सामग्री पर जाएँ

प्रवेशद्वारम्:संस्कृतम्/मुख्यलेखः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भगवान् बुद्धः

भारतीयदर्शनशास्त्रम्
दृष्टिभूतस्य पदार्थजातस्य ज्ञानं दर्शनं भवति । भारतवर्षे मानवसभ्यतायाः आदिमयुगे भारतीयैः मनीषिभिः न केवलं मानवीयसमस्यानाम् अपि तु जडजगतः गूढातिगूढानां रहस्यानां प्रकाशनं स्वकीयया क्रान्तप्रज्ञया कृतम् । ते भारतीया मनीषिणः ऋषयो बभूवुः । ते वेदानामपि साक्षाद् दर्शनं कृतवन्तः । अत एव ‘ऋषयो मन्त्रद्रष्टारः’ इत्युच्यते स्म । मन्त्रद्रष्टृणां पुरतो लोकस्य दृष्टिभूतानां बाह्यपदार्थानां विषये ज्ञानस्य प्राप्तिः कथं भवेत् इति जिज्ञासा वर्तते स्म ।

(अधिकवाचनाय »)