विष्णुपदभट्टाचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
विष्णुपदभट्टाचार्यः
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः काञ्चनकुञ्चिकम्, धनञ्जयपुरञ्जयम्, कपालकुण्डला, मणिकाञ्चनसमन्वयः

विष्णुपदभट्टाचार्यः पश्चिमबंगस्य चौबीसपरगनाजनपदान्तर्गतभट्टपल्ल्यामधिवसति स्म । १९६४ ईसवीयाब्दस्य फरवरीमासेऽसौ दिवङ्गतः।

विष्णुपदो महामहोपाध्यायस्य न्यायरत्नस्य राखालदासस्य नप्तासीत् । अस्य पिता विद्यारत्नोपाहृयो हरिचरणोऽविद्यत | विष्णुपदेन बहूनि रूपकाणि विरचितानि येषु काञ्चनकुश्चिकं, धनञ्जयपुरलायं, कपालकुण्डला, मणिकाञ्चनसमन्वयः अनुकूलगलहस्तकं प्रसिद्धानि सन्ति । कविः संस्कृतसाहित्यपरिषत्-पत्रिकायाः सम्पादकेषु अन्यतमः आसीत्।

काञ्चनकुञ्चिकम्[सम्पादयतु]

मुख्यलेखः : काञ्चनकुञ्चिकम्

काञ्चनकुञ्चिकस्य रचना १९५६ ईसवीयाब्दे समभवत् । सूत्रधारस्य मारिषेण सह वार्तालापे संस्कृतरूपकप्रेक्षकाणामभावस्योपरि कविना महान् खेदोऽभिव्यक्तः । प्रकरणस्यास्याभिनयो वसन्तोत्सवे सम्पन्नः।

धनञ्जयपुरञ्जयम्[सम्पादयतु]

मुख्यलेखः : धनञ्जयपुरञ्जयम्

धनञ्जयपुरञ्जये विष्णुपदविरचिते नाटके सप्ताङ्का विलसन्ति । अस्य प्रकाशनं काञ्चनकुञ्चिकेन सहैवाभवत्।

कपालकुण्डला[सम्पादयतु]

मुख्यलेखः : कपालकुण्डला

कपालकुण्डलाया मूललेखको बङ्किमचन्द्रोऽस्ति । विष्णुपदस्य पित्रा कथेयं संस्कृतभाषायामनूदिता। कपालकुण्डलाया अभिनयः संस्कृतसाहित्यपरिषदः ३७ तमे वार्षिकोत्सवे समभवत्।

अनुकूलगलहस्तकम्[सम्पादयतु]

अनुकूलगलहस्तकम् अङ्कद्वयसमन्वितं प्रहसनं विद्यते । अस्मिन् नायकस्य दिव्येन्दुसुन्दरस्य नायिकया यामिन्या सह विवाहः सम्पद्यते । इदं विद्वत्सहृद्यानां परितोषाय राकायामभिनीतम्।

कथावस्तु[सम्पादयतु]

नायको दिव्येन्दुसुन्दरो रांची जिगमिषुरासीत् । तस्य मित्रं यामिनीकान्तः संक्षेपेण यामिनीति कथ्यते। दिव्येन्दुशेखरो दूरभाषेण यामिनी इत्युच्चारणपूर्वकं यामिनीकान्तेन सह सम्पर्कं साधयन्नपृच्छत् - किमिदं यामिनीगृहम् ? त्रुटिवशात् दूरभाषं यामिनीनाम्नीं नायिकया सम्बद्धम् । सोवाच - कथय किं त्वं मया सह वार्तालापमिच्छसि ? दिव्येन्दुसुन्दरेणोक्तं नहि नहि अहं यामिनीं (यामिनीकान्तं) वक्तुमिच्छामि अस्त्येकं महत् प्रयोजनम् । यामिनी पृष्टवती – किं तत् प्रयोजनम् ? अद्य यामिनीसहायेन मयास्ति रांची गन्तव्या । यामिनी भर्सयामासधृष्ट । त्वं नरकं यायाः । त्वं वनजोऽसि । दिव्येन्दुनोक्तं - बी० ए० अस्मि दिव्येन्दुसुन्दरो नाम । ततस्तयोर्मध्ये उष्णालापः संवृत्तः । दिव्येन्दुना कथितम् - भवती यामिनीकान्तं दूरभाषे आकारयतु । यामिन्यपि ज्ञातवती यद्भ्रमस्य किं मूलम् । तयोक्तम् अत्र यामिनीकान्तो न वर्तते । दिव्येन्दुनोक्तं - तस्येदृशेन व्यवहारेणास्मि परिव्याकुलः । यामिन्योक्तं – रांची गत्वा चिकित्सां कारयतु भवान् | दिव्येन्दुरुकवान् - अद्यैव यामि सन्ध्यासमये रेलयानेन । किं तु यामिनीं विना तत्र कुतः आनन्दः ? भवती तं कथयतु यत्तदर्थं मया स्थानं संरक्षितम् इति। यामिन्योक्तम् - अद्य यामिनीगमनं न तत्र सम्भाव्यते । द्वित्रिदिवसाः अनन्तरमेव तद्गमनं भवितुं शक्नोति । दिव्येन्दुना कथितम् - तर्हि स मद्द्वचनाद् वक्तव्यो यत्तत्र स मम सविध एव निवसतु । यामिन्योक्तं तदप्यनिवार्यकारणैर्न भवितुमर्हति । तन्निवासो हिनुपल्ल्या रञ्जनकुटीरे भवितुं शक्नोति । दिव्येन्दुनोक्तं - तत्रैव मेलिष्यामि। यामिन्याः सखी शाश्वती तं परिहासं श्रुत्वा यामिनीमभर्त्स्यत्, अकथयञ्च परिहासस्य पृष्टे वर्तते किमपि विशेषम् । अथ ते द्वेऽपि दिव्येन्दवे वचनदानाद् रांची गन्तवत्यौ। द्वितीयेऽङ्के यामिन्या रांचीगृहस्य द्वारपालो रामावतारः स्वमित्रं विन्ध्याचलं वक्ति यद् गृहस्वामिनी जलप्रपातं द्रष्टुं गतवती । मया न क्वचिद् गन्तव्यम् । विन्ध्याचलेनोक्तं - नगरेऽस्मिन् भद्रवेशे मित्ररूपा दुस्यवः सर्वं चोरयन्ति । त्वं सावधानो गृहं रक्ष | अथ तदानीमेव दिव्येन्दुसुन्दर आगत्य यामिनीविषये पप्रच्छ । रामावतारस्तं दस्यु मत्वा विन्ध्याचलस्य सहायतया तं तस्यामेव वृष्यां बबन्ध या तस्मै स्थातुं प्रदत्तासीत् । उच्चैर्मा शब्दापयत्विति तस्य मुखे वस्त्रं सम्भृतम् । ततो यावद्रामावतारो रक्षिणम् आनेतुं प्रयाति, तावदेव सखीसमेता समायान्ती यामिनी दृष्टा । अथ दिव्येन्दुना सह वार्तालापे कृते यामिन्या समनुभूतं यदस्य परिहास एव घोरदण्डप्राप्तेः कारणमहमेवास्मि । अस्य दण्डं दिव्येन्दुना निर्दिष्टं यद् यामिनी यावजीवनं ममावरोधे वन्दिनी भवेत्। शाश्वती तयोः पाणिग्रहणं सम्पाद्य तमाशयमपूरयत् । तदा दिव्येन्दुनोक्तं - ‘किङ्करनिग्रहो मे साम्प्रतमनुकूलो गलहस्त इव प्रतिभाति।

मणिकाञ्चनसमन्वयः[सम्पादयतु]

मणिकाञ्चनसमन्वयाख्ये प्रस्तुतेऽङ्कद्वयसमन्विते प्रहसने पञ्च दृश्यानि राजन्ते । अत्र कथानुसारं शर्शरीक-दर्दुरकनामानौ द्वौ धूर्तावास्ताम् । एकः शिरसि भाण्डे निधाय मधु विक्रीणाति स्म अपरो गुडम्

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

वङ्गप्रदेशः

साहित्यम्

संस्कृतम्

उद्धरणम्[सम्पादयतु]