्धमन्दिरं, शाश्वतद्वारं चास्ति । अतः आदरपूर्वकम् अन्तः प्रविशतात् [१०] इति ।

१९२३ तमे वर्षे भूकम्पत्वात् एतस्याः प्रतिमायाः आसनं खण्डितम् अभवत् । तस्य पुनर्निर्माणकार्यं १९२५ तमे वर्षे पूर्णम् अभवत् [१] । १९६०-१९६१ मध्ये सम्पूर्णप्रतिमायाः पुनर्निर्माणस्य कार्यम् अभवत् । तस्मिन् पुनर्निर्माणकार्ये भूकम्पात् रक्षितुं विशेषकार्यम् अभवत् । अमिताभमूर्तेः दृढतां वर्धयितुं कण्ठभागे विशेषकांस्यस्य योजने मूर्तिः दृढताङ्गता [१] ।

मूर्तेः विषये

[सम्पादयतु]
प्रतिमायां स्थितं कपोतं दृष्ट्वा प्रतिमायाः अमिताभत्वस्य अनुमानं कर्तुं शक्नुमः
प्रतिमायाः पृष्ठे वातायानानि
  • भारः : 121 टन (2,67,000 पाउन्ड)[११]
  • औन्नत्यम् : 13.35 मीटर (43.8 फ़ुट)
  • मुखस्य लम्बता : 2.35 मीटर (7 फ़ुट 9 इंच)
  • अक्षिणः लम्बता : 1.0 मीटर (3 फ़ुट 3 इंच)
  • कर्णस्य लम्बता : 1.90 मीटर (6 फ़ुट 3 इंच)
  • जानोः लम्बता : 9.10 मीटर (29.9 फ़ुट)
  • अङ्गुष्ठस्य व्यासः : 0.85 मीटर (2 फ़ुट 9 इंच)

रूड्यार्ड किपलिङ्ग इत्यस्य कविता

[सम्पादयतु]

रूड्यार्ड किपलिङ्ग इत्यस्य कवेः 'किम' (१९०१) इत्याख्यस्य पुस्तकस्य प्रारम्भिकप्रकरणेषु एतस्याः अमिताभप्रतिमायाः कवितात्वेन वर्णनम् अस्ति । १८९२ तमे वर्षे यदा कविः अमिताभप्रतिमायाः दर्शनाय गतः आसीत्, तदा तेन सा कविता रचिता [१२] । तस्याः कवितायाः सम्पूर्णभागः 'द फाइव नेशन' (१९०३) इत्यस्मिन् पुस्तके मुद्रितः [१२] ।

उद्धरणम्

[सम्पादयतु]
  1. 1 2 3 4 Takao Sato (ed.). Daibutsu: The Great Buddha of Kamakura. Hobundo. p. 7.
  2. ↑ Frédéric, Louis.
  3. ↑ Kate Tsubata (May 25, 2008). "The Great Buddha at Kamakura". The Washington Times.
  4. ↑ The New Official Guide, Japan Japan Travel Bureau (1975) p.404
  5. ↑ "Kotoku-in (The Great Buddha)". Kamakura Today. 2002. Archived from the original on 2012-06-07. आह्रियत 2015-11-27.
  6. 1 2 Tsuji, Yoshinobu (1983). "Study on the Earthquake and the Tsunami of September 20, 1498". In Iida, Kumiji; Iwasaki, Toshio. Tsunamis: Their Science and Engineering, Proceedings of the International Tsunami Symposium, 1981. Tokyo: Terra Scientific Publishing (Terrapub). pp. 185–204. ISBN 90-277-1611-0
  7. ↑ "An Overview of the Great Buddha" Archived २०१२-०४-१८ at the Wayback Machine Kotoku-in Official Website.
  8. ↑ Takao Sato (ed.). Daibutsu: The Great Buddha of Kamakura. Hobundo. p. 14.
  9. ↑ Takao Sato (ed.). Daibutsu: The Great Buddha of Kamakura. Hobundo. p. 16.
  10. ↑ Takao Sato (ed.). Daibutsu: The Great Buddha of Kamakura. Hobundo. p. 18.
  11. ↑ "Information about Daibutsu onsite". Archived from the original on 2012-06-30. आह्रियत 2015-11-27.
  12. 1 2 Rudyard Kipling, "The Buddha at Kamakura".

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

निर्देशाङ्कः : ३५°१९′०१″उत्तरदिक् १३९°३२′०९″पूर्वदिक् / 35.31684°उत्तरदिक् 139.53573°पूर्वदिक् / ३५.३१६८४; १३९.५३५७३

"https://sa.wikipedia.org/w/index.php?title=को_तक_इन&oldid=500028" इत्यस्माद् प्रतिप्राप्तम्