वङ्किमचन्द्रः चट्टोपाध्यायः
| वङ्किमचन्द्रः चट्टोपाध्यायः বঙ্কিমচন্দ্র চট্টোপাধ্যায় | |
|---|---|
|
वङ्किमचन्द्रः चट्टोपाध्यायः | |
| जननम् |
२७ जून् १८३८ नैहाटी, पश्चिमवङ्गराज्यम्, भारतम् |
| मरणम् |
८ एप्रिल् १८९४ (आयुः ५५ वर्षाणि) कोलकाता, पश्चिमवङ्गराज्यम्, भारतम् |
| वृत्तिः | प्रशासकः, लेखकः, व्याख्याता |
| राष्ट्रीयता | भारतीयः |
| परम्परा | वङ्गीयः |
| उच्चशिक्षा | कोलकाता-विश्वविद्यालयः |
| प्रकारः | कविः, औपन्यासिकः, गद्यकारः, सम्पादकः |
| विषयाः | साहित्यम् |
| साहित्यकान्दोलनम् | वङ्गपुनर्जागरणम् |
| प्रमुखकृतयः | आनन्दमठस्य रचयिता, यस्मिन् भारतस्य राष्ट्रियगीतम् वन्दे मातरम् अस्ति । |
| ध्वजः | त्रिरङ्गः |
| चिह्नम् | सिंहचतुर्मुखम् |
| पञ्चाङ्गम् | शकपञ्चाङ्गम् |
| राष्ट्रगानम् | जन गण मन |
| राष्ट्रगीतम् | वन्दे मातरम् |
| पुष्पम् | कमलम् |
| फलम् | आम्रम् |
| नदी | गङ्गा |
| वृक्षः | वटवृक्षः |
| पशुः | व्याघ्रः |
| जलचरप्राणी | गङ्गानद्याः डोल्फिन् |
| कविः | रवीन्द्रनाथ ठाकुर बङ्किमचन्द्र चट्टोपाध्याय |
| पक्षी | मयूरः |
| नाणकचिह्नम् | |
वङ्किमचन्द्रः चट्टोपाध्यायः ( वङ्गभाषायाम्: বঙ্কিমচন্দ্র চট্টোপাধ্যায় ; रोमन-लिप्याम्: Bongkim Chôndro Chôţţopaddhae , देवनागर्यां वङ्ग्योच्चारणम्: बोङ्किम् चॉन्द्रो चॉट्टोपाद्धाए )[१](२७ जून्, १८३८[२]- ८ एप्रिल्, १८९४[३]) एकोनविंशति-शताब्द्याः महान् वङ्गीयः साहित्यकारः सम्पादकश्च आसीत्। वङ्गीयगद्यस्य उपन्याससाहित्यस्य च सम्यग्विकासे अस्यासीमम् अवदानमस्ति। वङ्किमचन्द्रः सामान्यतो वङ्गसाहित्यस्य इतिहास प्रथमौपन्यासिकत्वेन विश्रुतः। केवलम् एतावदेव न, अपि तु भगवद्गीतायाः सुयोग्यः व्याख्याता साहित्यसमालोचकश्चेत्यपि अस्य महती ख्यातिरस्ति। स वृत्त्या आङ्ग्लशासनस्य उच्चकर्मचारी आसीत्। वङ्गभाषायाः प्रथमस्य साहित्यपत्रस्य 'वङ्गदर्शन'नाम्नः पत्रिकायाः आदिसम्पादकश्चासीत् एषः। अस्य छद्मनाम कमलाकान्तः इत्यासीत्।[४] एतदतिरिक्तम्, सः वङ्गीयसाहित्यक्षेत्रे 'साहित्यसम्राट्' इति रूपेण विख्यातः।
जीवनम्
[सम्पादयतु]जन्म वंशपरिचयश्च
[सम्पादयतु]बङ्किमचन्द्रस्य जन्म( २७ जून, १८३८ क्रैस्ताब्दः/१३ आषाढ १२४५ बङ्गाब्दः ) नैहाटीनगरस्य निकटस्थे कांठालपाडाग्रामे अभवत् । वस्तुतः तस्य वंशस्य आदिनिवासः हुगलिमण्डलस्य देशमुखोग्रामे आसीत् । बङ्किमचन्द्रस्य प्रपितामहः रामहरि चट्टोपाध्याय महोदयः मातामहस्य सम्पत्तिं प्राप्य कांठालपाडाग्रामं गतवान् आसीत् । अन्ततरं तत्रैव वसवासम् अकरोत् । रामहरि महोदयस्य पौत्रः आसीत् यादवचन्द्र चट्टोपाध्यायः । तस्य तृतीयपुत्रः बङ्किमचन्द्रः आसीत् । बङ्किमचन्द्रस्य श्यामाचरण तथा सञ्जीवचन्द्र इति द्वौ अग्रजौ आस्ताम् । बङ्किमस्य जन्मकाले पितुः यादवचन्द्रस्य सह-मण्डलशासकरूपेण पदोन्नतिः जाता आसीत् ।
शिक्षा
[सम्पादयतु]शैशवकालं बङ्किमचन्द्रः कांटापाडा”ग्रामैव यापितवान् . पञ्च वयसि कुलपुरोहितेन विश्वम्भर भट्टाचार्येण জন্মের পর तस्य विद्यारम्भः जातः . अत्यल्पैव वयसि तस्य मेधा सर्वैः ज्ञाता . बङ्किमचन्द्रस्य कणिष्ठः सहोदरः पूर्णचन्द्र चट्टोपाध्यायः लिखितवान्- “শুনিয়াছি বঙ্কিমচন্দ্র একদিনে বাংলা বর্ণমালা আয়ত্ত করিয়াছিলেন।”(भाषानुवादः- श्रुतञ्च, बङ्किमचन्द्रेण बाङ्ग्लावर्णमाला आयत्ती कृता आसीत्)[५][६]
साहित्यक्षेत्रे अवदानम्
[सम्पादयतु]ग्रन्थावली
[सम्पादयतु]|
उपन्यासाः |
(इन्दिरा,युगलाङ्गुरीय ও राधाराणी त्रयी संग्रहः)
प्रवन्धाः
|
विविधाः
(कतिचन कविताः, ललिता मानस) सम्पादितग्रन्थाः
|
टिप्पणी
[सम्पादयतु]- ↑ (Chattopadhyay in the original Bengali; Chattopadhyay or Chatterji as spelt by the British)
- ↑ "History & Heritage". Archived from the original on 2017-11-01. आह्रियत 2014-07-26.
- ↑ Merriam-Webster, Inc (1995). Merriam-Webster's Encyclopedia of Literature. Merriam-Webster. pp. 231–. ISBN 978-0-87779-042-6. आह्रियत 24 June 2012.
- ↑ मासिक कारेन्ट् वर्ल्ड्, मै २०११, पृ. ३३; परिदर्शनस्य दिनाङ्कः-२६ मै २०११ क्रैस्ताब्दः
- ↑ प्रबन्ध- बङ्किमचन्द्रेर् बाल्यशिक्षा, पूर्णचन्द्र चट्टोपाध्यायः ,बङ्किम-प्रसङ्ग ग्रन्थः, सुरेशचन्द्र समाजपतिना सम्पादितः
- ↑ बङ्किमचन्द्रजीवनी, अमित्रसूदन भट्टाचार्य, आनन्द पाब्लिशार्स् प्रैवेट् लिमिटेड् , कोलकाता ,१९९१,पृ २५ तः उद्धृतः
बाह्यसम्पर्काः
[सम्पादयतु]- Calcuttaweb.com-बङ्किमचन्द्रस्य जीवनी Archived २००९-०४-२७ at the Wayback Machine