झालावाडमण्डलम्
झालावाडमण्डलम् | |
---|---|
मण्डलम् | |
राजस्थानराज्ये झालावाडमण्डलम् | |
Country | भारतम् |
States and territories of India | राजस्थान |
Area | |
• Total | ६,९२८ km२ |
Population (२००१) | |
• Total | १४,११,३२७ |
Website | http://jhalawar.nic.in |
झालावाडमण्डलं (हिन्दी: झालावाड़ जिला, आङ्ग्ल: Jhalawar district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति झालावाडनामकं नगरम् ।
भौगोलिकम्
[सम्पादयतु]झालावाडमण्डलस्य विस्तारः ६९२८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे, पश्चिमे, दक्षिणे मध्यप्रदेशराज्यम्, उत्तरे कोटामण्डलं, बाडमेरमण्डलं च अस्ति । अस्मिन् मण्डले ८० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले काली सिन्ध इत्येषा एका एव नदी प्रवहति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं झालावाडमण्डलस्य जनसङ्ख्या १४,११,३२७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २२७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४५ अस्ति । अत्र साक्षरता ६२.१३ % अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि-
- झालावाड
- अकलेर
- भवानी मण्डी
- पिरावा
- खानपुर
- मनोहर टाण
वीक्षणीयस्थलानि
[सम्पादयतु]अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- झालावाड किला
- भवानी नाट्यशाला
- चन्द्रबाग मन्दिरम्
- गग्रोन किला
- झल्रपाटन
- रता देवी मन्दिरम्
- चान्दकेरी जैनमन्दिरम्
- जयगढ किला
- सिटी पैलेस
- रामबाग विशिप