पुट्टपर्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पुट्टपर्ती

పుట్టపర్తి
town
प्रशान्तिनिलयस्य परिसरः
प्रशान्तिनिलयस्य परिसरः
Country भारतम्
State आन्ध्रप्रदेशः
District अनन्तपुरम्
Elevation
४७५ m
Population
 • Total ९,०००
Languages
 • Official तेलुगु
Time zone UTC+5:30 (IST)
PIN
515134
Telephone code 91-8555
Vehicle registration AP 02

प्रशान्तिनिलयः सेवाकेन्द्रम् श्रीसत्यसायीबाबामहोदयेन स्थापितः प्रशान्तिनिलयनामकः कश्चन आश्रमः अत्र अस्ति । अत्र अनेकजनाः श्रीसायीबाबामहोदयस्य मार्गदर्शनानुसारं विविधसेवाः कुर्वन्ति । तस्य सन्देशः ‘सेवायाः सन्देशः ’इत्यस्ति । सायीबाबा अधुना नास्ति । किन्तु तस्य शिष्याः सम्पूर्णविश्वे सन्ति । सायीबाबा महोदयेन स्थपिता संस्था सर्वत्र सुन्दरतया कार्यं कुर्वती अस्ति । पुटपर्ति नगरम् इदानीम् आधुनिकव्यवस्थां प्राप्य वैभवपूर्णम् अस्ति । पूर्वम् एषः कश्चन ग्रामः आसीत् । अत्र कश्चन महान् चिकित्सालयः स्थापितः अस्ति । आर्थिकदुर्बलानां चिकित्सा अत्र निश्शुल्का भवति । प्रख्याताः वैद्याः अत्र सेवारुपेण कार्यं कुर्वन्ति । अतीव व्यवदायिक्यः हृदयचिकित्साः, मूत्रपिण्डचिकित्साः च अत्र विनाशुल्कं कुर्वन्ति । अतः प्रतिदिनं सहस्रशः जनाः चिकित्सार्थम् आगच्छन्ति । सायीबाबामहोदयस्य मरणानन्तरं तस्य स्मारकम् अत्र निर्मितम् अस्ति । भक्तानां कृते आश्रमदर्शनार्थं व्यवस्था अस्ति । आश्रमे वसतिभोजनव्यवस्था अस्ति । पुटपर्तिनगरे अनेकविद्यालयाः छात्रावासाः स्थापिताः सन्ति । सेनाविभागसदृशम् अनुशासनम् अत्र दृश्यते ।


पुट्टपर्तीप्रवेशद्वारम्
श्रीसत्यसायीविश्वविद्यालयः

अत्र आगतैः सर्वैः नाम-ग्राम-नगर-राज्यादिविवरणम् अवश्यम् दातव्यम् भवति । भोजन- वसतिविषये नियमाः अनुसरणीयाः सन्ति । सर्वत्र नियमः पालनीयः । सुरक्षा व्यवस्था उत्तमा अस्ति । आश्रमे परस्परमेलने ‘सायीराम’ इति वक्तव्यम् भवति । परस्परवार्तालापकाले मार्गदर्शनकाले गौरवपूर्णः व्यवहारः कर्तव्यः अस्ति । रात्रौ नववादने शयनम् अनिवार्यम् अस्ति ।

मार्गः[सम्पादयतु]

धूमशकटमार्गः[सम्पादयतु]

धूमशकटयानं ’प्रशान्ति एकसप्रेस् ‘ इत्यस्ति । बेङ्गळूरुनगरतः चेन्नैमार्गे धर्मावरनिस्थानतः पुटपर्तिनगरं गन्तुं शक्यते ।

वाहनमार्गः[सम्पादयतु]

बेङ्गळूरु चेन्नै हिन्दुपुरं हैदराबाद् इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति । बेङ्गळूरुतः २५० कि.मी धर्मावरतः ३० कि.मी । प्रशान्तिनिलये वसत्याः कृते पूर्वमेव आरक्षणव्यवस्था कर्तुं शक्यते । तिरुपति, बेङ्गळूरु चेन्नै विमाननिस्थानानि समीपे सन्ति । शिक्षणचिकित्सा -भक्तिसेवानां विशिष्टं केन्द्रमेतदस्ति ।

"https://sa.wikipedia.org/w/index.php?title=पुट्टपर्ती&oldid=251503" इत्यस्माद् प्रतिप्राप्तम्