सामग्री पर जाएँ

उदयपुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उदयपुरमण्डलम्
मण्डलम्
राजस्थानराज्ये उदयपुरमण्डलम्
राजस्थानराज्ये उदयपुरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
  Total ११,६३० km
Population
 (२००१)
  Total ३०,६७,५४१
  Density ३०८/km
Website http://udaipur.nic.in

उदयपुरमण्डलं (हिन्दी: उदयपुर जिला, आङ्ग्ल: Udaipur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति उदयपुरम् इत्येतत् नगरम् ।

भौगोलिकम्

[सम्पादयतु]

उदयपुरमण्डलस्य विस्तारः ११,६३० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे चित्तौडगढमण्डलं, पश्चिमे गुजरातराज्यम्, अरावली पर्वतश्रेणी च, उत्तरे राजसमन्दमण्डलं, दक्षिणे डुङ्गरपुरमण्डलम् अस्ति । अस्मिन् मण्डले ६२.४५ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले बानस, अहर, माही इत्येताः तिस्रः नद्यः प्रवहन्ति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं उदयपुरमण्डलस्य जनसङ्ख्या ३०,६७,५४९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.६६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५८ अस्ति । अत्र साक्षरता ६२.७४ % अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • गिरवा
  • खेरवाढा
  • मावली
  • वल्लभनगर
  • कोटडा
  • जाडोल
  • सालुम्बर

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • उदयपुर महल्
  • सास-बहू मन्दिरम्
  • एकलिङ्गजी

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=उदयपुरमण्डलम्&oldid=464770" इत्यस्माद् प्रतिप्राप्तम्