गामोक्कलुजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


गामोक्कलुजनाङ्गस्य स्थानानि[सम्पादयतु]

समुद्रतीरस्थ-उपमण्डलेषु कुमटा, होन्नावर, गङ्गावळि, अघनाशिनी-शरावतीनद्योः तीरप्रदेशेषु स्थितानाम् आदिवासिनां कश्चन वर्गः एषः । गामोक्कलु, अन्यवर्गाणामपेक्षया शीघ्रम् अरण्यवासं त्यक्त्वा ग्रामान् निर्मीय कृषिकार्यम् अवलम्ब्य ग्रामजीवनम् आरब्धवन्तः इत्यनेन आत्मानं ‘गामोक्कलु’ (ग्राम>गाम+ओक्कलु) इति आहूतवन्तः स्युः ।

गामोक्कलुजनाङ्गस्य सम्प्रदायाः[सम्पादयतु]

एतेषां नाम्नः पुरतः ‘गौड’ अथवा ‘पटगार’ इति उपनाम भवति । एतेषु प्रचलिता काचित् आकर्षिका साम्प्रदायिककला नाम हूविन मक्कळ कुणित (पुष्पबालानां नृत्यम्) । पुष्पबालानां वेषं १०-१२ वयोमिताः बालाः धरन्ति । शरीरपूर्णं पुष्पैः निर्मितं वस्त्रं धृत्वा नृत्यन्ति इत्यनेन ‘पुष्पबालनर्तनम्’ इति कथनम् अन्वर्थकम् एव अस्ति । एते बालाः अम्बुगत्तिनामकं लघुखड्गं गृहीत्वा वाद्येन सह कलात्मकतया नृत्यं कुर्वन्ति । एतेषां नर्तने कृषकाणां कृषिक्षेत्रस्य खननं, बीजवपनं, जलसेचनं, सस्यारोपणं, फलचयः, कुसूले व्रीहिपूरणम् एवं कृषिसम्बद्धकार्याणाम् अनुकरणं भवति । पुष्पबालाः सस्यमञ्जरी इव दोलयन्तः, वलनं कुर्वन्तः च नृत्यन्ति चेत् फलसमृद्दिः भवति इति विश्वासः एतेषाम् । ‘कुक्कुटक्रीडा’ (कोळि-अङ्क) एतेषां जनप्रियक्रीडा । ‘गामोक्कलु’ नामिका कन्नडस्य काचित् उपभाषा एव एतेषां भाषा ।

"https://sa.wikipedia.org/w/index.php?title=गामोक्कलुजनाङ्गः&oldid=388653" इत्यस्माद् प्रतिप्राप्तम्