जगन्नाथमन्दिरम्, बारिपदा
दिखावट
इदं जगन्नाथमन्दिरं ओडिशाराज्यस्य बारिपदनगरे स्थितम् अस्ति । श्री जगन्नाथ श्री बलभद्र देवीसुभद्रा च अत्र पूज्यन्ते । अस्य मन्दिरस्य निर्माणस्य पृष्ठतः ऐतिहासिकआख्यायिकाः वर्तन्त्ते । पुरी इत्यस्य पश्चात् द्वितीया प्राचीनतमा रथयात्रा अत्र भवति । अतः इदं मन्दिरं द्वितीयं श्रीक्षेत्रम् इति नाम्ना प्रसिद्धं जातम् ।
प्रमुखदेवता
[सम्पादयतु]अत्र जगन्नाथः बलभद्रः सुभद्रा सुदर्शनः च मुख्यदेवताः सन्ति | तैः सह लक्ष्मी सरस्वती भूदेवी श्रीदेवी विमला अपि अत्र पूज्यन्ते ।
उत्सवाः
[सम्पादयतु]अत्र पुरीस्थिते जगन्नाथमन्दिरे पालिताः सर्वे उत्सवाः, नाम स्नानपूर्णिमा, रथयात्रा, गुण्डिचायात्रादि पालिताः भवन्ति ।
- स्नानपूर्णिमा - अत्र प्रतिवर्षं स्नानपूर्णिमा आचर्यते यस्मिन् २०,००० तः अधिकाः जनाः समागच्छन्ति ।
- रथयात्रा - प्रतिवर्षं महासमागमे अपि आषाढशुक्लपक्षे तृतीयायां तिथौ रथयात्रा आचर्यते। १५७५ तमवर्षतः बारिपदायाम् रथयात्रा प्रचलति। अत्रत्यायाः रथयात्रायाः वैशिष्ट्यं भवति- माता सुभद्रायाः रथं स्त्रियः एव नयन्ति।