पारसनाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

अयं पारसनाथपर्वतः जैनानां पवित्रं क्षेत्रम् । पारसनाथः इति पार्श्वनाथस्य अपभ्रंशरूपम् । जैनसम्प्रदायस्य सर्वस्य अपि विभागस्य परमश्रेष्ठं क्षेत्रम् एतत् । एतत् झारखण्डराज्यस्य हजारिबाग्-मण्डले अस्ति ।

जैनसम्प्रदाये २४ जनाः तीर्थङ्कराः सन्ति । तेषु आदिनाथः कैलासे, वासुपूज्यः चम्पापुर्यां, नेमीनाथः गिरिनारे, अन्तिमः तीर्थङ्करः महावीरः पावापुर्यां च निर्वाणं प्राप्नुवन् । २३ तमः तीर्थङ्करः पार्श्वनाथः अत्र निर्वाणं प्राप्तवान् । तस्मात् कारणात् एतत् पारसनाथक्षेत्रम् इति उच्यते । जैनग्रन्थेषु सम्मेदगिरिः, सम्मेदशिखरं, सम्मेदाचलः इति वा अस्य पर्वतस्य उल्लेखः कृतः दृश्यते । अस्य शिखराग्रे पार्श्वनाथमन्दिरम् अस्ति । मन्दिरे पार्श्वनाथस्य ध्यानावस्थायाः मूर्तिः अस्ति । मूर्तेः उपरि सर्पफणः अस्ति । अस्मिन् मन्दिरे महावीरस्य मूर्तिः पादुका च अस्ति । अन्येषाम् अपि मुक्तात्मानां चरणचिह्नानि अपि अत्र पूज्यन्ते । पार्श्वनाथस्य अपेक्षया पूर्वं निर्वाणं प्राप्तवतां ९ तीर्थङ्कराणाम् अपि मन्दिराणि सन्ति अत्र ।

अस्य पर्वतस्य उपत्यकायां “रज्जुपालिका” नाम नदी प्रवहति स्म इति उल्लेखः दृश्यते । अस्याः नद्याः तटे ध्यानस्थः महावीरः उत्तरफल्गुणिनक्षत्रे यदा चन्द्रः आसीत् तदा केवलज्ञानं प्राप्नोत् । तदनन्तरं सः जिनः, अर्हन्, केवलिन् च अभवत् । समीपे एव “मधुबन” इत्यत्र श्वेताम्बराणां देवालयाः, दिगम्बराणां धर्मशालाः च सन्ति । शत्रुञ्जयः, गिरिनार्, अबू, अष्टपादः, पारसनाथः च जैनानां पवित्राणि ५ क्षेत्राणि । एतानि प्राचीनकालात् आरभ्य अद्य पर्यन्तम् अपि सहस्रशः यात्रिकान् आकर्षन्ति । पारसनाथं परितः लघु लघु शिखराणि सन्ति । तत्र सर्वत्र अपि तीर्थङ्कराणां स्मारकाणि सन्ति । एतेषां सर्वेषाम् अपि शिखराणां प्रदक्षिणं भक्तिभावुकाः जैनयात्रिकाः पादरक्षां विना कुर्वन्ति ।

२३तमः तीर्थङ्करः पारसनाथः अस्माकं समाजस्य कश्चन अपूर्वः सिद्धपुरुषः । सः काश्याः राज्ञः अश्वसेनस्य पुत्रः । तस्य जीवनस्य प्रमुखाः ५ घटनाः अपि चन्द्रः यदा विशाखानक्षत्रे आसीत् तदा घटिताः इति वदन्ति । तस्य स्वर्गतः भुवं प्रति अवतरणं, मातुः गर्भप्रवेशः, केशमुण्डनं, केवलज्ञानप्राप्तिः, निर्वाणप्राप्तिः च ताः ५ घटनाः । पार्श्वनाथः ३०तमे वयसि गृहं त्यक्तवान् । शरीरस्य आवश्यकताः अपरिगणय्य ८३ दिनानि यावत् ध्यानम् अकरोत् । ८४तमे दिने धातकीवृक्षस्य अधः तेन केवलज्ञानं प्राप्तम् । अनन्तरं २० वर्षाणि यावत् केवलिन् सन् देशसञ्चारम् अकरोत् सः । १००तमे वयसि सम्मेदशिखरे निर्वाणं प्राप्तवान् । जैनयात्रिकाः मधुबने विद्यमानस्य मन्दिरस्य दर्शनं कृत्वा पारसनाथपर्वतस्य आरोहणस्य आरम्भं कुर्वन्ति । एषा यात्रा सामान्यतया आश्वयुजमासतः फाल्गुणपर्यन्तं प्रचलति । अस्मिन् पर्वते गन्धर्वमाला, सीतामाला चेति प्रवाहद्वयम् अस्ति । उपरि गमनाय मधुबनतः उत्तमः मार्गः अपि निर्मितः अस्ति । तेन मार्गेण ६ मैल् यावत् अग्रे गतं चेत् गौतमस्वामीमन्दिरं प्राप्यते । तत्र सर्वेषां २४ तीर्थङ्कराणां चरणचिह्नानि स्थापितानि सन्ति । पर्वताग्रे विद्यमाने जलमन्दिरे पार्श्वनाथस्य श्यामलवर्णस्य मूर्तिः अस्ति । २० जैनतीर्थङ्करैः निर्वाणं प्राप्तम् एतत् स्थानं “जैनकाशी” इति उक्तं चेत् तत्र दोषः न स्यात् ।

"https://sa.wikipedia.org/w/index.php?title=पारसनाथः&oldid=431923" इत्यस्माद् पुनः प्राप्तिः