चित्तौडगढमण्डलम्
चित्तौडगढमण्डलम् | |
---|---|
मण्डलम् | |
राजस्थानराज्ये चित्तौडगढमण्डलम् | |
Country | भारतम् |
States and territories of India | राजस्थान |
Area | |
• Total | १०,८५६ km२ |
Population (२००१) | |
• Total | १८,०२,६५६ |
• Density | ३०८/km२ |
Website | http://chittorgarh.nic.in/ |
चित्तौडगढमण्डलं (हिन्दी: चित्तौड़गढ़ जिला, आङ्ग्ल: Chittorgarh district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति चित्तौडगढनामकं नगरम् ।
भौगोलिकम्
[सम्पादयतु]चित्तौडगढमण्डलस्य विस्तारः १०,८५६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे उदयपुरमण्डलं, राजसमन्दमण्डलं च, पश्चिमे मध्यप्रदेशराज्यम्, उत्तरे भीलवाडामण्डलं, दक्षिणे प्रतापगढमण्डलम् (राजस्थानम्) अस्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं चित्तौडगढमण्डलस्य जनसङ्ख्या १५४४३९२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.०९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७० अस्ति । अत्र साक्षरता ६२.५१ % अस्ति ।
उपमण्डलानि
[सम्पादयतु]- बारी सदरी
- बेगुन
- चित्तौडगढ
- कपसन
- निम्बहेरा
- रावतभाटा
वीक्षणीयस्थलानि
[सम्पादयतु]अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- चित्तौडगढ किला
- राणी पद्मिनी महल्
- विजयस्तम्भः
- राणा कुम्भा महल्
- कीर्तिस्तम्भः
बाह्यानुबन्धाः
[सम्पादयतु]- Chittorgarh District website Archived २००९-०४-०९ at the Wayback Machine