धनञ्जयपुरञ्जयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
धनञ्जयपुरञ्जयम्  
Shiva as an ascetic.jpg
'राजा' रविवर्मणा निर्मितं शिवचित्रम्
लेखकः विष्णुपदभट्टाचार्यः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

धनञ्जयपुरञ्जये विष्णुपदविरचिते नाटके सप्ताङ्का विलसन्ति । अस्य प्रकाशनं काञ्चनकुञ्चिकेन सहैवाभवत्।

कथावस्तु[सम्पादयतु]

पल्ल्यां कुटीद्वारि धनञ्जयनामा वृद्धो ब्राह्मणः स्वभागधेयं क्रोशन् तिष्ठति स्म । तस्य पत्न्याः मृत्योः विंशतिसमाः व्यतीताः । तदा पुरञ्जयः शिशुरासीत् | अहमेव तं पुष्णामि स्म । सम्प्रति स मां न पृच्छति । इदानीमहं वाराणसीं गत्वा वयसश्शेषं गमयितुमिच्छामि । अक्षिणी प्रक्षीणे सञ्जाते । तत्र कथं यामि । एवं चिन्तयतस्तस्य पुत्रः पुरञ्जयो दिवसं गमयित्वा गृहमायातः । पित्रा पृष्टः स उवाच -अहं भवानिव न कूपमण्डूकः । अनुदिनं मया मलशाला गम्यते । जन केनोक्तं – मरणासन्नोऽहम् । यदि मम न ओष्यसि, तर्हि पश्चात्तप्यसि | अहं काश्यां विश्वनाथस्य दर्शनं चिकीर्षामि । पुरञ्जयेन कथितम् - एतत् सुष्ठु । परन्त्वहं भवता सार्धं तत्र गन्तुं न शक्नोमि, यतो हि मम मल्लशालागमनम् अत्यावश्यकम् । अथात्यधिकं पितुराग्रहात् स तेन समं वाराणसीं गतः।

द्वितीयाङ्के पुरञ्जयः पितर्युपरते गङ्गायास्तटे वृक्षतले निषण्णः पितरं प्रति कर्तव्यपालनात् परितुष्टः आलस्याद् यावन्नेत्रे निमीलयति, तावद् भवानीवल्लभं भूतेश्वरं पश्यति । शिवेनोक्तम् - अरे मूर्ख ! पश्य तव तातो नरके निमग्नः । यमदूतैस्ताडितो धनञ्जयो विलपति स्म - अहं तु शिवपुर्यामुपरतः, ततः कस्मान्मे नरकभोगः । नूनमिदं मया मम कुपुत्रस्य कारणाद् भुज्यते दुःखम् । इतश्च स्वप्ने पुरञ्जयो यमदूतान् भर्सयन्नुवाच - विरमत, पितुस्ताडनस्य फलं वः स्वादयामि । अहं भारतस्य विख्यातो मल्लोऽस्मि। नरकस्य द्वितीये दृश्ये शिवस्तम् अभर्त्सयत् - तवैव पापादयं पिशाचतां प्राप्य कष्टं भुङ्क्ते । तदा पुरञ्जयः शिवस्य चरणौ गृहीत्वा पितुः त्राणस्य उपायं पृष्टवान् । शिवोनोक्तं माहिष्मत्या नृपतेः समीपं गत्वा तस्यातिथिसेवापरायणताया एकदिवसस्य पुण्यं याचस्व । तावदेव स मत्सायुज्यं प्राप्स्यति।

तृतीयाङ्के पुरञ्जयो माहिष्मतीं गच्छन् मध्यमार्गं कञ्चन निषादं विलोकितवान् । मार्गं पृष्टो निषादोऽब्रवीत् - अद्य नक्तं वनादस्माद् गन्तुं न शक्यते । पूयतामद्य मे कुटीरम्।

चतुर्थाङ्के निषादस्तस्मै भोक्तुं फलानि प्रायच्छत् । ततस्तस्य वासः कुटीराभ्यन्तरे निर्दिश्य स्वयं तस्य रक्षायै धनुर्धरः कुटीराद् बहिः सावधानोऽतिष्ठत् | अथ पुरञ्जयः प्रातरुत्थाय निषादं रक्तरञ्जितं मृतमवलोकितवान् । सिंहस्तं जघान, यस्तस्य बाणेन हतः । तद् दृष्ट्वा स उवाच -

अभ्यागतार्थं त्यक्तासुस्त्वमाशु स्वर्गमुद्गतः।

दूयेऽहं बहुशो धन्यो मज्जन् पापमहार्णवे।।

ततः स काष्ठानि सञ्चित्य तस्य चरम सक्रियां चक्रे। षष्ठाङ्के पुरञ्जयो माहिष्मतीराजप्रासादमाससाद। तत्र स्वस्वागतार्थमागतान् राजपुरुषान् स ऊचिवान् – नाहं राजानम् अन्तरातिथ्यं स्वीकरिष्यामि।

राजानं प्रेषयत । अथ राजा समागत्य तस्य चरणयोः स्पृष्ट्वा प्रणनाम | स राज्ञे चुक्रोध - भवान् सेवकैः आतिथ्यं सम्पादयति अहो भवत आतिथ्यम् ? राजा क्षमां याचित्वाब्रवीत् - आसन्नप्रसवायाः पत्न्याः सुव्यवस्थायां व्यस्तोऽहं पूर्वं नागच्छम् । ततः पुरञ्जयः शिवाज्ञानुसारं तं तस्यैकदिवसस्य पितुः सङ्गतये पुण्यमयाचत | राजोवाच - अद्य भवान् ममातिथिशालायाम् आतिथ्यमनुभवतु । श्वोऽहं स्वकीयमाह्निकं पुण्यं भवतः पित्रे प्रदास्यामि ।

सप्तमा भूपतेः अतिथिभवने पुरञ्जयः सुष्वाप | स्वप्ने शिवस्तं संबोध्य ब्रवीति स्म - इदानीं त्वं ज्योतिर्मयमरीरं दिव्याम्बरधरं स्वपितरमवलोकय । धनञ्जयेनोक्तं - सम्प्रत्यहं मोक्षं लब्ध्वा शिवसायुज्यमनुभवामि । ततो हर्षनिर्भरः पुरञ्जयः शिवमुवाच - भगवन् ! भवतामनुग्रहेण मम पितुरुद्धारः समजनि । शिवेनोक्तम् - अयं माहिष्मतीनृपतेः प्रतर्दनस्य पुण्यप्रभावः । अद्य नक्तं राज्ञो गेहे यो जन्म प्राप्स्यति, स तव रक्षायां सिंहेन निहतो निषाद एव ।

प्रथमाङ्कस्यारम्भो धनञ्जयस्य एकोक्त्या भवति, द्वितीयाङ्कस्य च पुरयैकोक्त्या। पञ्चम-सप्तमाङ्कयोरारम्भे पुनः पुरञ्जयस्यैकोक्ती वर्तते । रङ्गनिर्देशाः प्राङ्मध्ये च विहिताः। चारित्रिकविकासस्य उच्चकोटिका कलना प्रस्तुतनाटकस्य विशिष्टा विभूतिः । हास्यप्रवणता तु विष्णुपदस्य प्रत्येकस्यां कृतौ विलसति । कविना नवनाट्यविधानैः सुसज्जैः नाटकैः न केवलं रसनिर्झरिणी प्रवाहिता, अपि तु तैः मानवतापूर्णस्य चारुजीवनस्य पद्धतिरपि निर्दिष्टा।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=धनञ्जयपुरञ्जयम्&oldid=435557" इत्यस्माद् पुनः प्राप्तिः