भाल्की
भाल्की Bhalki,Karnataka,India. | |
---|---|
नगरम् | |
देशः | भारतम् |
राज्यम् | कर्णाटकम् |
मण्डलम् | बीदर |
Government | |
• President of Municipal Council | Ms. Jaishree Prakash Mankare |
• Chief Officer | Mr. Bharath Nagre |
Elevation | ५८७ m |
Population (2001) | |
• Total | ३५,१०२ |
भाषाः | |
• अधिकृताः | कन्नड |
Time zone | UTC+5:30 (IST) |
पिन् |
585328 |
Telephone code | 91 8484 |
Vehicle registration | KA39 |
कर्णाटके किञ्चन प्रमुखं मण्डलम् अस्ति बीदरमण्डलम् । अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति भाल्की।
इतिहासः
[सम्पादयतु]ऐदम्प्राथम्येन एतस्य नगरस्य उल्लेखः भल्लुङ्के नाम्ना अस्ति । द्वादशशतकस्य भक्तिसम्प्रदायस्य शरणेषु अन्यतमः कुम्बारगुण्डय्यः भाल्कीनगरीयः ।
भारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामे भाल्कीनगरस्य पात्रम्
[सम्पादयतु]भारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामस्य अन्तिमघट्टे भाल्कीनगरस्य प्रमुखः उल्लेखः दृश्यते । तात्या टोपेमहोदयस्य कश्चन अनुयायी १८६७ तमे वर्षे निजामेन बद्धः अभवत् । तस्य अनुयायिनः नाम आसीत् माधोरावः अथवा रामरावः । एषः सातारासंस्थानस्य छत्रपतिशाहूमहाराजस्य भागिनेयः। रिचर्ड् टेम्पल् वर्यस्य उल्लेखानुसारम् एतस्य अपरं नाम जङ्गबहाद्दूर् इति । तस्य बन्धनानन्तरं यदा शोधनं कृतं तदा आङ्ग्लभाषया मराठीभाषया च अनेकानि पत्रकाणि, सन्धिपत्राणि,सातारासंस्थानस्य छत्रपतिः इति उल्लेखिता मुद्रिका च प्राप्ता। जङ्गबहाद्दूरः भाल्कीनगरं परितः विद्यमाने अरण्ये १५०० जनानां सैन्यस्य सङ्घटनं कृतवान् आसीत् । एतदर्थं तेन २०,००० रूप्यकाणि व्ययितानि आसन् । स्वस्य अनुयायिने देवरावाय ५०० सैनिकानां नियुक्तिं कर्तुं २०० रूप्यकाणि दत्तवान् आसीत् । जमादारस्य वेतनं प्रतिमासम् ४० रूप्यकाणि, सैनिकस्य ३० रूप्यकाणि, सेवकस्य १० रूप्यकाणि च आसीत् । नियुक्तेभ्यः कौलनामानामकं नियुक्तिपत्रं दीयते स्म । तस्मिन् पत्रे "ब्रिटिषजनानां हननं कर्तुं तथा सातारासंस्थानस्य गतवैभवं पुनरानेतुं" इति उल्लेखः कृतः आसीत् ।
जङ्गबहाद्दूरस्य सैनिकाः ग्रामतः ग्रामम् एतदर्थं अटन्ति स्म। एतस्य कारणतः ब्रिटिषसर्वकारस्य महती हानिः सञ्जाता। जङ्गबहाद्दूरः इदानीन्तने बीदरमण्डले स्थितम् अष्टिनामकं सैन्यशिबिरं स्वायत्तीकृतवान् । जङ्गबहाद्दूरं तथा तस्य प्रमुखानुचरान् हैदराबादसंस्थानस्थौ द्वौ ब्रिटिष-अधिकारिणौ बद्धवन्तौ । निझामस्य न्यायालये विचारणम् आरब्धम् । अपराधविभागस्य न्यायाधीशः मौल्वी नसरुल्लाह् खान् आसीत् । "साम्राज्यस्य विनाशार्थं कुतन्त्रं कृतम्" इति आरोपः कृतः। जङ्गबहाद्दूर-भीमराव-बालकिष्टय्य-विठोबा इत्येते आजीवकारावासस्य दण्डनं प्राप्तवन्तः । जङ्गबहाद्दूरः तस्य अन्तिमदिनानि हैदराबादकारावासे यापितवान् । तत्र एव सः मृतः । तस्य अनुयायिनौ य़शवन्तः जहाङ्गीर-अलि च १४वर्षाणां कारावासदण्डनं प्राप्तवन्तौ ।
ईश्वण्णनायकवाडी, तथा वीरपेद्दप्पः च लघुप्रमाणकानि दण्डनानि प्राप्तवन्तौ।
इतरविवरणानि
[सम्पादयतु]२००१ तमवर्षस्य गणनानुसारं भाल्कीनगरस्य जनसङ्ख्या ३५,१०२। पुरुषाः ५३%, महिलाः ४७% । साक्षरताप्रमाणं ६७% एतत् प्रमाणं राष्ट्रियसाक्षरताप्रमाणस्य (५९.५%) अपेक्षया अधिकम् । एतेषु ६१% पुरुषाः ,३९% महिलाः ।. एतेषु ऊनषड्वर्षीयाः १४% । अधिकृता भाषा कन्नड। मराठी तथा दक्खनी-उर्दुभाषया अपि व्यवहारः प्रचलति ।
इतरप्रेक्षणीयस्थानानि
[सम्पादयतु]भाल्कीदुर्गम्
[सम्पादयतु]भाल्कीनगरे एतत् दुर्गम् अस्ति । अत्र विविधानि भवनानि सन्ति । सत्यनिकेतनविद्यालयः, कुम्भेश्वरमन्दिरं(गणेशस्य) च दुर्गे स्तः । स्थानीयाः गडी शब्देन एतत् दुर्गं निर्दिशन्ति । एषः शब्दः दुर्गम् इत्यस्मिन् अर्थे मराठीभाषया, कन्नडभाषया च व्यवहारे अस्ति ।
भाल्केश्वरमन्दिरम्
[सम्पादयतु]दुर्गस्य निकटे विद्यमानम् एतत् मन्दिरं शिवस्य । कृष्णवर्णस्य बसाल्ट् शिलाभिः निर्मिता सोपानयुक्ता पुष्करिणी अत्र अस्ति ।
राममन्दिरम्
[सम्पादयतु]एतत् बालाजीमन्दिरम् इत्यपि प्रसिद्धम् अस्ति । नगरस्य गञ्जनामके भागे एतत् मन्दिरम् अस्ति । १९४५ तमे वर्षे प्रेमदासनामकः गुरुः एतस्य निर्माणं कृतवान् । मार्वाडीसमाजेन १९८०तमे वर्षे एतस्य जीर्णोद्धारः कृतः।
रामेश्वरटेकडी
[सम्पादयतु]एषः कश्चन लघु पर्वतः । (टेकडीनाम मराठीभाषया लघुगिरिः इत्यर्थः) नगरात् द्विकिलोमीटरदूरे पूर्वोत्तरभागे अस्ति । अत्र किञ्चन मन्दिरम् अपि अस्ति । दुर्गसदृशात् एतस्मात् स्थानात् नगरस्य सुन्दरं वीक्षणं कर्तुं शक्यम् ।
प्राचीनं नगरम्
[सम्पादयतु]दुर्गेण रक्षितः एषः भागः मध्यकालीनदक्खन् संस्कृतेः स्मारणं करोति । गृहाणां निर्माणशैली विशिष्टा अस्ति । चन्नबसवपट्टदेवरुस्वामिना संस्थापितम् ऐतिहासिकं हिरेमठसंस्थानम् अत्र एव अस्ति ।
भाल्कीजलागारः
[सम्पादयतु]वर्षाजलस्य सङ्ग्रहणार्थम् निर्मितः एषः कृतकजलागारः सूर्यास्तदर्शनार्थं सुप्रसिद्धः अस्ति ।