नारिकेलजलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भारते मार्गपार्श्वे नारिकेलजलस्य विक्रयणम्
वृक्षे दृश्यमानानि विभिन्नस्तरस्य नारिकेलानि
पानार्थं सिद्धं नारिकेलम्
पानार्थं सिद्धं नारिकेलम्

नारिकेलस्य जलं नारिकेलजलम् । इदं नारिकेलजलं किञ्चित् सुप्रसिद्धं पेयम् अस्ति । प्रायः जगति सर्वत्र अस्य उपयोगः अस्ति एव । भारते तु इदं नारिकेलजलम् अत्यधिकप्रमाणेन पीयते । इदं नारिकेलजलम् आङ्ग्लभाषायां Tender Coconut इति उच्यते । एतत् नारिकेलजलम् आरोग्यार्थम् अपि बहु उत्तमम् । नारिकेलजलम् अपि सस्यजन्यः आहारपदार्थः । वस्तुतः इदं नारिकेलजलं दक्षिणपूर्व-एष्यायां, केरिबियन्देशे, पेसिफिक् ऐस्लाण्ड् इत्यादिषु सर्वदा उपलभ्यते ।


इदं नारिकेलजलं शारीरस्य औष्ण्यं न्यूनीकरोति । मूत्राशये पाषाणाः सन्ति चेत् अत्यधिकं नारिकेलजलं पातुं वदन्ति वैद्याः । नारिकेलकलस्य विक्रयणम् इदानीं महा-उद्यमरूपेण प्रवृद्धम् अस्ति । मार्गस्य पार्श्वे अपि राशीकृत्य विक्रयणं प्रचलति । केषाञ्चन कुटुम्बानां जीवनाधारः उद्योगः एव नारिकेलजलस्य विक्रयणम् । नारिकेलं यावत् पूर्णतया पक्वं न भवति तदा एव वृक्षतः उत्पाट्यते । तदा एव तत् पातुं योग्यं भवति । पक्वस्य नारिकेलस्य अपेक्षया अपि नारिकेलजलस्य मूल्यम् अधिकम् अस्ति । सिद्धपेयानां स्थाने अस्य नारिकेलजलस्य पानं बहु उत्तमम् ।


एतत् नारिकेलजलं कूपीषु पूरयित्वा अपि विक्रयणं क्रियते । तादृशं कूपीषु पूरितं नारिकेलजलं वर्षं यावत् सम्यक् भवति । तथैव मार्गपार्श्वे यस्य विक्रयणं क्रियते तत्तु मासं यावत् प्रायः सम्यक् तिष्ठति । वृक्षतः उत्पाटनानुक्षणं पीतं चेत् नारिकेलजलं प्रत्यग्रं भवति । तदनन्तरं क्रमशः तस्य प्रत्यग्रता नश्यति । अधिकानि दिनानि अतीतानि चेत् प्रत्यग्रता अधिकप्रमाणेन नष्टा जाता भवति । अतः वृक्षात् उत्पाटनानन्तरं यावत् शक्यं तावत् शीघ्रम् एव नारिकेलजलं पातव्यम् । यदा नारिकेलं हरितवर्णीयम् एव भवति तदा एव तस्य जलं पातव्यम् ।


नारिकेलस्य उपरितने भागे रन्ध्रं कृत्वा तद्द्वारा जलं पीयते । कदाचित् नारिकेलस्य त्वक्-निष्कासनं कृत्वा तदनन्तरं रन्ध्रं कृत्वा अपि पीयते । सामान्यतया त्वक्-निष्कासनं न क्रियते । तथैव नारिकेलस्य उपरितनभागस्य त्वक् किञ्चित् प्रमाणेन निष्कास्य रन्ध्रं कुर्वन्ति ।

अधिकानि चित्राणि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नारिकेलजलम्&oldid=356814" इत्यस्माद् प्रतिप्राप्तम्