सामग्री पर जाएँ

प्रवेशद्वारम्:संस्कृतम्/उत्तमलेखाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

यजुर्वेदः
यजूंषि गद्यानि । अध्वर्युणा यज्ञे उपयुज्यमाना मन्त्रा एवात्र यजुर्वेदे सङ्कलिताः, यज्ञस्य वास्तविकं विधानमध्वर्युरेव करोति, अतोऽयं यजुर्वेदो यज्ञविधेरतिसन्निकृष्टं सम्बन्धं रक्षति । यजुर्वेदो द्विप्रकारकः, कृष्णयजुः शुक्लयजुश्च । पौराणिकाः कथयन्ति – व्यासो वैशम्पायनाय वेदं प्रोवाच, स स्वशिष्याय याज्ञवल्क्याय । कुतोऽपि कारणाद् रुष्टो वैशम्पायनो याज्ञवल्क्यमुवाच – देहि मदधीतं वेदमिति । याज्ञवल्क्यो गुरुवचनपालनाय ततोऽधीतं वेदं सद्योवान्तवान् । अन्ये वैशम्पायनशिष्यास्तित्तिरिरुपं धृत्वा याज्ञवल्क्येन वान्तं वेदं गृहीतवन्तः । स एवायं वान्तगृहीतो वेदः कृष्णयजुर्वेदः । वैशम्पायने कुपिते ततोऽधीतं वेदं विसृज्य याज्ञवल्क्यः पुनर्वेदाधिगतये सूर्यमाराधयामास, ततश्च वेदमापततोऽयं वेदः शुक्लयजुर्वेदनाम्नाऽप्रथत ।

(अधिकवाचनाय »)