उदयपुरमण्डलम्
उदयपुरमण्डलम् | |
---|---|
मण्डलम् | |
राजस्थानराज्ये उदयपुरमण्डलम् | |
Country | भारतम् |
States and territories of India | राजस्थान |
Area | |
• Total | ११,६३० km२ |
Population (२००१) | |
• Total | ३०,६७,५४१ |
• Density | ३०८/km२ |
Website | http://udaipur.nic.in |
उदयपुरमण्डलं (हिन्दी: उदयपुर जिला, आङ्ग्ल: Udaipur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति उदयपुरम् इत्येतत् नगरम् ।
भौगोलिकम्
[सम्पादयतु]उदयपुरमण्डलस्य विस्तारः ११,६३० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे चित्तौडगढमण्डलं, पश्चिमे गुजरातराज्यम्, अरावली पर्वतश्रेणी च, उत्तरे राजसमन्दमण्डलं, दक्षिणे डुङ्गरपुरमण्डलम् अस्ति । अस्मिन् मण्डले ६२.४५ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले बानस, अहर, माही इत्येताः तिस्रः नद्यः प्रवहन्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं उदयपुरमण्डलस्य जनसङ्ख्या ३०,६७,५४९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.६६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५८ अस्ति । अत्र साक्षरता ६२.७४ % अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-
- गिरवा
- खेरवाढा
- मावली
- वल्लभनगर
- कोटडा
- जाडोल
- सालुम्बर
वीक्षणीयस्थलानि
[सम्पादयतु]अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- उदयपुर महल्
- सास-बहू मन्दिरम्
- एकलिङ्गजी