बाङ्ग्लादेशस्य स्वतन्त्रतासङ्ग्रामः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
(दाहिने, सबसे नीचे) भारतीय जनरल जगजीत सिंह के सामने पाकिस्थानदेश के जनरल नियाजी आत्मसपर्पण करते हुए[१]

बाङ्ग्लादेशस्य स्वतन्त्रतासङ्ग्रामः १९७१ वर्षे जातः आसीत्, एतस्य अपरं नाम 'मुक्तिसङ्ग्रामः' अपि विद्यते। एतत् युद्धं १९७१ मध्ये २५ मार्च-तः १६ दिसम्बर-मासं यावत् प्रचलितम् आसीत्।एतस्य रक्तरञ्जितस्य युद्धस्य माध्यमेन बाङ्ग्लादेशः पाकिस्थानदेशात् स्वाधीनतां प्राप्तवान्। १६ दिसम्बर १९७१ दिनाङ्के बाङ्ग्लादेशस्य निर्माणम् अभवत्। भारतस्य पाकिस्थानदेशे एतस्य ऐतिहासिक-विजयस्य उपलक्ष्ये विजयदिवसस्य आचरणं भवति। पाकिस्थानदेशे एषः विजयः अतीव महत्त्वपूर्णः आसीत्। भारतं ९३ सहस्रं यावत् पाकिस्थानदेशस्य सैनिकान् आत्मसमर्पणाय विवशम् अकरोत्।

१९७१ तः पूर्वं बाङ्ग्ला-देशः पाकिस्थानदेशस्य प्रान्तः आसीत्। सः 'पूर्वीयपाकिस्थानदेशः' इति प्रसिद्धः आसीत्। अपरत्र वर्तमानपाकिस्थानदेशः पश्चिमीयपाकिस्थानदेशः इति प्रसिद्धः आसीत्। अनेकेषां वर्षाणां सङ्घर्षोत्तरं पाकिस्थानदेशस्य सेनायाः अत्याचारत्वात् बाङ्ग्लाभाषिणां दमनस्य विरोधे सति पूर्वीयपाकिस्थानदेशस्य जनाः महान्दोलनम् आरब्धवन्तः। १९७१ वर्षे स्वतन्त्रतायाः आन्दोलनस्य दमनं कर्तुं पाकिस्थानदेशीया सेना पूर्वीयपाकिस्थानदेशस्य विद्रोहिषु अमानवीयान् अत्याचारान् अकरोत्। अनुमानानुसारं लक्षशः जनाः पाकिस्थानसेनया हताः, अगणितानां महिलानां बलात्कारः जातः च।[२]

भारतं प्रतिविशिधर्मस्य पालनाय बाङ्ग्लाजनेषु जायमानस्य अत्याचारस्य विरोधम् अकरोत्, क्रान्तिकारिणां साहाय्यम् अकरोच्च। तस्य परिणामत्वेन भारतस्य, पाकिस्थानदेशस्य च मध्ये अतीव कठोरं युद्धम् अभवत्। एतस्मिन् युद्धे भारतं पाकिस्थानदेशम् आत्मसमर्पणाय। अनेन सह एव दक्षिण-एशिया-भागे नवीनस्य देशस्य उदयः जातः।

पृष्ठभूमिः[सम्पादयतु]

१४ अगस्त १९४७ दिनाङ्के धर्माधारितस्य स्वतन्त्र-पाकिस्थानदेशस्य निर्माणम् अभवत्। तत्कालीनस्य पाकिस्थानदेशस्य भागद्वयम् आसीत्। पू्र्वीयभागः, पश्चिमीयभागः च। पाकिस्थानदेशः अपि द्वयोः भागयोः सामाजिकतया, आर्थिकताय, शैक्षिणकतया च विभिक्तः आसीत्। उभयोः भागयोः संस्कृतौ साम्यतायाः अभावः आसीत्। संसाधनानाम् अनुसारं पूर्वीयपाकिस्थानभागः अधिकः समृद्धः आसीत्, परन्तु राजनीतिकरूपेण पश्चिमीयपाकिस्थानभागः अधिकः प्रखरः, आक्रामकः च आसीत्। एवं प्रकारेण एकस्मिन्नेव देशे भागद्वये प्राप्यमाणा सामाजिकी, आर्थिकी च विषमता, प्रबुद्धजनैः सत्तायाः उपरनियन्त्रणस्य प्रवृतिः एव देशव्यापिणः असन्तोषस्य कारणभूता आसीत्। अन्ते १९७१ मध्ये बाङ्ग्लादेशस्य निर्माणस्य आवश्यकता व्याप्ता।

पाकिस्थानदेशस्य निर्माणसमये पश्चिमीयक्षेत्रे पञ्जाबी, सिन्धी, पठान, बलोच, मुजाहिर इत्येतेषाम् अतीव विशालसङ्ख्या आसीत्। परन्तु पूर्वभागे बङ्गालीभाषायाः वक्तॄणां बहुमती आसीत्। परन्तु पूर्वभागे राजनैतिकचेतनायाः कदापि न्यूनता नासीत्, तथापि पूर्वीयभागः देशस्य सत्तायां न कदाऽपि उचितं प्रतिनिधित्वं प्राप्तुं शक्तवान्। एवं सर्वदा राजनीतिकरूपेण उपेक्षितः भागः आसीत् सः। अनेन पूर्वीयपाकिस्थानदेशस्य जनेषु महासन्तोषः जागृतः जातः। तस्य असन्तोषस्य कारणेन राजनैतिकलाभं स्वीकर्तुं बाङ्ग्लादेशस्य नेता शेख-मुजीब-उर-रहमान-महाशयः 'अवामी लीग'सङ्घटनस्य निर्माणम् अकरोत्। पाकिस्थानदेशस्य अन्तः एव स्वायत्ततायाः याजना आरब्धा। १९७० वर्षे सामान्यनिर्वाचने पूर्वीयक्षेत्रे शेख-महाशयस्य पक्षः अतीव उत्कृष्टतया विजयं प्राप्तवान्। तस्य पक्षः संसदि बहुमतम् अपि प्रापत्। परन्तु तस्मै प्रधानमन्त्रिपदं दानापेक्षया सः कारागारे क्षिप्तः। तस्य कारागारे निबन्धनम् एव पाकिस्थानस्य भागद्वये विभाजनस्य ज्वालायां घृतस्य कार्यम् अकरोत्।

१९७१ मध्ये पाकिस्थानदेशे याह्या-खान-महाशयः राष्ट्रपतिः आसीत्। सः पूर्वीयभागे उद्भूतस्य असन्तोषस्य निराकरणस्य दायित्वं टिक्का-खान-महाशयाय अयच्छत्। परन्तु टिक्का-द्वारा बलपूर्वकं स्थितेः समाधानस्य प्रयासः जातः, तेन सम्पूर्णा स्थितिः पाकिस्थानप्रशासनस्य हस्तात् अपसृता। २५ मार्च १९७१ दिनाङ्के पाकिस्थानदेशस्य एतस्मिन् भागे सेना, आरक्षकाः च नरसंहारम् अकुर्वन्। अनेन पाकिस्थानदेशस्य सेनायां कार्यरतेषु पूर्वीयक्षेत्रस्य निवासिषु अतीव रोषः समुद्भूतः। अतः ते स्वप्रदेशस्य स्तवन्त्रतायै मुक्तिवाहिन्याः निर्माणम् अकुर्वन्। पाकिस्थानदेशीयाः सेनायाः निरपराधिषु, शस्त्रविहीनेषु च जनेषु अत्याचारः दीर्घकालं यावत् अचलत्, यत्र अनेके जनाः पलायनम् आरब्धवन्तः। पलायनं कृत्वा आश्रयं स्वीकर्तुं जनाः भारतम् आगच्छन्ति स्म। तेन भारतम् अन्तर्राष्ट्रिय-समुदायाय अविरतं निवेदनम् अकरोत् यत्, पूर्वीयपाकिस्थानदेशस्य स्थितौ परिष्कारः आवश्यकः अस्ति इति। परन्तु कोऽपि देशः भारतस्य वचनेषु ध्यानं नायच्छत्। अन्ते बाङ्ग्लादेशात् विस्थापिताः सततं भारतम् आगच्छन्ति स्म, अतः अप्रैल १९७१ मध्ये तत्कालीन-प्रधानमन्त्री इन्दिरा गांधी ने मुक्तिवाहिन्यै समर्थनं दत्त्वा बाङ्ग्लादेशं स्वतन्त्रं कर्तुं निर्णयम् अकरोत्।

बाङ्ग्लाजनानां दयनीया स्थितिः[सम्पादयतु]

बाङ्ग्लादेशस्य निर्माणात् पूर्वं पूर्वीयपाकिस्थानदेशे पाकिस्थानदेशीयसेना स्थानीयनेतृृणां, धार्मिकचरमपन्थिनां च साहाय्येन मानवाधिकाराणां हननम् अकरोत्। २५ मार्च १९७१ दिनाङ्के आरब्धे 'ऑपरेशन सर्च लाइट'-अभियाने बाङ्ग्लादेशस्य स्वतन्त्रतायाः युद्धम् आरब्धम्। स्वतन्त्रतायाः आन्दोलनकाले पूर्वीयपाकिस्थानदेशे अतीव हिंसा जाता। बाङ्ग्लादेश-सर्वकारस्य अनुसारं तस्मिन् कालखण्डे ३० लक्षं यावत् जनाः मृताः। परन्तु पाकिस्थानदेशस्य सर्वकारद्वारा निर्मितेन हमूदूर-रहमान-आयोगस्य अनुसारं तस्मिन् कालखण्डे केवलं २६ सहस्रं जनाः एव मृताः।[३][४][५][६][७]

सामूहिकं कब्र-स्थानम्[सम्पादयतु]

पाकिस्थानदेशस्य सेनायाः सङ्केतानुसारं रजाकर, अल शम्स, अल बद्र इत्येते तत्कालीने पूर्वीयपाकिस्थानदेशे विद्यमानानां बङ्गालीभाषिणाम् अल्पसङ्ख्यकानां, बङ्गालीभाषि-मुस्लिमजनानां च उपरि अत्याचाराय पूर्णतया मानवाधिकाराणाम् उल्लङ्घनं कृतम्। तैः कृतानाम् अमानवीय-अत्याचाराणां प्रमाणम् अद्यापि बाङ्ग्लादेशे सामुहिक-कब्र-स्थानरूपेण प्राप्यते।

१९७१ मध्ये बाङ्ग्लादेशे बहुत्र नरसंहारोत्तरं सामूहिककब्र-स्थानस्य निर्माणम् अभवत्। तेषां स्थानानां ज्ञानं समयान्तरे जातम्। १९९९ मध्ये ढाका-मस्जिद-स्थलस्य पार्श्वे विशाल-कब्रस्थानस्य ज्ञानम् अभवत्। बङ्गाली-भाषिणां विरुद्धं कृतस्य अत्याचारस्य ज्ञानं ढाका-महानगरे विद्यमानात् अमेरिकी-वाणिज्यिक-दूतावासात् प्रएषित-टेलीग्राम-सन्देशात् प्राप्यते। तस्य टेलीग्राम-सन्देशस्य अनुसारं बङ्गालीभाषिणां विरुद्धं युद्धस्य प्रथमरात्रौ ढाका-विश्वविद्यालये छात्राणां, सामान्यजनानां च सामूहिकतया नरसंहारः जातः आसीत्। तस्य नरसंहारस्य कारणेन जनेषु उद्वेगस्य आशङ्का आसीत्, अतः सामूहिक-कब्र-स्थानस्य गुप्ततया निर्माणं जातम्। गृहात् निष्कास्य जनाः मारिताः।

लक्षशः महिलानां बलात्कारः जातः[सम्पादयतु]

१९७१ मध्ये पूर्वीयपाकिस्थानदेशे लक्षशः महिलाभिः सह बलात्कारः जातः। तासु अत्याचारोत्तरं तासाम् हत्या अपि कृता। कस्यचित् अनुमानस्य अनुसारं कदाचित् चतुर्लक्ष-महिलाभिः सह यौनशोषणं जातम्। यौनशोषणे अपि अमानवीयतायाः सर्वसीमाः अतिक्रमिताः। एकवारं बलात्कारं कृत्वा महिलाः सैनिकानां शिबिरेषु सम्भोगसाधनत्वेन बिन्दिन्यः भवन्ति स्म। प्रतिदिनं तासु सामूहिकबलात्कारः भवति स्म। ५६३ बङ्गाली-महिलाः कैंट-क्षेत्रे युद्धबन्दित्वेन स्थापिताः आसन्। ताभिः महिलाभिः सह पाकिस्थानदेशीयायाः सेनायाः सैनिकाः पौनःपुन्येन बलात्कारं कुर्वन्ति स्म। पाकिस्थानस्य अत्यारात् स्वरक्षां कर्तुं 10 लक्षं यावत् जनाः भारतम् आगताः। अन्यानुमानानुसारं तस्मिन् कालखण्डे आहत्य ८० लक्षजनाः भारतसीमायाः प्रदेशेषु स्वाश्रयं स्थापितवन्तः। अतः तेषाम् आश्रितानां साहाय्याय भारतम् आन्दोलने साहाय्यम् अकरोत्।

मुक्तिवाहिनी[सम्पादयतु]

बाङ्ग्लादेशस्य स्वतन्त्रतायाः युद्धकाले मुक्तिवाहिन्याः निर्माणं पाकिस्थानदेशस्य सेनायाः अत्याचारस्य विरोधाय कृतम् आसीत्।[८] १९६९ मध्ये पाकिस्थानदेशस्य तत्कालीन-सैनिक-शासकः अयूब-महाशयस्य विरुद्धं पूर्वीयपाकिस्थानदेशे असन्तोषः वर्धमानः आसीत्। बाङ्ग्लादेशस्य संस्थापकः नेता शेख-मुजीबुर-रहमान-महाशयः आन्दोलनकाले १९७० मध्ये चरम् अन्वभवत्। मुक्तिवाहिनी आक्रमकसङ्घटनम् आसीत्, यत् पाकिस्थानदेशस्य सेनायाः विरुद्धं गुरिल्ला-युद्धं करोति स्म। मुक्तिवाहिन्याः समर्थनं भारतीयसेना करोति स्म।

'बंगबंधु' शेख मुजीब-उर-हमान[सम्पादयतु]

बाङ्ग्लादेशस्य संस्थापकः नेता शेख-मुजीब-उर-रहमान-महाशयः बाङ्ग्लादेशस्य स्वतन्त्रतायै सङ्घर्षम् अकरोत्। बाङ्ग्लादेशस्य राष्ट्रपिता इति मन्यमानस्य शेख-मुजीब-महोदयस्य 'बंगबंधु' इति उपाधिः वर्तते। 'आवामी लीग'-संस्थायाः नेता शेख-मुजीब-बाङ्ग्लादेशस्य प्रथमः राष्ट्रपतिः, प्रधानमन्त्री च अभवत्। परन्तु, १९७५ मध्ये एव सर्वकारीये आवासे एव सेनायाः कैश्चन कनिष्ठ-अधिकारिभिः, अवामी-लीग-संस्थायाः सदस्यैः च मिलित्वा शेख-मुजीब-उर-रहमान-महाशयस्य हत्या कृता। तस्मिन् समये तस्य उभे पुत्र्यौ शेख-हसीना-वाजेद, शेख-रेहाना च जर्मनी-देशस्य यात्रायाम् आस्ताम्।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यपरिसन्धयः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Instrument of Surrender of Pakistan forces in Dacca". www.mea.gov.in. "The Pakistan Eastern Command agree to surrender all Pakistan Armed Forces in Bangladesh to Lieutenant General Jagjit Singh Aurora, General Officer Commanding-in –chief of the Indian and Bangladesh forces in the eastern theatre." 
  2. https://www.gaonconnection.com/duniya/in-pictures-bangladesh-war-of-independence-in-1971
  3. Schneider, B.; Post, J.; Kindt, M. (2009) (in en). The World's Most Threatening Terrorist Networks and Criminal Gangs. Springer. p. 57. ISBN 9780230623293. https://books.google.com/books?id=LQHIAAAAQBAJ&pg=PA57#v=onepage. 
  4. Kalia, Ravi (2012) (in en). Pakistan: From the Rhetoric of Democracy to the Rise of Militancy. Routledge. p. 168. ISBN 9781136516412. https://books.google.com/books?id=NsrfCgAAQBAJ&pg=PA168#v=onepage. 
  5. Pg 600. Schmid, Alex, ed. (2011). The Routledge Handbook of Terrorism Research. Routledge. फलकम्:ISBN.
  6. Pg. 240 Tomsen, Peter (2011). The Wars of Afghanistan: Messianic Terrorism, Tribal Conflicts, and the Failures of Great Powers. Public Affairs. फलकम्:ISBN.
  7. Roy, Dr Kaushik; Gates, Professor Scott (2014) (in en). Unconventional Warfare in South Asia: Shadow Warriors and Counterinsurgency. Ashgate Publishing, Ltd.. ISBN 9781472405791. https://books.google.com/books?id=PdrcAgAAQBAJ. 
  8. Historical Dictionary of Bangladesh, Page 289