जीन् ब्याप्टिस्ट् लामार्क्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जीन् ब्याप्टिस्ट् लामार्क्
Portrait of Jean-Baptiste Lamarck
जननम् (१७४४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-०१)१ १७४४
Bazentin, Picardie
मरणम् १८ १८२९(१८२९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१८) (आयुः ८५)
Paris
देशीयता French
संस्थाः French Academy of Sciences; Muséum national d'Histoire naturelle; Jardin des Plantes
विषयेषु प्रसिद्धः Evolution; inheritance of acquired characteristics, Influenced Geoffroy
लेखकनामोल्लेखः(सस्यशास्त्रम्) Lam.
लेखकनामोल्लेखः (जीवशास्त्रम्) Lamarck


प्यारिस्-नगरे विद्यमाना लामार्कस्य मूर्तिः

(कालः – ०१. ०८. १७४४ तः १८. १२. १८२९)

अयं जीन् ब्याप्टिस्ट् लामार्क् (Jean Bapiste Lamark) विज्ञानजगति एव प्रथमवारं विकासवादस्य प्रतिपादकः । एषः जीवविज्ञाने जीवविकासस्य तत्त्वं प्रत्यपादयत् । अस्य पूर्णं नाम "जीन् ब्याप्टिस्ट् पियेर् आन्त्वा डि मोने शवलिये डि लामार्क्” इति । सः जीन् ब्याप्टिस्ट् लामार्क् १७४४ तमे वर्षे आगस्ट्-मासस्य १ दिनाङ्के कस्यचित् निर्धनकुटुम्बस्य ११ तमशिशुरूपेण जन्म प्राप्नोत् । अस्य पिता एतं "धर्मगुरुं” (पाद्री) कर्तुम् इष्टवान् आसीत् । किन्तु अयं जीन् ब्याप्टिस्ट् लामार्क् केवलस्य धनस्य सम्पादनार्थं स्वस्य इच्छां परित्यक्तुं न इष्टवान् । अतः सः पितुः मरणानन्तरं १७६० तमे वर्षे सैन्यं प्रविष्टवान् । सप्त वर्षाणि यावत् तत्र कार्यं कुर्वन् अनुभवं, प्रशस्तिं च सम्पादितवान् । अनन्तरं १७६६ तमे वर्षे अनारोग्यस्य कारणात् सैन्यस्य उद्योगाय त्यागपत्रम् अयच्छत् । तदनन्तरं सः जीन् ब्याप्टिस्ट् लामार्क् लेखकवृत्तिं, लिपिकवृत्तिं, प्राद्यापकवृत्तिम् एवं बहुविधवृत्तिम् आश्रितवान् ।

एषः जीन् ब्याप्टिस्ट् लामार्क् मेडिटर्रानियन्–समुद्रस्य तीरे यदा सैनिकः आसीत् तदा सस्यविषये आसक्तः सञ्जातः । स्वयम् अध्ययनं कृत्वा एव फ्रान्स्–देशस्य सस्यानां विषये एव १७७८ तमे वर्षे किञ्चित् पुस्तकम् अपि अलिखत् । १७९३ तमे वर्षे प्यारिस्–नगरे विद्यमाने प्राकृतिक-इतिहास-सङ्ग्रहालये (Natural History Museum ) अकशेरुक– प्राणिविज्ञानस्य प्राध्यापकत्वेन नियुक्तः । तत्र उद्योगावसरे सः जीन् ब्याप्टिस्ट् लामार्क् ऊर्णनाभ–वृश्चिक–सदृशान् अष्टपदीन् षड्–पदिभ्यः कीटेभ्यः पृथक् वर्गीकृतवान् । तथैव कण्टकचर्मिणां, कठिनचर्मिणां च प्राणिनां वर्गीकरणम् अपि अकरोत् । तेन जीन् ब्याप्टिस्ट् लामार्केन लिखितं "अकशेरुकाणां प्राकृतिक-इतिहासः” (Natural History of Invertebrates) इति पुस्तकम् इदानीम् अपि अकशेरुकाणां विषये अध्ययनस्य आधारत्वेन परिगण्यते ।

अनेन जीन् ब्याप्टिस्ट् लामार्केन १८०९ वर्षे प्रकटिते “प्राणिविज्ञानदर्शनम्” इति पुस्तके विकासवादः विवृतः अस्ति । “बाह्यस्य परिसरस्य कारणतः कस्मिंश्चित् प्राणिनि यः परिणामः जायते सः अग्रिमे वंशे (जनाङ्गे) (Generation) अपि अनुवर्तते” इति सः तत्र प्रतिपादितवान् अस्ति । उदाहरणार्थं दीर्घकण्ठी (Giraffe) उन्नते स्थाने विद्यमानानि पर्णानि खादितुं पुनः पुनः कण्ठं दीर्घीकरोति स्म । तस्मात् कारणात् अग्रिमे वंशे तेषां प्राणिनां कण्ठः दीर्घः एव जातः । उपयोगानुसारम् अवयवः वर्धते अथवा नश्यति इति सिद्धान्तं सः प्रत्यपादयत् । अस्य सिद्धान्तः बहुभिः परीशील्य तिरस्कृतः । अतः सः जीन् ब्याप्टिस्ट् लामार्क् जीवनस्य अन्तिमे काले अन्धः, निर्धनः, जुगुप्सितः च सञ्जातः । १८२९ तमे वर्षे डिसेम्बर्–मासस्य १८ दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]