खण्डशर्करा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Rock candy
Colored and flavored rock candy commonly sold in the United States
उत्पत्तिः
अन्यनामानि Rock sugar
भोज्यवस्तुनः विवरणम्
प्रधानोपकरणम् Sugar, water
विशेषतथ्यानि 450-225
श्वेतवर्णीया खण्डशर्करा

इयम् अपि भारते सर्वत्र उपयुज्यमानः सस्यजन्यः आहारपदार्थः । एषा खण्डशर्करा आङ्ग्लभाषायां Rock Sugar इति उच्यते । अस्याः खण्डशर्करायाः वैज्ञानिकं नाम अस्ति Saccharum officinarium इति । आहारत्वेन यावता प्रमाणेन उपयुज्यते तावता एव प्रमाणेन औषधत्वेन अपि उपयुज्यते खण्डशर्करा । बालेभ्यः औषधदानावसरे प्रमुखं पात्रं वहति खण्डशर्करा । शर्करायाः स्थाने सर्वत्र उपयोक्तुं शक्या खण्डशर्करा । एषा खण्डशर्करा बहुवर्णीया अपि ।


आयुर्वेदस्य अनुसारम् अस्याः खण्डशर्करायाः स्वभावः[सम्पादयतु]

इक्षुराशिः

खण्डशर्करा मधुररुचियुक्ता, नेत्रस्य हितकरी, शरीरस्य वर्धिका च । एषा खण्डशर्करा स्निग्धा, शीतगुणयुक्ता च अपि ।

“खण्डस्तु मधुरं वृष्यं चाक्षुष्यं बृंहणं हिमम् ।
वातपित्तहरं स्निग्धं बल्यं वतिहरं परम् ॥“ (भावप्रकाशः)
विभिन्नानां वर्णानां खण्डशर्करा
१. खण्डशर्करा अत्यन्तम् अधिकप्रमाणेन शर्करायुक्ता इति कारणात् अत्यन्तं मधुररुचियुक्ता ।
२. खण्डशर्करा वातं पित्तं च शमयति ।
३. खण्डशर्करा शरीरं वर्धयति, नेत्रस्य हितं च जनयति ।
४. खण्डशर्करा वाजिकरिणी, स्निग्धा च ।
५. खण्डशर्करा वमनसमस्यायाम् अत्युत्तमम् औषधम् ।
६. खण्डशर्करायाः सेवनेन हृदयस्य ज्वलनं, दाहः, शिरोभ्रमणं च अपगच्छति ।
७. यष्टीं निम्बूकरसे योजयित्वा खण्डशर्करया सह सेवनेन शुष्ककासः अपगच्छति ।
८. नारिकेलपुष्पं क्षीरेण सह पेषणं कृत्वा खण्डशर्करां योजयित्वा गर्भवत्यः सेवन्ते चेत् गर्भपातस्य समस्या न्यूना भवति तथा च गर्भपुष्टिः अपि भवति ।
९. कफप्रकोपस्य काले तन्नाम वसन्तऋतौ, शिशिरऋतौ च शर्करा न उपयोक्तव्या ।
१०. कफजेषु रोगेषु, कफप्रकृतियुक्ताः च शर्करायाः उपयोगं न कुर्युः ।
११. मधुमेहरोगे, स्थौल्यसमस्यायाम्, अग्निदौर्बल्ये, आमावस्थायां च शर्करायाः उपयोगः न करणीयः ।
१२. शर्करां श्वेतविषम् इति वदन्ति । तस्मात् कारणात् शर्करायाः स्थाने सर्वत्र खण्डशर्करायाः उपयोगः भवितुम् अर्हति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • Exploratorium.edu Recipe for rock candy as an educational exercise in crystal and candy making.
"https://sa.wikipedia.org/w/index.php?title=खण्डशर्करा&oldid=280941" इत्यस्माद् प्रतिप्राप्तम्