चतुर्थी विभक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

कारकचतुर्थी उपपदचतुर्थी चेति चतुर्थी द्विविधा । यत् सम्प्रदानं भवति, तस्मात् सम्प्रदानात् चतुर्थी भवति । अनुक्ते सम्प्रदाने चतुर्थीविधायकं सूत्रम् एकम् एव चतुर्थी सम्प्रदाने – २.३.१३ इति । सम्प्रदानसंज्ञाविधायकानि सूत्राणि तु बहूनि सन्ति । उपपदचतुर्थीविधायकसूत्राणि अपि अनेकानि सन्ति ।

कारकचतुर्थी[सम्पादयतु]

१. पिता पुत्राय फलं ददाति । कर्मणा यमभिप्रैति स स्म्प्रदानम् – १.४.३२ दानस्य कर्मणा यम् अभिप्रैति स सम्प्रदानसंज्ञः स्यात् । पिता पुत्राय फलं ददाति । अत्र पिता कर्ता । फलं कर्म । कर्मणा सम्बन्धुं पुत्रम् अभिप्रैति । अतः पुत्रः सम्प्रदानम् । तस्मात् सम्प्रदानवाचकात् शब्दात् चतुर्थी सम्प्रदाने इति सूत्रेण चतुर्थी भवति । २. राजा युद्धाय संनह्यते । क्रियया यमभिप्रैति स सम्प्रदानम् (वा) अकर्मकक्रियोद्देश्यमपि सम्प्रदानसंज्ञं स्यादिति वार्तिकस्य अर्थः । राजा युद्धाय संनह्यते । अत्र सन्नहनमेव क्रिया । तस्याः क्रियायाः उद्देश्यं युद्धम् । अतो युध्दं सम्प्रदानं प्रकृतवार्तिकेन । तस्मात् सम्प्रदान भूतात् युद्धात् चतुर्थी सम्प्रदाने इति सूत्रेण चतुर्थी भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चतुर्थी_विभक्तिः&oldid=421959" इत्यस्माद् पुनः प्राप्तिः