बारामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


राजस्थानराज्ये बारामण्डलम्

बारामण्डलं (हिन्दी: बाराँ जिला, आङ्ग्ल: Baran district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बारानामकं नगरम् ।

भौगोलिकम्[सम्पादयतु]

बारामण्डलस्य विस्तारः ६९९२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे मध्यप्रदेशराज्यं, पश्चिमे कोटामण्डलम्, उत्तरे मध्यप्रदेशराज्यं, दक्षिणे झालावाडमण्डलम् अस्ति । अस्मिन् मण्डले ८९५.२ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः - काली सिन्ध्, पार्वती, पडवन्, अन्धेरी, बाणगङ्गा च ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं बारामण्डलस्य जनसङ्ख्या १२,२३,९२१ अस्ति (६,३५,४९५ पुरुषाः, ५,८८,४२६ महिलाश्च) । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७५ जनाः । अत्र पुं-स्त्री अनुपातः १०००-९२६ अस्ति ।

उपमण्डलानि[सम्पादयतु]

  • अन्तः
  • अत्रु
  • बारा
  • छबरा
  • छिपबरोद
  • खेरलीगञ्ज
  • माङ्गरोल

वीक्षणीयस्थलानि[सम्पादयतु]

  • शाहबाद-दुर्गः
  • नगरकोट-माताजी
  • सीता-बाडी
  • शेरगढ-दुर्गः
  • नहरगढ-दुर्गः
  • भनवरगढ-दुर्गः
  • बिलासगढ
  • भण्ड-देवरा
  • रामगढ-माताजी
  • कपिलधारा
  • काकोनी
  • सौरसन
  • शनिधाम
  • श्रीजी-मन्दिरम्
  • ताड का बालाजी, साकेतधाम
  • मणिहरमहादेवः
  • प्यारेरामजी-मन्दिरम्

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बारामण्डलम्&oldid=464740" इत्यस्माद् प्रतिप्राप्तम्