मणिकाञ्चनसमन्वयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
मणिकाञ्चनसमन्वयः  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः विष्णुपदभट्टाचार्यः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

मणिकाञ्चनसमन्वयाख्ये प्रस्तुतेऽङ्कद्वयसमन्विते प्रहसने पञ्च दृश्यानि राजन्ते । अत्र कथानुसारं शर्शरीक-दर्दुरकनामानौ द्वौ धूर्तावास्ताम् । एकः शिरसि भाण्डे निधाय मधु विक्रीणाति स्म अपरो गुडम् । एकदा द्वावपि नगरस्यैकस्मिन्नेव भागे गतवन्तौ । तत्रोभौ विवदमानौ परस्परस्य भाण्डं स्फोटयामासतुः। ततो जनैः निर्णयः कृतो यदुभाभ्यामुभयोवस्तुनोर्मूल्यं दीयताम्। ततस्तौ द्वावपि पारस्परिकं वस्तु निन्दतः स्म । ततो धनपतिरुभयोर्वस्तुनी आस्वाद्योक्तवान् युवां द्वावपि तस्करौ जनान् प्रवञ्चयथः । अहं राजपुरुषानानाय्य तेभ्यो युवां दास्यामि । ततो द्वावपि कर्णौ जगृहतुः । नाहमितः परमेवं करिष्यामीति च द्वावप्युचतुः । किं तु तयोः प्रश्नः आसीत् यत्, कथं जीविकां लभावहे ? इति। धनिपतिः तयोः एकम् आदिशत् - मम गाश्चारय, अपरमुवाच मम रसालवृक्षान् तथासिञ्च यथा सर्वत्र कर्दमं भवेत् । भोजनातिरिक्तं युवां प्रतिमासं १० रूप्यकाणि प्राप्स्यथः ।

द्वितीये दृश्ये रसालवृक्षस्य नीचैः बृहद्गर्तो दृश्यते । ततो निःसारितायाः मृदः स्तूपोऽवलोक्यते । गर्ते दर्दुरकः खनन्नासीत् । दर्दुरकस्यैकोक्तिरस्ति - यावदिनम् अमुम् असिञ्चम्। किन्त्वस्यामूषरभूमावार्द्रता नायाता । पिपासितोऽस्मि । अयं वृक्षो मूलेषु खनित्वा निपातनीयः । तदानीमेव तत्र शर्शरीक आयातः स चोक्तवान् - किं करोषि ? दर्दुरकेणोक्तं - नायं वृक्षः, अपि तु राक्षसः । इमं विनाश्यैव विश्रमिष्यामि। धनपतेरागमनात् प्रागति दूरं पलायिष्ये । अथ खनित्रं धातुपात्रेण संघृष्टं श्रुत्वा शर्शरीकः पृष्टवान् - किमिदम् ? स उवाच - न किमपि ।

ततः शर्शरीक आत्मनो वृत्तान्तं कथयामास – गोचारणसमयेऽहं सुप्तवान् । मयि सुप्तवति कपिला गौः पलायिता । अथान्वेषणे कृते सैकस्मिन्नुद्याने पादपान् ध्वंसयन्ती दृष्टा । यदाहं तस्याः समीपमगच्छम्, तदा सा पुच्छमुत्थाप्य पुनः पलायिता | उद्यानपालो मां ग्रहीतुमैच्छत् । अहं धावित्वा कथञ्चिद् इहायातः । गौगृहं गतास्ति । अहं त्विदं प्राणान्तकं कार्यं त्यक्ष्यामि ।

रात्रौ द्वावपि सहैव सुषुपुतुः । गभीरनिद्रायां दर्दुरकस्य नासिकानादः समुद्भूतः । तदा शर्शरीको रसालतलमासाद्य तस्मिन्नेव गर्ते 'माचिस'-शलाकाप्रकाशेन रूप्यकसम्भृतं ताम्रकलशमपश्यत् । ततः स तमादायाव्रजत् । अथ दर्दुरकस्तमन्वधावत् । ताम्रकलशमग्रहीत् । ततो द्वावाप्यर्धमर्धं गृहीतवन्तौ । कलशं विक्रीय तस्याप्योर्धमूल्यग्रहणस्य निर्णयः कृतः । शर्शरीकस्य गृहे कलशो निक्षिप्तः। द्वितीयाङ्के शर्शरीकः पुत्रं शिक्षयति - यदि दर्दुरकः आगच्छेत्, तर्हि शर्शरीकः उद्वमनरोगान्मृतः” इति वाच्यम् ततः स खट्वायां शयानः सजातः । दर्दुरक एतत्सर्वं द्वारस्थः शुश्राव । अथ तमागतं दृष्ट्वा शर्शरीकपुत्रश्चतुरक उवाच – जनको मे मृतः । तस्य शरीरमवलोक्यताम् । कलशप्रवृतिं नाहं जानामि। दर्दुरकेणोक्तम् - अस्यौषधं करोमि । भवान् स्वगृहे एकलो वंशवर्धनः । अयञ्च संक्रामको रोगः । अहमेव सर्वमेकाकी करिष्यामि । यदि चाहं म्रिये तदापि कापि हानिर्नास्ति । चतुरकोऽब्रवीत् – अहमेनं श्मशाने नीत्वा वह्निकृत्यं करिष्यामि । दर्दुरकोऽब्रवीत्मा तावत् । यतो हि -

सङ्क्रामकरुजा यो हि पुण्यात्मा गतजीवनः।

तस्य सद्यो विमुक्तस्य मुखाग्निर्न प्रशस्यते॥

त्वं तावद् गत्वा मातरमाश्वसिहि । अहमेकलः सर्वं करिष्यामि । चतुरकेण चिन्तितं बुद्धिमान् पिता मे स्वयमेवोपायान्तरं करिष्यति इति चिन्तयित्वा स गतः । ततो दर्दुरकस्तस्य चरणौ निबध्य श्मशानं नीतवान् । अथ चितायां शर्शरीक-शरीरं धृतम् । चिताज्वालकः पाण्डुरकः सुरानयनाय गतवानासीत् । दर्दुरकेण चिन्तितम् - अहमेव कस्मान्न चितां ज्वालयामि । तावदेव जनैरनुधावितो दस्युराजस्तत्रागतः । दर्दुरकस्तं दृष्ट्वैव मृतवत् सुष्वाप । अनुधावत्सु जनेषु परावृत्तेषु दस्यवस्तत्रैव धनविभाजनमारेभिरे । श्मशानाधिकारी पाण्डुरको मागच्छेद इति तस्य प्रवृतिमन्विष्यन्तस्ते चितायां धृतं शवमवलोकायामासुः । ततस्तैः कथितम् -

गृह्णानाः परवित्तानि जाताः पातकिनो वयम्।

प्रायश्चित्तमभिस्तोकं शवसत्कारतोऽस्तु नः॥

इति ते चिताज्वालनाय व्यवसितवन्तः । तदा शर्शरीकः पार्श्वपरिवर्तनं कुर्वन् ‘हीं हीं हीं' इति चकार दर्दुरकोऽपि 'हां हां हां' इत्यनुचकार तच्छ्रुत्वातिशयभीताः दस्यवः सर्वां सम्पत्तिं विहाय अपलायन्त | ततः शर्शरीकश्चिताया अवरुरोह । दर्दुरको गुल्माद् बहिरागतः शर्शरीकमुवाच - अरे नराधम ! अपि नाम जीवसि त्वम् ? शर्शरीक उवाच - नाहं शर्शरीकः । अहं तद्देहप्रविष्टः पिशाचोऽस्मि । अहं त्वां खादिष्यामि।

इति कथयित्वा स दर्दुरकम् आलिलिङ्ग । अथ तौ सस्नेहमभाषेताम् । दस्यूनां सम्पत्तेरर्धमर्ध व्यभजताम् । एष एव तयोर्मणिकाञ्चनसंयोगः।

शिल्पम् ।[सम्पादयतु]

प्रस्तुतप्रहसनस्य मूलकथा वङ्गेषु प्रसिद्धा । अस्मिन् स्त्री भूमिका नास्ति । इयमेका महती विशेषतास्य प्रहसनस्य । बहुशः प्रहसनानि प्रायः अश्लीलशृङ्गारस्य भाण्डानि सन्ति । विष्णुपदेन प्रहसनमिदं विरचय्य नवादिक् प्रदर्शिता।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मणिकाञ्चनसमन्वयः&oldid=435533" इत्यस्माद् पुनः प्राप्तिः