सामग्री पर जाएँ

क्रियापदरूपाणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतव्याकरणे धोतूनां दश क्रियापदरूपाणि (गणाः) सन्ति। एकैकेभ्यः धातुगणेभ्यः लकारप्रत्ययाः सन्ति। एते गणाः सन्ति -

भ्वाद्यदादि जुहोत्यादिः दिवादिः स्वादिरेव च ।
तुदादिश्च रुधादिश्च तनादि-क्री-चुरादयः।।

  1. भ्वादिः
  2. अदादिः
  3. जुहोत्यादिः (ह्वादिः)
  4. दिवादिः
  5. स्वादिः
  6. तुदादिः
  7. रुधादिः
  8. तनादिः
  9. क्र्यादिः
  10. चुरादिः

एते गणाः इह व्याख्यान्ते

भ्वादिः

[सम्पादयतु]

भ्वादयः भू-धातुरिव सन्ति। भ्वादिभ्यो धातुभ्योऽकार-गणप्रतययोऽस्ति। अपि च कदाचित् समये धातोः स्वरो गुण्यते। एतद् गुणवषयः सर्वेषु गणेषु अस्ति (तु तुदादिषु नास्ति)। अतो लट् लकाराय भ्वादयः इत्येवं क्रियन्ते-

भू + अ + ति → गुण → भो + अ + ति → सन्धि → भव + ति → भवति

भू धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःभवतिभवतःभवन्ति
मध्यमपुरुषःभवसिभवथःभवथ
उत्तमपुरुषःभवामिभवावःभवामः
वन्द् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःवन्दतेवन्देतेवन्दन्ते
मध्यमपुरुषःवन्दसेवन्देथेवन्दध्वे
उत्तमपुरुषःवन्देवन्दावहेवन्दामहे

अन्यानि रुपाणि इत्येव -

अभवत्, अभूत्, बभूव, भवेत्, भूयात्, भवतु, भविता, भविष्यति, अभविष्यत्।

अवन्दत, अवन्दिष्ट, ववन्दे, वन्देत, वन्दिषीष्ट, वन्दताम्, वन्दिता, वन्दिष्यते, अवन्दिष्यत।

अदादिः

[सम्पादयतु]

अदादयोऽद्-धातुरिव सन्ति। एतस्मै गणाय गणप्रत्ययो नास्ति। अतो लट् लकाराय अदादयः इत्येवं क्रियन्ते -

अद् + ति → सन्धि → अत्ति

अद् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअत्तिअत्तःअदन्ति
मध्यमपुरुषःअत्सिअत्थःअत्थ
उत्तमपुरुषःअद्मिअद्वःअद्मः
वृज् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःवृक्तेवृजातेवृजते
मध्यमपुरुषःवृक्षेवृजाथेवृग्ध्वे
उत्तमपुरुषःवृजेवृज्वहेवृज्महे

अन्यानि रुपाणि इत्येव -

आदत्, आघसत्, आद, अद्यात्, अद्यात्, अत्तु, अदिता, अत्स्यति, आत्स्यत्।

अवृक्त, अवर्जिष्ट, ववृजे, वृजीत, वर्जिषीष्ट, वृक्ताम्, वर्जिता, वर्जिष्यते, अवर्जिष्यत।

जुहोत्यादिः (ह्वादिः)

[सम्पादयतु]

जुहोत्यदयो हु-धातुरिव सन्ति। एतेषां प्रत्ययोऽपि नास्ति (अदादय इव)। किन्तु एतेषाम् आरम्भे लिट् लकारे इव द्विगुणन्ते। अतो लट् लकाराय जुहोत्यदयः इत्येवं क्रियन्ते -

दा + ति → द्विगुण → ददा + ति→ ददाति

दा धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःददातिदत्तःददति
मध्यमपुरुषःददासिदत्थःदत्थ
उत्तमपुरुषःददामिदद्वःदद्मः
भृ धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःबिभृतेबिभ्रातेबिभ्रते
मध्यमपुरुषःबिभृसेबिभ्राथेबिभृध्वे
उत्तमपुरुषःबिभ्रेबिभृवहेबिभृमहे

अन्यानि रुपाणि इत्येव -

अददात्, अदात्, ददौ, दद्यात्, देयात्, ददातु, दाता, दास्यति, अदास्यत्।

अबिभृत, अभृत, बिभ्रे, बिभ्रीत्, भृषीष्ट, बभृताम्, भर्ता, भरिष्यते, अभरिष्यत।

दिवादिः

[सम्पादयतु]

दिवादयो दिव्-धातुरिव सन्ति। एते भ्वादयश्च सदृशाः सन्ति। परन्तु एको यकार-गणप्रत्ययोऽकार-प्रत्ययेन सह अस्ति। अतो लट् लकाराय दिवादयः इत्येवं क्रियन्ते -

नृत् + य + ति → नृत्य + ति → नृत्यति

नृत् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःनृत्यतिनृत्यतःनृत्यन्ति
मध्यमपुरुषःनृत्यसिनृत्यथःनृत्यथ
उत्तमपुरुषःनृत्यामिनृत्यावःनृत्यामः
दीप् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःदीप्यतेदीप्येतेदीप्यन्ते
मध्यमपुरुषःदीप्यसेदीप्येथेदीप्यध्वे
उत्तमपुरुषःदीप्येदीप्यावहेदीप्यामहे

अन्यानि रुपाणि इत्येव -

अनृत्यत्, अनर्तित्, ननर्त, नृत्येत्, नृत्यात्, नृत्यतु, नर्तिता, नर्त्स्यति, अनर्त्स्यत्।

अदीप्यत, अदीपीष्ट, दिदीपे, दीप्येत, दीपिषीष्ट, दीप्यताम्, दीपिता, दीपिष्यते, अदीपिष्यत।

स्वादिः

[सम्पादयतु]

स्वादयः सु-धातुरिव सन्ति। एतेषां गणप्रत्ययः 'नु' इति। कदाचित् समये एकवचने अयम् प्रत्ययो गुण्यते (नु → नो)। अतो लट् लकाराय दिवादयः इत्येवं क्रियन्ते -

सु + नु + ति → गुण → सु + नो + ति → सुनो + ति → सुनोति

सु धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःसुनोतिसुनुतःसुन्वन्ति
मध्यमपुरुषःसुनोषिसुनुथःसुनुथ
उत्तमपुरुषःसुनोमिसुन्वः/सुनुवःसुन्मः/सुनुमः
सु धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःसुनुतेसुन्वातेसुन्वते
मध्यमपुरुषःसुनुषेसुन्वाथेसुनुध्वे
उत्तमपुरुषःसुन्वेसुन्वहे/सुनुवहेसुन्महे/सुनुमहे

अन्यानि रुपाणि इत्येव -

असुनोत्, असावीत्, सुषाव, सुनुयात्, सूयात्, सुनोतु, सुोता, सोष्यति, असोष्यत्।

असुनुत, असोष्ट, सुषुवे, सुन्वीत, सोषीष्ट, सुनुताम्, सोता, सोष्यते, असोष्यत।

तुदादिः

[सम्पादयतु]

तुदादय तुद्-धातुरिव सन्ति। एते भ्वादयश्च सदृशाः सन्ति। किन्तु लट् लकारे स्वरो न गुण्यते। अपि च वेदेषु तुदादीनां उदात्ताः तेषां अकार-प्रत्ययेषु सन्ति (भ्वादीनां उदात्ताः धातुषु सन्ति)। अतो लट् लकाराय तुदादयः इत्येवं क्रियन्ते -

तुद् + अ + ति → तुद + ति → तुदति

तुद् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतुदतितुदतःतुदन्ति
मध्यमपुरुषःतुदसितुदथःतुदथ
उत्तमपुरुषःतुदामितुदावःतुदामः
तुद् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतुदतेतुदेतेतुदन्ते
मध्यमपुरुषःतुदसेतुदेथेतुदध्वे
उत्तमपुरुषःतुदेतुदावहेतुदामहे

अन्यानि रुपाणि इत्येव -

अतुदत्, अतौत्सीत्, तुतोद, तुदेत्, तुद्यात्, तुदतु, तोत्ता, तोत्स्यति, अतोत्स्यत्।

अतुदत, अतुत्त, तुतुदे, तुदेत, तुत्सीष्ट, तुदताम्, तोत्ता, तोत्स्यते, अतोत्स्यत।

रुधादिः

[सम्पादयतु]

रुधादयो रुध्-धातुरिव सन्ति। एतस्मै गणाय गणप्रत्ययो नास्ति, तु मध्ये विकरणप्रत्ययो नकारो भवति। अतो लट् लकाराय रुधादयः इत्येवं क्रियन्ते -

रु + न + ध्+ ति → सन्धि → रुण + द्धि → सन्धि → रणद्धि

रुध् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःरुणद्धिरुन्धः/रुन्द्धःरुन्धन्ति
मध्यमपुरुषःरुणत्सिरुन्धः/रुन्द्धःरुन्ध/रुन्द्ध
उत्तमपुरुषःरुणध्मिरुन्ध्वःरुन्ध्मः
रुध् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःरुन्धे/रुन्द्धेरुन्धातेरुन्धते
मध्यमपुरुषःरुन्त्सेरुन्धाथेरुन्ध्वे/रुन्द्ध्वे
उत्तमपुरुषःरुन्धेरुन्ध्वहेरुन्ध्महे

अन्यानि रुपाणि इत्येव -

अरुणत्, अरौत्सीत्, रुरोध, रुन्ध्यात्, रुध्यात्, रुणद्धु, रोद्धा, रोत्स्यति, अरोत्स्यत्।

अरुन्द्ध, अरुद्ध, रुरुधे, रुन्धीत, रुत्सीष्ट, रुन्द्धाम्, रोद्धा, रोत्स्यते, अरोत्स्यत।

तनादिः

[सम्पादयतु]

तनादयः तन्-धातुरिव सन्ति। एतस्मै गणाय गणप्रत्ययः उकारोऽस्ति। केषुचित् समयेषु अयम् प्रत्ययो गण्यते (उ → ओ)। अतो लट् लकाराय तनादयः इत्येवं क्रियन्ते -

तन् + उ + ति → गुण → तनो + ति → तनोति

तन् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतनोतितनुतःतन्वन्ति
मध्यमपुरुषःतनोषितनुथःतनुथ
उत्तमपुरुषःतनोमितन्वः/तनुवःतन्मः/तनुमः
तन् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतनुतेतन्वातेतन्वते
मध्यमपुरुषःतनुषेतन्वाथेतनुध्वे
उत्तमपुरुषःतन्वेतन्वहे/तनुवहेतन्महे/तनुमहे

अन्यानि रुपाणि इत्येव -

अतनोत्, अतानीत्, ततान, तनुयात्, तन्यात्, तनोतु, तनिता, तनिष्यति, अतनिष्यत्।

अतनोत, अतनिष्ट, तेने, तन्वीत, तनिषीष्ट, तनुताम्, तनिता, तनिष्यते, अतनिष्यत।

क्र्यादिः

[सम्पादयतु]

क्र्यादयः क्री-धातुरिव सन्ति। एतस्मै गणाय गणप्रत्ययः 'ना' अस्ति। केषुचित् समयेषु अयम् प्रत्ययः 'नी' उत 'न' इति भवति। अतो लट् लकाराय क्र्यादयः इत्येवं क्रियन्ते -

क्री + ना + ति → सन्धि → क्रीणा + ति → क्रीणाति

तन् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःक्रीणातिक्रीणीतःक्रीणन्ति
मध्यमपुरुषःक्रीणासिक्रीणीथःक्रीणीथ
उत्तमपुरुषःक्रीणामिक्रीणीवःक्रीणीमः
तन् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःक्रीणीतेक्रीणातःक्रीणते
मध्यमपुरुषःक्रीणीषेक्रीणाथःक्रीणीध्वे
उत्तमपुरुषःक्रीणेक्रीणीवहेक्रीणीमहे

अन्यानि रुपाणि इत्येव -

अक्रीणात्, अक्रैषीत्, चिक्राय, क्रीणीयात्, क्रीयात्, क्रीणातु, क्रेता, क्रेष्यति, अक्रेष्यत्।

अक्रीणात, अक्रेष्ट, चिक्रीये, क्रीणीत, क्रेषीष्ट, क्रीणीताम्, क्रेता, क्रेष्यते, अक्रेष्यत।

चुरादिः

[सम्पादयतु]

चरादयः चुर्-धातुरिव सन्ति। एतस्मै गणाय गणप्रत्ययः 'अय' अस्ति। सर्वदा एते धातवो गुण्यन्ते। अतो लट् लकाराय चुरादयः इत्येवं क्रियन्ते -

चुर् + अय + ति → गुण → चोर् + अय + ति → चोरयति

तन् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःचोरयतिचोरयतःचोरयन्ति
मध्यमपुरुषःचोरयसिचोरयथःचोरयथ
उत्तमपुरुषःचोरयामिचोरयावःचोरयामः
तन् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःचोरयतेचोरयेतेचोरयन्ते
मध्यमपुरुषःचोरयसेचोरयेथेचोरयध्वे
उत्तमपुरुषःचोरयेचोरयावहेचोरयामहे

अन्यानि रुपाणि इत्येव -

अचोरयत्, अचूचुरत्, चोरयाञ्चकार, चोरयेत्, चोर्यात्, चोरयतु, चोरयिता, चोरयिष्यति, अचोरयिष्यत्।

अचोरयत, अचूचुरत, चोरयाञ्चकार, चोरयेत, चोरयिषीष्ट, चोरयताम्, चोरयिता, चोरयिष्यते, अचोरयिष्यत।

"https://sa.wikipedia.org/w/index.php?title=क्रियापदरूपाणि&oldid=497008" इत्यस्माद् प्रतिप्राप्तम्