प्रवेशद्वारम्:संस्कृतम्/उत्तमलेखाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अग्निपुराणम्

अष्टादशपुराणेषु अन्यतमः । संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम् । स्वयं पुराणमिदं स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते । इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च । पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम् । तानि च सम्भाषणान्यग्निवसिष्ठयोः । पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः । अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते । प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम् ।

(अधिकवाचनाय »)