चण्डकौशिकम्
चण्डकौशिकम् | |
---|---|
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति | |
लेखकः | क्षेमीश्वरः |
देशः | भारतम् |
भाषा | संस्कृतम् |
चण्डकौशिके हरिश्चन्द्र-विश्वामित्रयोः कथानकं मार्कण्डेयपुराणाद् देवीभागवताच्चादाय दृश्यतामानीतं सर्वथा व्याख्याति विश्वामित्रस्य चण्डताम् । नाटकमिदं बहुकालसम्मतं राजकुमारकार्तिकेयेन प्रथमप्रयोगार्थमुद्दिष्टम् । श्रीधरदासेन सदुक्तिकर्णामृते विश्वनाथेन च साहित्यदर्पणेऽस्य पद्यानि संगृहीतानि । भारतेऽस्य कथानकं स्मृत्वा लोको हरिश्चन्द्रस्य सत्योत्कर्षं प्रशंसति।
प्रथमत ऐतरेयब्राह्मणे हरिश्चन्द्र इति नाम विख्यातम् । महाभारते कथोपनिबद्धो हरिश्चन्द्रो भूय उत्कर्षं लभते । तथा हि -
सत्यं वदत नासत्यं सत्यं धर्मः सनातनः।
हरिश्चन्द्रश्चरति वै दिवि सत्येन चन्द्रवत्॥[१]
अधिपाणिनीयं तु हरिश्चन्द्र ऋषिर्गीयते विश्वामित्रश्चेत्यन्यैव कथा चात्र संवदति।[२] क्षेमीश्वरस्तु मार्कण्डेयपुराणबद्धमेव कथानकमुपजीवन् बहुशः पद्यानां भावावतारं शब्दग्रहणं च विधाय चण्डकौशिकं रचितवान्। क्षेमीश्वरेण कथानकस्य विनियोगस्तथा कृतो यथा कौशिकस्य क्रूरता राज्ञो हरिश्चन्द्रस्य च व्रतैकनिष्ठता पुरत इव स्फुरति ।
कथावस्तु
[सम्पादयतु]अपशकुनकृतानुत्पातप्रचयान् भाविनो निराकर्तुं कुलगुरुणा राज्ञो व्रतेन समं रात्रिजागरणं निर्दिष्टम् । प्रातर्निद्रा-विश्रम-विरह-क्लान्तोऽसौ विदूषकेण सह राज्ञीं द्रष्टुं गतस्तां गृहीतमान-वैमनस्यां बद्धाञ्जलिः सन् प्रसादयामास । कुलपतिशिष्योपनीतं शान्तिजलमाशीर्वादं चाधिगम्य राज्ञी शैव्या स्वकृतां मान-चातुरीमात्मवञ्चनामेवा मन्यत।
वनेचरसूचनानुसारेण महावराहोपद्रवं प्रतिकर्तुं राजा मृगयायै वनं गतः । मूर्तो विघ्नराड् विश्वामित्राद् विद्यां वियोजयितुं सिद्धिं च बाधितुं हरिश्चन्द्रं तस्य मुनेराश्रममनयत् । राजा तां ब्रह्मविष्णुशङ्कराणां विद्यां दिव्यस्त्रीरूपां विश्वामित्रेण दूयमाना रक्षार्थं विलपन्तीरपश्यत् । स तां रक्षितुं मुनिं व्याक्रोशत् । तेन च क्रोधपरीतात्मा मुनिरमित्र इव विश्वस्य राजानं शापदग्धं कर्तुमुद्यतः। अपराद्धमिवात्मानं मन्यमानो राजा विश्वामित्रेण राजकर्तव्यं पृष्टो दानं रक्षां युद्धं च क्षात्रधर्ममुदघोषयत् । विश्वामित्रेण दानाय प्रयोजितोऽसौ निखिलां वसुन्धरां मुनये दत्तवान् । एवं विहितस्य दानयज्ञस्य दक्षिणामाहर्तुं राजा त्रैलोक्यबाह्यां शिवशूलस्थां काशीं गतः।
आत्मानं विक्रेतुं राजा काश्यां वणिग्वीथीं गतः । तत्र विश्वामित्रः झटिति दक्षिणां देहीति आदिष्टोऽन्यथा शापं दास्यामीति भर्त्सतः आ सायंकालमवसरं मुनिं प्रार्थयत । न कोऽपि दक्षिणार्थं लक्षसंख्यमुद्रां दत्त्वा राजानं क्रेतुमागतः । अनन्तरं शैव्या राज्ञी पुत्रो रोहितश्च आत्मानं विक्रेतुमुपस्थितौ । अयुतपञ्चकेन तौ क्रीत्वा उपाध्याय: (शिवस्तद्रूपधरः) शेषार्धं धनं दानरूपेण ग्रहीतुं राजानं निवेदितवान्, किन्तु राजा नैतत् स्वीकरोति स्म । पुनरपि विश्वामित्रो राजानमुपागच्छत् । सातङ्को महीपतिश्चाण्डालवेशधरं धर्मं प्रति स्वं विक्रीणीते स्म, शेषार्धं च दक्षिणायाः समर्पितवान् विश्वामित्राय । चाण्डालमपेक्ष्य स्वमेव स्वामिनं कर्तुं प्रार्थयमानं राजानं भर्त्सयामास मुनिः - "धिङ्मूर्ख ! स्वयं दासास्तपस्विनः । तत्किं त्वया दासेन मे क्रियते।"
अथ चाण्डालो हरिश्चन्द्रं दक्षिणश्मशानमधिष्ठाय शववस्त्राणि कररूपाणि दिवानिशं संग्रहीतुमादिश्य गतः । एकदा कापालिकरूपेण धर्मों वेतालेन निधिमानाय्य राजानमनृणीकर्तुं प्रास्तौत् । चाण्डालाय मम स्वामिनेऽयं निधिर्दीयेतेति राज्ञा स प्रत्याख्यातः । त्रिलोकीजय-शालिन्यो विद्यास्तिस्रो राज्ञो वशंवदतया समागतास्तेन विश्वामित्रमेव सेवितुं प्रेषिताः। बहूनि वर्षाणि श्मशानसेवेकनिष्ठो राजा कदाचित् सर्पदंशेन मृतं रोहितकुमारं श्मशानमानीतवतीं शैव्यां दृष्ट्वा कृतमरणसङ्कल्पोऽपि दासो नात्मघातस्याधिकारभागिति विरतः । स राज्ञीं चापि तादृशात् क्ररव्यवसायान्निवारयामास। शव-कम्बलं श्मशानकरं ददती शैव्या राज्ञो हस्तं कर-ग्रहण-समुद्यतं दृष्ट्वा स्वपतिं प्रत्यभिज्ञातवती। तया कृत-परित्राण-प्रार्थनया द्रवीभूतोऽपि राजा चाण्डालदासम् आत्मानं तत्रासमर्थं प्रत्यबोधयत्।
एवं सफल-परीक्षे राजनि स्वपुत्र-शव-कम्बलकरग्रहणे दिवः पुष्पवृष्टिरभवत् । धर्मः प्रत्यक्षमागतः । तेन रोहितः पुनरुज्जीवितः । राजा धर्मदत्तया दिव्यया दृशा पार्वती-परमेश्वरौ शैव्या-क्रयेण धर्मं रक्षितवन्तौ उपाध्यायदम्पती निरूप्यापूजयत् । त्यक्त-चाण्डालवेशो धर्मो रोहिताश्वं राज्येऽभिषेक्तुं राजानं च ब्रह्मलोकं नेतुमादिदेश।
मया ध्रियन्ते भुवनान्यमूनिः सत्यं च मां तत्सहितं बिभर्ति ।
परीक्षितुं सत्यमतोऽस्य राज्ञः कृतो मया जातिपरिग्रहोऽयम्॥
इति धर्मोक्त्या सत्यपरीक्षणस्य रहस्यं प्रकटितम्।
समीक्षा
[सम्पादयतु]कथानकं नाटयोचितं निबध्नन्, संवादान् संगुम्फन् स्थाने-स्थाने लोकानुभव-महिमाजित-सूक्ति-मालाः प्रतिभागुणैः संग्रथ्नन् कामपि कोटिं नयति क्षेमीश्वरः सहृदयाह्लादम् । तपोवन-वर्णनं तावद् हरत्येव मानसम् -
आमूलं क्वचिदुदधृता क्वचिदपिच्छिन्नस्थली-बर्हिषा-
मानम्रा कुसुमोच्चयाच्च सदयाकृष्टाग्रशाखा लता।
एते पूर्व-विलून-वल्कलतया रूढव्रणाः शाखिनः
सद्यश्छेदमयी वदन्ति समिधां प्रस्यन्दिनः पादपाः।।[३]
अपि च -
नीपस्कन्धे कुहरिणि शुकाः स्वागतं व्याहरन्ति
घ्राणग्राही हरति हृदयं हव्यगन्धः समीरः।
एता मृग्यः सलिलपुलिनोपान्तसंसक्तदर्भं
पश्यन्त्योऽस्मान् सचकितदृशो निर्झराम्भः पिबन्ति।।[४]
शिवाभ्यामविमुक्ता काशी पुण्यदा पौराणिक-संदर्भानुग्रहेण वर्णता -
विमुच्यन्ते जन्तोरिह निबिड-संसार-निगडाः
शिरस्तद् वैरिञ्चं न्यपतदिह हस्तात् पशुपतेः।
विमुक्तस्तत्पपादभवदविमुक्तः स भगवान्
न मुक्तं तेनैतत् सह दयितया क्षेत्रमसमम्॥[५]
कथंकारं जन ऋणेन तृणीभवतीति प्रत्यक्षीकारयति कविः -
लोकद्वय-प्रतिभयैक-निदानमेतद् धिक् प्राणिनामृणमहो परिणाम-घोरम्।
एकः स एव हि पुमान् परमस्त्रिलोक्यां क्रुद्धस्य येन धनिकस्य मुखं न दृष्टम् ।।[६] रूपकयोजनाशिल्पेन साधं संसारासारताविवरणं क्षणवैराग्यं ददन्नर्वेद-प्रोञ्छितरागमिव विदधाति चेत:पट्टं सचेतसाम् -
सन्ध्याबध्यास्रशोणं तनुदहनचिताङ्गारमन्दार्कबम्बं
तारानारास्थिकीर्णं विशदनरकरङ्कायमाणोज्ज्वघलेन्दु।
हृष्यन्नक्तं चरौधं घनतिमिरमहाधूमधुम्रानुकारं
जातं लीलाश्मशानं जगदखिलमहो कासकापालिकस्य॥[७]
आस्तां तावदनुप्रास-प्रेमा नादसौन्दर्यं वर्ण-मैत्री-नैपुणं च निवेदयन्, क्षेमीश्वरस्य सूक्ष्मेक्षिका यथावसरं निपतत्येव दाम्पत्य-सुख-लीला-सरसी-जन्मसु विकसद्दलेषु व्यतिकर-कमलाकरेषु -
विच्छिन्नामनुबघ्नती मम कथां मन्मार्ग-दत्ते क्षणा
मन्वाना सुमुखी चलत्यपि तृणे मामागतं सा मया।
नाष्लिष्टा यदलक्षिते न निभृतं पश्चादुपेत्यादराद्
यन्नास्या नव-नील-नीरज-निभे रुद्धे कराभ्यां दृशौ॥[८]
खण्डितामिव शैव्यां चित्रयन् कविः हरिश्चन्द्रस्य अनपराद्धस्य सूर्योपम्येन क्षेमीश्वरोऽप्रस्तुतप्रशंसां तनोति -
जलधरपटलान्तरिते यदि भानौ खण्डनं गता नलिनी।
तस्या न विप्रलम्भो नोपालम्भोऽप्ययं भानोः॥[९]
देशकालपात्र-स्थितिमनुसृत्यैव कविर्दत्तावधानो वस्तु योजयतीति श्मशानवर्णनमेव पुनरुदाह्रियते -
विदूरादभ्यस्तैर्वियति बहुशो मण्डलशतै-
रुदञ्चत्पुच्छाग्रस्तिमितविततैः पक्षतिपुटैः।
पतन्त्येते गृध्राः शवपिशितलोलाननगुहा-
गलल्लालाक्लेदस्थगितनिजचञ्चूभयपुटाः॥[१०]
अप्रतिमाधममर्णतां नीतस्य हरिश्चन्द्रस्य सर्वशून्या दरिद्रता कविना इत्थंकारं वर्णिता येनास्या इदन्ता, ईदृक्ता, इयत्ता चेति त्रयमेकपदे शूलमिव निखातं करोति हृदि सहृदयस्य करुणरसपूर-पूरितस्य -
दाराः सूनुरिदं शरीरकमिति त्यागावशिष्टं त्रयं
सम्प्राप्तोऽवधिरद्य सत्यमपरित्याज्यं मुनिः कोपनः।
ब्रह्मस्वोपहतं च जीवितमिदं न त्यक्तुमभ्युत्सहे
किं कर्तव्यविचारमूढमनसः सर्वत्र शून्या दिशः॥[११]
श्मशान-निहित-वैराग्य-दहनः कथमिव विवेकमुखतामेति मनः क्षणेनेति क्षेमीश्वरः क्षमते प्रकाशयितुम् -
तन्मध्यं तदुरस्तदेव वदनं ते लोचने ते भ्रुवौ
जातं सर्वममेध्यशोणितवसामांसास्थिलालामयम्।
भीरूणां भयदं त्रपास्पदमिदं विद्याविनोदात्मनां
तन्मूढैः क्रियते वृथा विषयिभिः क्षुद्रोऽभिमानग्रहः॥[१२]
अयं च वैराग्यग्रहो नायकदशामेवानुवर्तते । अहो भवितव्यता -
मामानम्रशिरोधरं प्रभवता कुद्धेन राज्यश्रिया
यद्विश्लेषयतापि तेन मुनिना निःशेषितं नस्त्रयम्।
तत्रापि ग्यसनप्रियेण विधिना वृत्तं तथा निष्ठुरं
येनात्मा तनयः कलत्रमपि मे सर्वं विलुप्तं क्षणम्॥[१३]
परन्तु अहो धैर्य-ग्रह-ग्रहिलता -
चलन्ति गिरयः कामं युगान्त-पवनाहताः।
कृच्छ्रेऽपि न चलत्येव धीराणां निश्चलं मनः।।[१४]
परिवर्तिनि संसारे नास्ति नियतं स्थायि वा किञ्चित् -
सुखं वा दु:खं वा किमिव हि जगत्यस्ति नियतं
विवेक-प्रध्वंसाद् भवति सुख-दुःख-व्यतिकरः।
मनोवृत्तिः पुसां जगति जयिनी कापि महतां
यथा दुःखं दुःखं सुखमपि सुखं वा न भवति।।[१५]
इयं प्रसन्न-गम्भीर-पदा सरस्वती कं वा न निष्णातं निर्मलतामानीय दत्त-शैत्यं न विश्रमयति। चण्डकौशिकमिति नाम्ना हारि चरितं हरिश्चन्द्रस्य तिरोहितमिव कृतं कविना। धर्मवीरस्य नायकस्यैव नामनिर्धारणम् औचित्यं भजति, किन्तु कौशिकस्य चण्डतैव सर्वातिशायिनी दृष्टा क्षेमीश्वरेण । आस्तां तावद् दोषाविष्करणम्, स्तुतिभाजनतामेवार्हति नाट्यकृत् तथाभूतं धर्मवीररसमङ्गीकृत्य निबध्नन्।