परिणामालङ्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search



परिणामालङ्कारः (Parinamalankara)अलङ्कारस्य तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे अप्पय्यदीक्षितः एवं प्रकथयति –

परिणामः क्रियार्थश्चेद्विषयी विषयात्मना ।
प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा ॥

यत्र आरोप्यमाणो विषयी किञ्चित् कार्योपयोगित्वेन निबध्यमानः स्वतस्तस्य तदुपयोगित्वासंभवात् प्रकृतात्मना परिणतिमपेक्षते तत्र परिणामालङ्कारः । अत्रोदाहरणम् प्रसन्नेति । अत्र हि अब्जस्य वीक्षणोपयोगित्वं निबध्ये न तु दृशः । मयूरव्यंसकादिसमासेनोत्तरपदार्थप्राधान्यात् । नचोपमितसमासाश्रयणेन दृगब्जमिवेति पूर्वप्राधान्यमस्तीति वाच्यम् । प्रसन्नेति सामान्यधर्मप्रयोगात् । "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” इति तदप्रयोग एवोपमितसमासानुशासनात् । अब्जस्य वीक्षणोपयोगित्वं न स्वात्मना सम्भवति । अतस्तस्य प्रकृतदृगात्मना परिणत्यपेक्षणात् परिणामालङ्कारः । यथा वा –

तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्ममासौतृतीय-
स्तस्मै सोमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय ।
व्यामग्राह्यस्तनीभिः शबरयुवतिभिः काउतुकोदञ्च दक्षं
कृच्छादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ॥

अत्रारोप्यमाण आतरः सौमित्रिमैत्रिरूपतापत्या गुहोपकारलक्षणकार्योपयोगी न स्वात्मना, गुहस्य रघुनाथप्रसादैकार्थिकत्वेन वेतनार्थित्वाभावात् ॥ परिणामोऽनयोर्यस्मिन्नभेदः पर्यवस्यति । कान्तेन पृष्टा रहसि मौनमेवोत्तरं ददौ ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=परिणामालङ्कारः&oldid=419244" इत्यस्माद् पुनः प्राप्तिः