भट्ट-जगज्जीवनः
कविपरिचयः
[सम्पादयतु]भट्टजगज्जीवनोऽपि (Bhattajagadjeevana) जोधपुरनरेशस्य अजितसिंहस्य सभापण्डितः । बालकृष्णदीक्षितस्य समकालिकत्वात् अस्यापि स्थितिकालः अष्टादशशतकस्य पूर्वार्थभागः ।
कृतिपरिचयः
[सम्पादयतु]अनेन कविना अजितोदयम् अभयोदयं चेति महाकाव्यद्वयं प्रणीतम् ।
अजितोदयम्
[सम्पादयतु]अस्मिन् ऐतिहासिके महाकाव्ये ३२ सर्गाः सन्ति । अजितसिंहोऽत्र नायको वीरश्चाङ्गी रसः । इदं महाकाव्ये जोधपुर-नृपाणां यथार्थः इतिहासः । ऐतिहासिकतथ्यप्राधान्येऽपि काव्यपक्षो नोपेक्षितः ।
अभयोदयम्
[सम्पादयतु]इदमपि ऐतिहासिकं काव्यम् । अत्र १० सर्गाः सन्ति । अत्र जोधपुरनृपाणां मालदेवादारभ्य अभयसिंहपर्यन्तानां चरितं विस्तरेण वर्णितम् ।
काव्यकला
[सम्पादयतु]भट्टजगज्जीवनो रससिद्धः कविः । कविना अङ्गित्वेन वीररसस्य अङ्गत्वेन च करूण-रौद्र-शृङ्गारादीनाम् अभिव्यक्तयः कृता । अयं वर्णनकलायां परमनिपुणः । अजितोदये आक्रामकस्य भाटीवीरस्य चित्रणं यथा -
- तान् वीक्ष्य दूरत उपेतपठानवीरान्
- निघ्नन् भयङ्कररणे निनदन् स भाटी ।
- यो यो निहन्तुमुपयाति निहत्य तं तं
- यावत्समेति महमूदनवाबवर्यम् ॥
अजितोदये ध्वस्तदेवालयवर्णने करुणरसाभिव्यञ्जनेन सह कवेः यथार्थवर्णनप्रवृत्तिः संलक्ष्यते -
- देवालयाः सुबहुशोऽपि च यत्र यत्र
- देशे मरुस्थलवरे किल तत्र तत्र ।
- विध्वंसित बत नवाबबहादुरेण
- हा कष्टमेव विहितं विधिना तदानीम् ॥
अलङ्कारयोजनायां स्वाभाविकता वर्तते । वर्ण्यविषयस्य मार्मिकव्यञ्जनायैव ते साधनत्वेन गृहीताः । यथा -
- नैकोऽपि मे सुतनयः स्वजुलातपत्रं
- स्कन्दो द्वितीय इव सङ्गरलब्धकीर्तिः ।
- आश्रित्य यं घनतरुं लतिकेव तिष्ठेत्
- प्रत्यन्वहं सुखभरैः सह राज्यलक्ष्मीः ॥
एवं भट्टजगज्जीवनस्य उभयोः महाकाव्ययोः ऐतिहासिक-तथ्यैः सह सरसकाव्यसुषमायाः मणिकाञ्चनयोगो वर्तते ।