नाभिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

इयं नाभिः शरीरस्य किञ्चन अङ्गम् अस्ति । नाभिः उदरे भवति । एषा नाभिः आङ्ग्लभाषायां Abdomen इति उच्यते ।

मानवस्य नाभिः
Abdominal muscles of a woman.jpg

वेदपुराणेषु नाभिः[सम्पादयतु]

Sheshashayi Vishnu

नाभितः सम्बद्धस्य मणीपूर चक्रस्य संदर्भे रजनीश महाभागः एवं कथयति – तीसरा शरीर मैंने कहा, एस्ट्रल बॉडी है, सूक्ष्म शरीर है। उस सूक्ष्म शरीर के भी दो हिस्से हैं। प्राथमिक रूप से सूक्ष्म शरीर संदेह, विचार, इनके आसपास रुका रहता है। और अगर ये रूपांतरित हो जाएं—संदेह अगर रूपांतरित हो तो श्रद्धा बन जाता है; और विचार अगर रूपांतरित हो तो विवेक बन जाता है। - रजनीश(कुण्डलिनी और सात शरीर व्याख्यानमाला)

वैदिकग्रन्थेषु कुत्रापि प्रत्यक्षरूपेण श्रद्धायाः सम्बन्धं नाभितः नास्ति। केवलं नारदपुराणे १.६६.८९ उल्लेखमस्ति यत् पद्मनाभदेवस्य शक्तिः श्रद्धा अस्ति। श्रद्धायाः नाभितः सम्बन्धने किं न्यायं भवितुं शक्यते। सोमयागे सोमं क्रीत्वा तं शकटे स्थापयित्वा यज्ञवेदीं प्रति आनयन्ति। यजमानपत्नी शकटचक्रस्य नाभ्यां आज्यं सिञ्चति, येन नाभ्यां चक्रस्य घर्षणेन कस्यापि आसुरी वाचः उत्पत्तिः मा भवेत्। यथा चन्द्रमसः संदर्भे कथनमस्ति यत् या पञ्चदश कलाः सन्ति, ताः प्रजापतेः वित्तमस्ति। यः षोडशी कला, सा तस्य आत्मा। न्यूनाधिक रूपेण, यः स्थिति आत्मनः संदर्भे अस्ति, सैव नाभ्यां संदर्भे अपि भवितुं शक्यते। आत्मा संदर्भे कथनमस्ति यत् बाह्येभिः दुःखसुखेभिः आत्मनः कम्पनं न भवेत्, अयं अपेक्षितमस्ति। नाभेः संदर्भेपि अयमेव स्थिति अस्ति वा न वा, अयं विचारणीयः। स्कन्दपुराणे ५.३.४४.१७ उल्लेखमस्ति यत् नाभीनां गयानाभिः पुण्या अस्ति। गयाप्रदेशस्य गुणमस्ति यत् तत्र गयासुरस्य देहस्य कम्पनं समाप्तं भवति।

  • Manipura

व्यावहारिकरूपेण, किमयं सम्भवमस्ति यत् बाह्यसंसारे उच्चावच स्थितिः, अधर्मस्य स्थितिः भवति एवं अन्तस्थलः अस्पृष्टं एव भवति। अयं अपेक्षितमस्ति यत् आत्मनः परितः, नाभ्या परितः अपि श्रद्धायाः साम्राज्यं भवेत्, न अश्रद्धायाः। श्रद्धैव नाभ्याः वित्तं भवेत्।

ऋग्वेदे १.१६३.१२ यज्ञीयाश्वस्य संदर्भे कथनमस्ति यत् अजः पशुः अस्य नाभिरस्ति एवं स अजः अश्वस्य पुरः नेनीयते। उपनिषदेषु उल्लेखमस्ति यत् अजः स्थितिः सूर्योदयस्योदयात् पूर्व स्थितिः, गुणानां प्राकट्यात् पूर्वस्थितिः, अनिरुक्त स्थितिरस्ति। सामवेदे हिंकार भक्तिः अनिरुक्तस्थिति उच्यते। किं वैदिकसाहित्ये नाभिः सार्वत्रिकरूपेण अनिरुक्तं एव अस्ति, अयं अनुसंधेयः। ऋग्वेदे १०.१२४.०२ कथनमस्ति यत् अहं अरणीं नाभिं गच्छामि। कर्मकाण्डे अश्वत्थस्य उपरि अरणिः शम्याः अधरारणिं मन्थति। एवंप्रकारेण, एकपक्षतः वित्तम् नाभिं प्रभावयितुं शक्नोति एवं द्वितीय पक्षे नाभिः वित्तं प्रभावयितुं शक्नोति। पुराणेषु, सार्वत्रिक रूपेण नाभितः ऋषभस्य उत्पत्तिः भवति। ऋषभः धर्मस्य अवस्थायाः सूचकः अस्ति, यत्र अधर्मः पृष्ठतः भवति।

शेषशायी विष्णोः नाभितः पद्मस्य आविर्भावं, पद्मस्य कर्णिकायां ब्रह्मदेवस्य स्थितिः एकं सावर्त्रिकं चित्रमस्ति। अस्मिन् चित्रे मधु-कैटभ असुराणां स्थितिरपि दर्शनीयमस्ति। पद्मस्य आविर्भावं बहिर्मुखी अस्ति अथवा अयं हृदयस्य अनाहतचक्रस्य अन्तर्मुखी विकासमस्ति, अयं विचारणीयः। पद्मस्य कर्णिका कारणरूपं भवति, यथा पृथिवीरूपी पद्मस्य कर्णिका मेरुपर्वतमस्ति।

सम्बद्धाः लेखाः[सम्पादयतु]

संदर्भाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नाभिः&oldid=424861" इत्यस्माद् पुनः प्राप्तिः