सामग्री पर जाएँ

लङ् लकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लङ् लकारः - भूतकालः इत्यस्मात् पुनर्निर्दिष्टम्)

संस्कतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् (विधिलिङ्आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ्

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लङ् लकारः अनद्यतनभूतकालं बोधयति। लङ्लुङोः भुतकालयोः लकारयोः धातोः आरम्भे एकः अकार-उपसर्गः योज्यते।

पठ् धातोः लङ् लकारे रूपाणि
लङ् लकारः (परस्मैपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअपठत्अपठताम्अपठन्
मध्यमपुरुषःअपठःअपठतम्अपठत
उत्तमपुरुषःअपठम्अपठावअपठाम
लङ् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लङ् लकारः (परस्मैपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरु़षःअत्अताम्अन्
म़ध्यमपुरुषःअःअतम्अत
उत्तमपुरु़षःअम्आवआम


सेव् धातोः लङ् लकारे रूपाणि
लङ् लकारः (आत्मनेपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअसेवतअसेवताम्असेवन्त
मध्यमपुरुषःअसेवथाःअसेवथाम्असेवध्वम्
उत्तमपुरुषःअसेवेअसेवावहिअसेवामहि
लङ् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लङ् लकारः (आत्मनेपदम्)एकवचनम्द्विवचनम्बहु वचनम्
प्रथमपुरु़षःअतएताम्अन्त
म़ध्यमपुरुषःअथाःइथाम्अध्वम्
उत्तमपुरु़षःआवहिआमहि

टिप्पणी

[सम्पादयतु]
  • संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.
"https://sa.wikipedia.org/w/index.php?title=लङ्_लकारः&oldid=496130" इत्यस्माद् प्रतिप्राप्तम्