भराडीसैँण
पठन सेटिंग्स
भराडीसैँण भराड़ीसैँण | |
---|---|
उत्तराखण्डराज्यस्य ग्रीष्मकालीनराजधानी | |
देशः | भारतम् |
राज्यम् | उत्तराखण्डः |
मण्डलम् | चमोली |
अनुमण्डलम् | गैरसैँण |
Elevation | १६५० m |
भाषाः | |
• आधिकारिक | हिन्दी संस्कृतं च |
• क्षेत्रीय | गढवळि |
Time zone | UTC+५:३० (भा॰मा॰स॰) |
पत्रसङ्केतसङ्ख्या |
246428 |
दूरवाणी | 01363 |
Vehicle registration | UK-11 |
लोकसभानिर्वाचनक्षेत्रम् | गढवाळ |
विधानसभानिर्वाचनक्षेत्रम् | कर्णप्रयागः |
Website | uk.gov.in |
भराडीसैँण (गढवळि/हिन्दी: भराड़ीसैँण; आङ्ग्ल: Bhararisain) भारतस्य उत्तराखण्डराज्यस्य ग्रीष्मकालीनराजधानी अस्ति । इदं चमोलीमण्डलस्य गैरसैँण-अनुमण्डले गैरसैँन-नगरात् प्रायशः १४ किमी दूरे स्थितम् अस्ति ।
इतिहासः
[सम्पादयतु]उत्तराखण्डस्य राज्यत्वस्य विषये केचन कार्यकर्तारः गैरसैँण इति नूतनराज्यस्य राजधानीयै आदर्शस्थानम् अमन्यन्त । परन्तु देहरादून-नगरम् अस्थायी राजधानी अभवत् । स्थायीराजधानीस्थानस्य निर्णयार्थं स्थापितः वी॰एन॰ दीक्षित आयोगः गैरसैँण भूकम्पस्य अत्यन्तं प्रवणः इति अङ्गीकृतवान् । २०१२ तमे वर्षे स्थानीयाभियाचनां कारणात् उत्तराखण्डस्य तत्कालीनमुख्यमन्त्री विजय बहुगुणा गैरसैँण-नगरे मन्त्रिमण्डलस्य सभाः कृत्वा भराडीसैँण-नगरे विधानसभाभवनस्य निर्माणम् आरब्धवान् ।