गङ्गासती
आध्यात्ममार्गदर्शिका गङ्गासती | |
---|---|
गङ्गासती | |
जन्मस्थानम् | भावनगरमण्डलस्य, गुजरातराज्यम् |
तत्त्वचिन्तनम् | आध्यात्ममार्गः |
उक्तिः | "विजळी ने चमकारे मोतीडा परो पानबाई...." |
गङ्गासत्याः जन्म भावनगरमण्डलस्य पालीताणा उपमण्डलात् ३५ कि.मी. अन्तरे स्थिते राजपराग्रामे १८४६ तमे वर्षे बभूव । तस्याः पितुः नाम 'श्रीभाईजीभाई जेसाजी सरबैया' आसीत् । मातुः नाम 'रूपाळीबा' आसीत् । गङ्गासत्याः विवाहः 'कहळसङ्ग कालुभा-गोहिल' इत्यनेन सह १८६४ तमे वर्षे अभूत् । तत्कालीनं राजपूतपरम्परानुसारं गङ्गासत्या सह 'पानबाई' नामाख्या कन्या सेविकारूपेण प्रेषिता आसीत् । 'पानबाई' गङ्गासत्याः सेविकैव नापितु आत्मपथस्य सहगामिनी अपि आसीत् । द्वे धर्मपरायणे वयसा तु समाने एव आस्ताम् । गङ्गायां सर्वाः नद्यः गङ्गारूपमेव धरन्ते, तथैव 'पानबाई' अपि गङ्गासतीमया अभूत् ।
विकसितं पुष्पं परितः मधुमक्षिकाः इव ते परितः अनेकेषां सन्यासिनां, भक्तानां, गृहस्थानां, जिज्ञासूनां, दीनानां च वृन्दं समुद्भवति स्म । ते तेषां मार्गदर्शनं कुर्वन्त्यौ आस्ताम् । गार्हस्थ्यजीवनम् अध्यात्मजीवनञ्च द्वयोः सङ्गतिः संन्यासपरम्परायाः विशिष्टं लक्षणं वर्तते । अस्याः संन्यासपरम्परामाध्यमेन आसन-प्राणायाम-मुद्रा-नाडीशुद्धिक्रियादियोगैः ते ब्रह्माण्डस्य रहस्यानि ज्ञापितवत्यौ । गङ्गासती स्वरज्ञा अपि आसीत् । तस्याः मतमासीत् यत् स्वरसाधना आत्मज्ञानमार्गे मुख्या अस्ति । श्रुयते यत् गङ्गासती प्रतिदिनम् एकं भक्तिगीतं रचयति स्म । तत् गीतं 'पानबाई' इतीमाम् आत्मपथगमिनीं श्रावयति स्म । गङ्गासती 'पानबाई' इतीमाम् उद्दिश्य गायति स्म । अतः गीतेषु पूर्वगीतस्य वार्ता वा विषयोऽपि दृश्यते । गङ्गासती 'पानबाई' इतीमां क्रमशः अध्यात्ममार्गं प्रदर्शयति स्म।