क्लेषकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (योगसूत्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

सूत्रसारः[सम्पादयतु]

योगमुद्रम्
योगमुद्रम्
योगमुद्रम्
योगमुद्रम्
योगमुद्रम्
योगमुद्रम्
कूटगमल्परवत:
कूटगल्परवत:
कूटगल्परवत:
कूटगमल्परवत:
कूटगल्परवत:
कूटगल्परवत:
मायावादखनण्डनम्
मायावादखनण्डनम्
मायावादखनण्डनम्
मायावादखनण्डनम्
ह्गलुवेषजनाडग:
ह्गलुवेषजनाड्ग:
ह्गलुवेषजनाड्ग:
हगलुवेषजनाड्ग:
हगलुवेषजनाड्ग:
हगलुवेषजनाड्ग:
क्लेषकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः
हगलुवेषजनाड्ग:
हगलुवेषजनाड्ग:
हगलुवेषजनाड्ग:






योगमुद्रम्
योगमुद्रम्
योगमुद्रम्
पतञलि
आधिषेषस्य रूपम्
आधिषेषस्य रूपम्
क्लेषकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (योगसूत्रम्)
क्लेषकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (योगसूत्रम्)
क्लेषकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (योगसूत्रम्)
क्लेषकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (योगसूत्रम्)
क्लेषकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (योगसूत्रम्)
क्लेषकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (योगसूत्रम्)
महर्षि पतञलि
योगसूत्रम् रचनकारः
योगसूत्रम् रचनकारः

व्यासभाष्यम्[सम्पादयतु]

अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति ? अविद्यादयः क्लेशाः । कुशलाकुशलानि कर्माणि । तत्फलं विपाकः । तदनुगुणा वासना आशयः । ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते । स हि तत्फलस्य भोक्तेति । यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते । यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः । कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः । ते हि त्रीणि बन्धनानि छित्त्वा कैवल्यं प्राप्ताः । ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी । यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते, नैवमीश्वरस्य । यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः सम्भाव्यते, नैवमीश्वरस्य । स तु सदैव मुक्तः सदैवेश्वर इति ।

योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः, स किं सनिमित्त आहो स्विन्निर्निमित्त इति ? तस्य शास्त्रं निमित्तम् । शास्त्रं पुनः किंनिमित्तं ? प्रकृष्टसत्त्वनिमित्तम् । एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः सम्बन्धः । एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति । तच्च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम् । न तावदैश्वर्यान्तरेण तदतिशय्यते । यदेवातिशयि स्यात्तदेव तत्स्यात। तस्माद्यत्र काष्थाप्राप्तिरैश्वर्यस्य स ईश्वरः । न च तत्समानमैश्वर्यमस्ति । कस्मात्? द्वयोस्तुल्ययोरेकस्मिन्युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य सिद्धावितरस्य प्राकाम्यविधातादूनत्वं प्रसक्तम् । द्वयोश्च तुल्ययोर्युगपत्कामितार्थप्राप्तिर्नास्ति । अर्थस्य विरुद्धत्वात। तस्माद्यस्य साम्यातिशयैर्विनिर्मुक्तमैश्वर्यं स एवेश्वरः । स च पुरुषविशेष इति ॥२४॥

आदिषेषः
पतञलेः पूर्वजन्म रूपम्
पतञलेः पूर्वजन्म रूपम्

सम्बद्धाः लेखाः[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम्

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः