भट्टिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भट्टि इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

भट्टिः कश्चन संस्कृतकविः वर्तते । महावैय्याकरणः आलङ्कारिकः कविश्च भट्टिः । वलभीपुरम् एतस्य जन्मस्थानम् । वलभ्याः राज्ञः श्रीधरसेनस्य आश्रये आसीदिति तस्य काव्यान्ते विद्यमानात् इति वलभीवास्तव्यस्य श्रीस्वामिसूनोर्भट्टमहाब्राह्मणस्य महावैय्याकरणस्य कृतौ... इति वाक्यात् अपि च -

काव्यमिदं विहितं मया वलभ्याम्, श्रीधरसेननरेन्द्रपालितायाम् ।
कीर्तिरतो भवतात् नृपस्य तस्य, प्रेमकरः क्षितिपो यतः प्रजानाम् ॥

इति श्लोकात् अवगम्यते । अस्य भट्टिस्वामिन् ,भर्तृ इति नामान्तराणि सन्ति । एतस्य पितुः नाम श्रीस्वामिन् इति । श्रीधरः स्वामी यस्य इति बहुव्रीह्यर्थे एतम् "श्रीधरस्वामिन्" इत्यपि केचन आह्वयन्ति ।

देशः, कालश्च[सम्पादयतु]

शास्त्रकाव्यस्य प्रणेतृषु भट्टिद्वतीयः कविर्महाकाव्यस्य निर्मातृषु ज्ञातेषु चतुर्थः । तस्य हि रावणवधं नाम महाकाव्यं प्रसिद्धम् । भट्टरैतिह्यं नाद्यापि सम्प्रज्ञातं तेन तद्विषये विद्वांसः अनुमानमेवाश्रन्ते । सः रावणवधस्य द्वाविंशतिसर्गस्य पुष्पिकावाक्ये कथयति -

काव्यमिदं विहितं मया बलभ्यां श्रीधरसेननरेन्द्रपालितायाम् ।

कीर्तिरतो भवतान्नृपस्य तस्य क्षेमकरः क्षितिपो यतः प्रजानाम्।।३५॥ इति ।

अनेनैतावत्तु मन्यते यत्, भट्टिः सौराष्ट्रस्य वलभीनगर्या शासति श्रीधरसेनाऽऽख्ये नृपे काव्यमिदं प्रणीतवानिति । वलभ्यां हि श्रीधरसेनारख्या श्चत्वारो राजानः आसन्निति पुरावृत्तविदो वदन्ति । तेषु हि प्रथमः ५५९ मितवैक्रमाब्दमभितः आसीत्, द्वितीयश्च ३६७ मितवैक्रमाब्दमभितो यदा चतुर्थः ६९८ मितवैक्रपाब्दमभितः । कथ्यते हि द्वितीयस्य श्रीधरसेनस्य समये भट्टिः स्थितिमानासीत् । तस्य एकस्मिन् शिलालेखे ६६७ मितवैक्रमाब्दोट्टङ्किते भट्टिसंज्ञकब्राह्मणाय भूमिदानविवरणमुल्लिखितं दृश्यते । तेन हि भट्टेरपि स एव स्थितिकालो विक्रमस्य सप्तमशतकमितः ।

भट्टिमधिकृत्य समालोचकाः नैकमयं भजन्ते । केचन वाक्यपदीयस्य कर्तुः शतकत्रयस्य प्रणेतुः भट्टेः च एक्यमिच्छन्ति । तेषां मते हि भट्टिशब्दो भतृहरिशब्दस्यापभ्रंश एव नान्यः । अपरेषां मते तु अन्य एव वाक्यपदीयकारश्चान्य एव शतकत्रयस्य कर्ता । ततोऽपिभिन्नो भट्टिः । अष्टाध्याय्या भागवृत्तिकर्ता महाभाष्यस्य व्याख्याता भर्तृहरिश्चान्य एवेति । भागवृत्तौ भट्टिकाव्यं दूषणाय औद्धृयत इति भट्टिकवेः भागवृत्तिकारस्य चैक्यं तु काल्पनिकमेव। तस्य च वाक्यपदीयकारेण सहैक्यमपि न समीचीनं मन्यते। यदि तथा वाक्यपदीयेऽपि श्रीधरसेनः स्मृतः स्यात् । यथार्थसत्यं तु गुहायां निहितम् । अतः सामान्यतो भट्टिं भर्तृहरेः पृथगेव व्यक्तित्वं मंन्यते।

भट्टिकविसमये प्राकृतसाहित्यं संस्कृतसाहित्यापेक्षया समधिकं समुन्नतमासीत् । व्याकरणस्य सारल्येन जनानामभिरुचिः प्राकृतं प्रत्याकर्षिताऽऽसीत्तदानीम् । न कोऽपि जनः पाणिनीयं शास्त्रमधिकर्तुः परायणः आसीत् । तेनैव व्याकरणविचक्षणेन भट्टिकविना व्याकरण-सम्बद्धानां नियमानां सरलतमेनोपायेन शिक्षणाय काव्यमिदं प्रणीतं यतः सुकुमारमतीनामपि तत्र प्रवेशः सुकरो भवेदिति।

विविधविवादाः[सम्पादयतु]

पद्यमिदमादाय समालोचका भामहीयं -

काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत् ।

उत्सवः सुधियामेव हन्त दुर्मेधसो हताः ।।

इति पद्यं भट्टेरनुकृतौ गुम्फितमिति वदन्ति । अन्येषां तु का कथा द्विजेन्द्रनाथोऽपि तथैव मन्यते । यथाऽऽह सः "इति भट्टिकाव्यादुद्धृतेन पद्येन सुतरां व्यज्यते यद् भामहात्पूर्वकालभव एव भट्टिरासीदिति।"[१] एवमेव हंसराजोऽपि चिन्तयति।[२] एवमेव कपिलोऽपि ।[३] किन्तु विश्वनाथोऽत्र विप्रतिपद्यते । तदनुसारेण व्याख्यागम्यकाव्यस्य काव्याचार्यकृतनिन्दां दृष्ट्वा तन्निराकरणाय भट्टिनेदमुक्तम् । तेन नैव भामहो भट्टिनुसरति । स तु भट्टेस्तु का कथा बाणभट्टादपि पूर्ववर्तीति विद्वांसो मन्यन्त इति ।[४] भामहेन पद्यमिदं रामशर्मणोऽच्युतोत्तरमादायकथितमिति तत्र प्रसङ्गेनापि स्पष्टं भवति । यथोक्तं तत्र -

ननाधात्वर्थगम्भीरा यमकव्यपदेशिनी, प्रहेलिका सा ह्युदिता रामशर्माऽच्युतोत्तरे।

काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत्, उत्सवः सुधियामेव हन्त दुर्मेधसो हताः ।।[५]

भट्टिस्तु ततोऽपि पञ्चशतीपश्चाद्वर्तीत्यपि स्पष्टमेव विदुषाम् । यदि तथापि मन्येत यद्भामहो भट्टिमनुसरति तदा तथाकथनस्य भट्टेः किं प्रयोजनं सम्भवति । सम्भवतः न किमपि । स तु तत्काव्यं दूषितं न मन्येतेत्याशयेन स्वयमेव तदुद्घोषयति यन्मया ज्ञानादेव तथा कृतमिति । तेन स्पष्टमेव तथाकथनेन भट्टिमहीयं कथनं स्मरति न तु भामहो भट्टिम् । अपरञ्च भट्टिः स्वयमेवालङ्कारनिवेशने भामहीयं ग्रन्थमनुसरति इत्यपि न विस्मर्तव्यम् । यदि नाम भामहो हि भट्टः परवर्ती भवेत्तदा भट्टिकाव्यतोऽपि सन्दूषणायापि कतिपयोदाहरणानि गृहीतानि स्युः यथा रामशर्मणो राममित्रात्किन्तु यथार्थतो न तथा । अतो भट्टेः भामहपूर्ववर्तित्वं कथमपि न मन्यते। समालोचकास्तु सदा स्वतन्त्रा एव कामं ते यथाकामं कथयन्तु नाम ।

भट्टिविषयेऽयमपि अपरो भ्रमः समालोचकेषु यत्त नामसादृश्यादेव गुप्तकालभवस्य बन्धुवर्मणो मन्दसोरस्थशिलालेखस्य लेखकस्य वत्सभट्टेरेव रावणवधकारेण भट्टिना सहैक्यं वाञ्छन्ति । किन्तु ते विस्मरन्ति यत्तत्र वत्सभट्टेः व्याकरणस्खलितानि तथाभवनेऽर्गलायन्ते । कथं नाम महावैयाकरणो भट्टिस्तथाविधत्रुटिमवलम्बेत । तेनायमपि मतः काल्पनिकः मन्यते।

भट्टिभूमकयोः विषयेऽप्ययमेव विवादः । वस्तुतस्तु संस्कृतकाव्यानां काव्यकाराणां चाधिकृतः इतिहासः सम्प्रत्यपि नैव सुबद्धोऽस्ति । तेन यस्मै यद्रोचते स तथैव कथयति । भट्टिः भूमकमनुसरति । सः प्रथमः शास्त्रकविरित्येकपक्षः । भूमक एव भट्टिमनुसरतीत्यपरः पक्षः । प्रथमपक्षधराणां मते भूमकस्य भीमस्य रावणार्जुनीयं वाऽर्जुनरावणीयं हि काशिकावृतौ समुद्धतमस्ति । तेन हि भूमको न्यूनतमपि वैक्रमपञ्चमशतकमभितो हि स्थितिमान् । भट्टिस्तु ततोऽपि नितान्तपरवर्तीति । निबन्धनदृष्ट्याऽपि तथैव मन्यते यतो हि भट्टिकाव्यं स्वप्रयासे नितान्तसफलं दृश्यते यदा रावणार्जुनीयं तदपेक्षयाऽधरीकृतमेव । तेन रावणार्जुनीयस्य प्रयासेऽस्मिन् प्राथम्यं सिध्यति यतो हि प्राप्तलाभो भट्टिः स्वप्रयासे सफलीभूतः । सत्यपि भट्टेः भूमकपूर्ववर्तित्वे तस्य शास्त्रकविपरम्परायां प्रथमत्वं न मन्यते। यतो हि एतादृशानि काव्यानि आचार्ययुगेऽप्यासन्नेव पाणिनि-व्याडि-कात्यायन(वररुचि)-पतञ्जलि-प्रभृतिप्रणीतानि।

असिध्यत्यपि तस्य शास्त्रकवित्वे प्राथम्ये भट्टिः प्रक्रमेऽस्मिन् नितान्तसफलः कविरितरापेक्षया । वासुदेवः तमनुकरोति वासुदेवविजये धातुकाव्यकारश्च । तस्य शास्त्रकाव्यसम्मेलनं वर्णनातीतमेव । यथा -

रामोऽपि दाराहरणेन तप्तो वयं हतैर्बन्धुभिरात्मतुल्यैः।

तप्तेन सप्तस्य यथा तथा नः सन्धिः परेणास्तु विमुञ्च सीताम्।। इत्यादि।

केचिद्भट्टिकाव्ये स्वाभाविकापेक्षया कृत्रिमतायाः आडम्बरस्य च प्राधान्यं कथयन्ति । सत्यपि तथा व्याकरणलक्ष्यस्य कवेर्न तन्महान् दोष इत्यपरे।

जनाः तु तादृशीं कृत्रिमतां काव्यसामान्येऽपि स्वीकुर्वन्ति किमुत जटिलव्याकरणसम्बद्धे ग्रन्थे। काव्यस्यास्य माधुर्ये तत्सर्वं विलीयते । गुणसन्निपाते कश्चिदोषस्तु निमज्जत्येव इति मन्यते। यद्यपि भट्टिभर्तृहर्योः ऐक्यपार्थक्यविषयः सम्प्रत्यपि अनिर्णीत एव तथैव भट्टिकाव्यस्य दीपतुल्यः' - इत्याद्याः 'काव्यमिदं’:::::::' इत्यन्तांनां श्लोकानां प्रक्षिप्तत्वमौलिकत्वप्रश्नोऽपि विचारणीय इति मन्यते। यदि नाम दीपतुल्यप्रभृतिपद्यानां प्रक्षिप्तता यथा कविजीवितकारेण संकेतिता सिध्यति तदा तयोरैक्यं नितान्तमेव सम्भवति । कविजीवितकारो दीपतुल्यादिश्लोकानां जयमङ्गलप्रक्षिप्तत्वं मन्यते । स कथयति -

'यः कोऽपि कविः पाठकोपयोगार्थं काव्यं प्रणीय 'हतादुर्मेधसश्वास्मिन्निति' वदेद्वा ? भट्टिरेव भवतु । सोऽप्येतादृशदुरहाभाव इति कथं वक्तुं शक्यते ?'[६]

क्रि.श.६४१तः ६५१ वर्षपर्यन्तम् वलभ्याम् चतुर्थः श्रीधरसेनो नाम राजा "महाराजाधिराजः" इति बिरुदाङ्कितः बभूव इति "Prof. Macdonal" महाशयः स्वस्य History of sanskrit literature इति ग्रन्थे लिखितवान् । तथा च संस्कृतचरित्रविमर्शकाः प्रो.यम्. कृष्णमाचार्याः, प्रो.तरणीचरण चौधुरी महोदयाश्च भट्टिकविना स्वकाव्यम् ''रावणवधम्'' अर्थात् भट्टिकाव्यम् विरचितमिति उद्गिरन्ति । एतेन ज्ञायते यत्- एषः क्रिस्तशके ६४० तः ६५० तमे वर्षाभ्यन्तरे कालांशे एतत् काव्यम् रचितवान् आसीत् इति ।

कृतिः वस्तु च[सम्पादयतु]

यद्यपि एतेन स्वस्य काव्यस्य रावणवधम् इति नामकरणम् कृतमासीत । किन्तु काव्यस्य अनन्यतायाः कारणेन स्वेनैव कविनाम्ना एतत्काव्यम् प्रख्यातम् भट्टिकाव्यम् इति । भट्टिकाव्यमित्युक्ते यथा अवगच्छन्ति सहूदयाः तथा न रावणवधम् । भट्टिना नान्यत् किमपि काव्यम् कृतम् समुपलभ्यते । किन्त्विदमेकमपि अनेककाव्याध्ययनस्य प्रयोजनमात्रम् अवश्यं जनयति । एतत्र काव्ये कविः रामायणस्य कथाभगम् स्वीकृत्य रावणस्य वधोद्देशेन रामावतारम् आरभ्य दीर्घम् कथावस्तु चिनोति । द्वाविंशतिसर्गात्मकम् व्याकरणकाव्यशास्त्रयोः दर्पणायितम् इदम् काव्यम् कविना "रावणवधम्" इत्यभिहितम् । अत्र रामस्य जननादारभ्य सीतापहरणपर्यन्तम् प्रकीर्णकाण्डान्तर्गताः पञ्चसर्गाः वर्तन्ते । सुग्रीवपट्टाभिषेकात् मारुतिसंयमपर्यन्तम् त्रयः सर्गाः अधिकारकाण्डान्तर्गताः । सीताभिज्ञानदर्शनात् आसेतुबन्धं त्रयः सर्गाः प्रसन्नकाण्डे अन्तर्भवन्ति । सेतुबन्धम् आरभ्य अयोध्यां प्रत्यागमनपर्यन्तम् नवसर्गाः तिङन्तकाण्डे अन्तर्भवन्ति ।

भट्टिकाव्यं द्वाविंशतिसर्गेषु विभक्तमस्ति । अत्र हि दशरथवर्णनादारभ्य रामराज्याभिषेकपर्यन्ता कथा निबद्धाऽस्ति । स्वरूपेण काव्यमपि ग्रन्थोऽयं व्याकरणप्रयोगदृष्ट्या गुम्फितत्वात्तत्र सर्गाणां विभाजनमपि व्याकरणदृष्ट्यैव कृतं दृश्यते । सर्गाश्च प्रकीर्णाधिकारप्रसन्नतिङन्तेतिचतुःकाण्डेषु विभक्ताः । प्रकीर्णे हि आदिमपञ्चसर्गाः सन्ति यत्र दशरथवर्णनादारभ्य रामवनगमनपर्यन्ता कथा निबद्धाऽस्ति । नाम्नैव प्रकीर्णकेऽस्मिन् काण्डे नैव सुनिश्चिता प्रयोगयोजना। अधिकारकाण्डे षष्ठसर्गादारभ्य नवमसर्गपर्यन्ताश्चत्वारः सर्गाः सन्ति, यत्र हि निश्चितप्रयोगयोजना दृश्यते स्थाने स्थाने प्रकीर्णकमपि । षष्ठे हि दुहादिद्विकर्मकधातुप्रयोगाः निर्दिष्टाः । तथैव सप्तमे ताच्छीलिककृत्प्रयोगाः भावे कर्तरि च प्रयोगाः निर्दिष्टाः । अष्टमे आत्मनेपदाधिकारो व्याख्यातो यदा नवमेऽनभिहितेऽधिकारश्चर्चितः । प्रसन्नकाण्डेऽपि तदनुवर्तनश्चत्वारः सर्गाः सन्ति यत्र हि दशमे शब्दार्थालङ्काराणां भेदोपभेदनिदर्शनं विहितम् । एकादशे माधुर्यस्य, द्वादशे भाविकस्य, त्रयोदशे भाषासमसंज्ञकश्लेषभेदस्य प्रदर्शनं कृतमस्ति । चतुर्थे तिङन्तकाण्डे चतुर्दशसर्गादारभ्य द्वाविंशतिसर्गपर्यन्ता नव सर्गाः सन्ति, यत्र हि नवानां लकाराणां प्रयोगाः निदर्शिताः सन्ति ।

किन्तु नैतावतेतदवधेयं यद्रावणवधं केवलं व्याकरणग्रन्थः । अत्र हि शास्त्रकाव्ययोः प्राञ्जलः समन्वयो दृश्यते । अत्र उक्ताः काव्योचितसरसतादिगुणाः भ्राजन्तेऽपरतश्च व्याकरणसम्मतप्रयोगानामापणमपि विलसति । तेन अयं ग्रन्थः कवित्वपाण्डित्ययोः सुन्दरः सङ्गमः । तत्रापि प्राधान्यमत्र काव्यपक्षस्यैव दृश्यते यतो व्याकरणनियमस्य तु तत्पूरणार्थमेव निदर्शनं कृतमस्ति । तेन प्रथममिदं काव्यं ततश्च शास्त्रम् । अस्य हि रसपरिपाकः, अलङ्कारयोजना, प्रकृतिचित्रणं, वस्तुविसर्पणञ्च कवेरस्य कवित्वशक्तिमितरकविशक्तितोऽपि कथमप्यन्यूनां समर्थयन्ति । काव्येऽस्मिन् समुपस्थापितं शरद्वर्णनं दृष्ट्वा को नाम सचेता न मुह्यति। अत्र वीरो रसोऽङ्गी शृङ्गारश्चाङ्गमेव । भट्टिः वस्तुसंघटनायाम् इतिवृत्तनिर्वाहे च कालिदासमनुसरति । द्वादशसर्गे प्रबद्धा राजनीतिचर्चा भारविं स्मारयति । अस्य हि व्यञ्जनाप्रणालीमत्र निभाल्यताम् -

न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् ।

न षट्पदोऽसौ न जुगुञ्ज यत्कलं न गुञ्जितं तन्न जहार यन्मनः ।। इति ।

व्यर्थमेव तज्जलं यत्र नो कमलं, निस्सारमेव तत्कमलं यत्र नो भ्रमरः, धिक्तं भ्रमरं यो मधुरं न गुञ्जति, वृथा तद्गुञ्जनं यन्मनो न हरति इत्यस्याशयः । तथापि तत्र व्याकरणस्यापि तावदेव प्राधान्यमस्त्येव । स स्वयमेव कथयति -

दीपतुल्यः प्रबन्धोऽयं शब्दलक्षणचक्षुषाम्।

हस्यादर्श इवान्धानां भवेद् व्याकरणादृते ।।[७]

अपि च -

व्याख्यागम्यमिदं काव्यमुत्सवः सुधियामलम्।

हता दुर्मेधसश्चास्मिन् विद्वत्प्रियतया मया ॥ इति ।

व्याख्याः[सम्पादयतु]

ग्रन्थस्यास्य सन्ति पञ्चदशाधिकाष्टीकाः यासु मल्लिनाथस्यैका, जयमङ्गलस्य जयमङ्गला, भरतमल्लिकस्यापरा प्राचीनाः प्रसिद्धाः कतिपयाः आधुनिकासु शेषराजस्य चन्द्रकला, गोपालशास्त्रिणश्चैका, लोकमणिदाहालस्य कला च ज्ञाताः ।

भट्टिकाव्यस्य वैशिष्ट्यम्[सम्पादयतु]

व्याकरणलक्ष्यलक्षणोदाहरणैः समन्वितम् काव्यमिदम् यथा पण्डितमान्यम् तथा काव्यमर्यादायामपि अद्वितीयम् सत् काव्यरसिकानां हृदयेऽपि स्मरणीयम् स्थानमलभत । काव्ये व्याकरणे च कवेः प्रौढिंमा अनन्यसदृशा । शैली च रसमयी । कविताधोरणिः रसभूयिष्ठा, कविताव्यसनिनां आधारग्रन्थः, वैय्याकराणानाम् मुखदर्पणम्, नवरसाणां भाण्डागारं च केवलम् भट्टिकाव्यम् । प्रसन्नकाण्डे शब्दालङ्कारस्य अर्थालङ्कारस्य माधुर्यस्य भाषासमावेशस्य च निरूपणानि लभ्यन्ते । अद्वितीयेन काव्येन भट्टौ वय्याकरणता आलङ्कारिकता च सिद्धे अभूताम् इत्यत्र न संशयः । अस्मिन् कव्ये यथा पण्डिताः मान्यन्ते तथा वर्णनाः सर्वाः काव्यव्याकरणशास्त्रयोः सम्प्रदायान् अनतिक्रम्य ग्रथिताः सन्ति ।

निदर्शनश्लोकाः[सम्पादयतु]

हिण्मयी साललतेव जङ्गमा, च्युता दिवः स्थास्नुरिवाचिरप्रभा ।
शशाङ्ककान्तेरधिदेवताकृतिः, सुता ददे तस्य सुताय मैथिली ॥
दूरं समारुह्य दिवःपतन्तम्, भृगोरिवेन्दुं विहितोपकारम् ।
बद्धाऽनुरागोऽनुपपात तूर्णम्, तारागणः सम्भृतशुभ्रकीर्तिः ॥
शशाङ्कनाथापगमेन धूम्राम्, मूर्छापरीतामिव निर्विवेकाम् ।
ततः सखीव प्रथितानुरागा, प्राबोधयद् द्यां मधुरारुणा श्रीः ॥

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. संस्कृत०, ४५० तमपष्ठे
  2. संस्कृत० १०० तमपृष्ठे
  3. संस्कृत ० २३९तमपृष्ठे
  4. संस्कृत० ९५ तमपृष्ठे
  5. काव्यालङ्कारे ० २।१९, २०
  6. ११० तमपृष्ठे
  7. २२॥२३

"https://sa.wikipedia.org/w/index.php?title=भट्टिः&oldid=443974" इत्यस्माद् पुनः प्राप्तिः