प्रेमचन्दः
Munshi Premchand | |
---|---|
जननम् |
Dhanpat Rai Srivastav ३१ १८८० Lamhi, North-Western Provinces, British India |
मरणम् |
स्क्रिप्ट त्रुटि: "death_date_and_age" फंक्शन मौजूद नहीं है। Varanasi, United Provinces, British India |
वृत्तिः | Writer, Novelist |
भाषा | Hindustani (Hindi-Urdu) |
राष्ट्रीयता | British Indian |
प्रमुखकृतयः | Godaan, Bazaar-e-Husn, Karmabhoomi, Shatranj ke khiladi |
पतिः/पत्नी | Shivarani Devi |
शिशवः | Sripath Rai, Amrit Rai, Kamala Devi |
| |
हस्ताक्षरम् |
मुंशी-प्रेमचन्दः (जुलायि 31, 1880 – अक्टू. 8, 1936) तु आधुनिकहिन्दी-उर्दु-साहित्ययोः प्रख्यातः लेखकः आसीत्। स तु
भारते व्यापकतया एव विंशतितमस्य शताब्दस्य हिन्दी-उर्दुयोः अग्र्यः लेखकः गण्यते।[१] अयं ह्येकः उपन्यासलेखकः, कथालेखकः, नाटककारश्चासीत्। अस्य तु उपन्याससम्राट् इत्यभिधानं प्रसिद्धम्।
जीवनम्
[सम्पादयतु]प्रेमचन्दस्तु जुलायिमासस्य 31 तमायां 1880 तमे क्रि.वर्षे वाराणसीनिकटे लमहीनाम्नि ग्रामे अजायत। अस्य पिता मुंशी-अजायबलालः प्रेषविभागे लिपिक आसीत्। तस्य पितरौ तस्य धनपतराय (अर्थात् धनस्य स्वामी) इति नामकरणमकुरुताम्। तस्य पितृव्यः सम्पन्नः भूपतिः कश्चित् महाबीराख्यः तं नवाब् इति नाम अददत्। अयं खलु प्रेमचन्दस्य प्रथमतया चितः साहित्यिकाभिधानमभूत्।[२] तस्य प्रारम्भिकी शिक्षा स्थानीये एकस्मिन् मदरसा इति पाठशालायां अभवत्। तत्र स उर्दुभाषां पठितवान्।[३] प्रेमचन्दस्य पितरौ तस्याल्पायुषि एव परलोकं गतवन्तौ।
साहित्यिक-कृतयः
[सम्पादयतु]प्रेमचन्दः त्रिशताधिकानि लघुकथाः लिखितवान् अपि च चतुर्दश उपन्यासाः रचितवान्। बहवस्तस्य निबन्धाः, पत्राणि, नाटकानि अनुवादाश्च सन्ति। प्रेमचन्दस्य बह्वः कृतयः आङ्ग्लभाषायां रूसीयभाषायां च अनूदिताः सन्ति।
तस्य अन्तिम उपन्यासः गोदान इत्ययं हिन्दीभाषायाः उत्कृष्टतमः उपन्यासः परिगण्यते।[४] तस्य प्रमुखपात्रः होरी इत्ययं दरिद्रकृषकः। स तु उत्कण्ठितः एकां धेनुमवाप्तुम्। यस्मात् सा ग्रामीणे भारते सम्पत्त्याः प्रतिष्ठायाश्च प्रतिमानम्।
कफ़न् इत्यस्मिन् एकः अकिञ्चनजनः तस्य मृतायाः भार्यायाः अन्तिमसंस्कारं कर्तुं धनं एकत्रीकरोति, परन्तु तद्धनं भोजनपानयोः व्यययति।
ग्रन्थाः
[सम्पादयतु]- कफन (लघु कथा)
- गोदान
- सेवासदन
- निर्मला
- कर्मभूमि
- मनोरमा
- प्रेमाश्रम
- गबन
- मानसरोवर
- रंगभूमि
सन्दर्भाः
[सम्पादयतु]- ↑ Munshi Premchand of Lamhi Village, Robert O. Swan, Duke University Press, 1969
- ↑ Premchand: A Life, Amrit Rai (Harish Tirvedi, translator), People's Publishing House, New Delhi, 1982.
- ↑ "Literaryindia.com". Archived from the original on 2013-10-03. आह्रियत 2011-12-29.
- ↑ "Finest Hindi Novel". Archived from the original on 2008-03-13. आह्रियत 2011-12-29.
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Premchand's novels as Free PDFs at www.hindustanbooks.com
- Premchand's complete work in Gadya Kosh
- Collection of Stories in PDF Format – IIT Kanpur Initiative
- प्रेमचन्दः at the Internet Movie Database
- Premchand Ghar mein Archived २०१३-०६-१९ at the Wayback Machine, a biography by Premchand's wife Shiva Rani Devi (in Hindi)