प्रवेशद्वारम्:संस्कृतम्/मुख्यलेखः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
श्रीकृष्णः

श्रीमद्भागवतमहापुराणम् हिन्दूधर्मस्य अनुयायिनाम् अष्टादशपुराणेषु अन्यतमम्। एतत् पुराणं श्रीमद्भागवतम् अथवा केवलं "भागवतम्" च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः भक्ति योगः अस्ति। पुराणे कृष्णं सर्वेषां देवानां देव: इति वा स्वयं भगवान् इति रूपेण वा चित्रितवन्त: सन्ति। एतत् अतिरिच्य अस्मिन् पुराणे रसभावं भक्तिनिरूपणञ्च कृतवन्त: सन्ति, परम्परागतरुपेण एतस्य पुराणस्य रचयिता व्यासः । श्रीमद्भागवतम् भारतीयवाङ्मयस्य मुकुटमणिः इव अस्ति। भगवता शुकदेवेन महाराज्ञे परीक्षिताय उक्तस्य भक्तिमार्गस्य वर्णनं अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येकं श्लोक: श्रीकृष्णप्रेम्णा सुगन्धित: अस्ति। साधन-ज्ञानं, सिद्धज्ञानं, साधन-भक्तिः, सिद्धा-भक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैतसमन्वयेन सह प्रेरणादायीनि विविधानि उपाख्यानानि अद्भुतप्रकारेण सङ्गृहीतानि सन्ति।

(अधिकवाचनाय »)