पोताश्रयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
पोताश्रयः

पोताश्रयः ( /ˈptɑːʃrəjəhə/) (हिन्दी: बन्दरगाह, आङ्ग्ल: Port) अन्ताराष्ट्रियव्यापाराय अस्माकं देशस्य प्रवेशद्वारं भवति । अयं पोताश्रयः अपि कथ्यते । एतेषां पोताश्रयाणां साहाय्येन यात्रिकाः जलयानानां वस्तूनां विश्वस्मिन् परिवाहनं कुर्वन्ति [१]

पोताश्रयाः जलयानेभ्यः यातायातस्य सौकर्यानि प्रददति । एतेभ्यः सौकर्येभ्यः पोताश्रयाणाम् अधिकारिणः विभिन्नसेवानाम् आयोजनं कुर्वन्ति । कस्यचित् पोताश्रयस्य महत्वं नौभारस्वरूपेण, बृहज्जलयानानां सङ्ख्यया च निश्चीयते । नौभारः पोताश्रयस्य पृष्ठप्रदेशस्य विकासस्य सूचकः वर्तते [२]

पोताश्रयस्य प्रकाराः[३][सम्पादयतु]

प्रायः पोताश्रयाणां वर्गीकरणं तेषां यातायातस्य प्रकारैः क्रियते । नौभारानुसारं पोताश्रयस्य प्रकाराः अधः लिखिताः सन्ति ।

औद्योगिकः पोताश्रयः[सम्पादयतु]

अयं पोताश्रयः महाविक्रयनौभाराय विशिष्टः अस्ति । एतेषु पोताश्रयेषु धान्यानां, शर्करायाः, अयस्कस्य, तैलस्य, रसायनस्य च यातायातः भवति [४]

वाणिज्यिकः पोताश्रयः[सम्पादयतु]

एते पोताश्रयाः सामान्यनौभारस्य उत्पादनानां, विनिर्मितवस्तूनां च यातायातं कुर्वन्ति । एतेषु पोताश्रयेषु यात्रिणां यातायातः अपि भवति [५]

विस्तृतः पोताश्रयः[सम्पादयतु]

एते पोताश्रयाः अधिकमात्रायां सामान्यनौभारस्य महाविक्रये आयोजनं कुर्वन्ति । विश्वस्य अधिकतमाः पोताश्रयाः विस्तृतपोताश्रयाणां स्वरूपत्वेन विभक्ताः सन्ति [६]

अवस्थित्याधारेण पोताश्रयस्य प्रकाराः[सम्पादयतु]

अन्तर्देशीयपोताश्रयः[सम्पादयतु]

एते पोताश्रयाः समुद्रतटात् दूरे स्थिताः भवन्ति । नदीमाध्यमेन, कूल्यामाध्यमेन च समुद्रैः सह एते पोताश्रयाः सम्बद्धाः भवन्ति । एते पोताश्रयाः वर्गतलयुतैः जलयानैः एव गम्याः भवन्ति । ’मानचेस्टर्’ इति एतन्नगरम् एकया कूल्यया सह सम्बद्धं वर्तते । मेम्फिस् इत्येतन्नगरं मिसीसिपी-नद्याः घोषे स्थितम् अस्ति । कोलकाता-महानगरं हुगलीनद्याः तटे स्थितमस्ति । हुगली-नदी गङ्गायाः एव अपरं स्रोतः वर्तते [७]

बाह्यपोताश्रयः[सम्पादयतु]

एते पोताश्रयाः गहनस्य जलस्य सन्ति । एते पोताश्रयाः वास्तविकपोताश्रयेषु सुदूरे निर्मिताः भवन्ति । यानि बृहज्जलयानानि भवन्ति तानि जलयानानि पोताश्रयं प्राप्तुम् असमर्थानि भवन्ति । तानि जलयानानि बाह्यपोताश्रयान् प्राप्नुवन्ति । एथेन्स्, यूनान् इत्येतयोः पोताश्रययोः पिरेइअस् नामकः बाह्यपोताश्रयः वर्तते [८]

विशिष्टकार्याधारितानां पोताश्रयाणां प्रकाराः[सम्पादयतु]

तैलपोताश्रयः[सम्पादयतु]

एते पोताश्रयाः तैलस्य प्रक्रमणस्य, नौपरिवहनस्य च कार्यं कुर्वन्ति । तेषु पोताश्रयेषु कश्चित् टैङ्कर्-पोताश्रयः, कश्चित् तैलशोधन-पोताश्रयः च वर्तते । वेनेजुएला-देशे माराकाइबो, ट्युनिशिया-देशे एस्सखीरा, लेबनान्-देशे त्रिपोली च टैङ्कर्-पोताश्रयः अस्ति । पर्शिया-देशस्य गर्ते अबादान्-नामकः तेलशोधनपोताश्रयः वर्तते [९]

मार्गपोताश्रयः (विश्रामपोताश्रयः)[सम्पादयतु]

एते पोताश्रयाः समुद्रमार्गेषु विश्रामकेन्द्ररूपेण विकसिताः सन्ति । तत्र जलयानानि इन्धनं, जलं, खाद्यसामग्रीं च आनेतुं गच्छन्ति । समयान्तरे ते पोताश्रयाः वाणिज्यपत्तनेषु परिवर्तिताः । अदन्, हानोलूलू, सिङ्गापुर् च मार्गपोताश्रयः वर्तते [१०]

पैकेट् स्टेशन्[सम्पादयतु]

एते पोताश्रयाः फेरी-पोताश्रयः इत्यपि कथ्यते । एतैः पोताश्रयैः लघ्वन्तराले जलीयक्षेत्रं प्रति सन्देशानां, यात्रिणां च परिवहनं क्रियते [११]

आन्त्रपो-पोताश्रयः[सम्पादयतु]

एतेषु पोताश्रयेषु विभिन्नदेशेभ्यः वस्तूनि निर्याताय क्रोडीक्रियते । एशिया-महाद्वीपे सिङ्गापुर्-महानगरम् आन्त्रपो-पोताश्रयः अस्ति । यूरोप्-महाद्वीपे रोटरडम् इति नामकः आन्त्रपो-पोताश्रयः स्थितः अस्ति [१२]

नौसेनापोताश्रयः[सम्पादयतु]

एतेषां पोताश्रयाणां सामाजिकं महत्वं वर्तते । एते पोताश्रयाः युद्धजलयानेभ्यः सेवाः प्रददति । तेभ्यः जलयानेभ्यः ते पोताश्रयाः कार्यशालाः अपि प्रचालयन्ति । भारत-देशे कोच्चि, कारवाड इत्येतौ द्वौ नौसेनापोताश्रयौ स्तः [१३]

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यनुबन्धाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748. 
  2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748. 
  3. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748. 
  4. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748. 
  5. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748. 
  6. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  7. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  8. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  9. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  10. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  11. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  12. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  13. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
"https://sa.wikipedia.org/w/index.php?title=पोताश्रयः&oldid=394493" इत्यस्माद् पुनः प्राप्तिः