सामग्री पर जाएँ

भाल्की

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भाल्की

Bhalki,Karnataka,India.
नगरम्
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बीदर
Government
  President of Municipal Council Ms. Jaishree Prakash Mankare
  Chief Officer Mr. Bharath Nagre
Elevation
५८७ m
Population
 (2001)
  Total ३५,१०२
भाषाः
  अधिकृताः कन्नड
Time zone UTC+5:30 (IST)
पिन्
585328
Telephone code 91 8484
Vehicle registration KA39

कर्णाटके किञ्चन प्रमुखं मण्डलम् अस्ति बीदरमण्डलम् । अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति भाल्की।

इतिहासः

[सम्पादयतु]

ऐदम्प्राथम्येन एतस्य नगरस्य उल्लेखः भल्लुङ्के नाम्ना अस्ति । द्वादशशतकस्य भक्तिसम्प्रदायस्य शरणेषु अन्यतमः कुम्बारगुण्डय्यः भाल्कीनगरीयः ।

भारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामस्य अन्तिमघट्टे भाल्कीनगरस्य प्रमुखः उल्लेखः दृश्यते । तात्या टोपेमहोदयस्य कश्चन अनुयायी १८६७ तमे वर्षे निजामेन बद्धः अभवत् । तस्य अनुयायिनः नाम आसीत् माधोरावः अथवा रामरावः । एषः सातारासंस्थानस्य छत्रपतिशाहूमहाराजस्य भागिनेयः। रिचर्ड् टेम्पल् वर्यस्य उल्लेखानुसारम् एतस्य अपरं नाम जङ्गबहाद्दूर् इति । तस्य बन्धनानन्तरं यदा शोधनं कृतं तदा आङ्ग्लभाषया मराठीभाषया च अनेकानि पत्रकाणि, सन्धिपत्राणि,सातारासंस्थानस्य छत्रपतिः इति उल्लेखिता मुद्रिका च प्राप्ता। जङ्गबहाद्दूरः भाल्कीनगरं परितः विद्यमाने अरण्ये १५०० जनानां सैन्यस्य सङ्घटनं कृतवान् आसीत् । एतदर्थं तेन २०,००० रूप्यकाणि व्ययितानि आसन् । स्वस्य अनुयायिने देवरावाय ५०० सैनिकानां नियुक्तिं कर्तुं २०० रूप्यकाणि दत्तवान् आसीत् । जमादारस्य वेतनं प्रतिमासम् ४० रूप्यकाणि, सैनिकस्य ३० रूप्यकाणि, सेवकस्य १० रूप्यकाणि च आसीत् । नियुक्तेभ्यः कौलनामानामकं नियुक्तिपत्रं दीयते स्म । तस्मिन् पत्रे "ब्रिटिषजनानां हननं कर्तुं तथा सातारासंस्थानस्य गतवैभवं पुनरानेतुं" इति उल्लेखः कृतः आसीत् ।

जङ्गबहाद्दूरस्य सैनिकाः ग्रामतः ग्रामम् एतदर्थं अटन्ति स्म। एतस्य कारणतः ब्रिटिषसर्वकारस्य महती हानिः सञ्जाता। जङ्गबहाद्दूरः इदानीन्तने बीदरमण्डले स्थितम् अष्टिनामकं सैन्यशिबिरं स्वायत्तीकृतवान् । जङ्गबहाद्दूरं तथा तस्य प्रमुखानुचरान् हैदराबादसंस्थानस्थौ द्वौ ब्रिटिष-अधिकारिणौ बद्धवन्तौ । निझामस्य न्यायालये विचारणम् आरब्धम् । अपराधविभागस्य न्यायाधीशः मौल्वी नसरुल्लाह् खान् आसीत् । "साम्राज्यस्य विनाशार्थं कुतन्त्रं कृतम्" इति आरोपः कृतः। जङ्गबहाद्दूर-भीमराव-बालकिष्टय्य-विठोबा इत्येते आजीवकारावासस्य दण्डनं प्राप्तवन्तः । जङ्गबहाद्दूरः तस्य अन्तिमदिनानि हैदराबादकारावासे यापितवान् । तत्र एव सः मृतः । तस्य अनुयायिनौ य़शवन्तः जहाङ्गीर-अलि च १४वर्षाणां कारावासदण्डनं प्राप्तवन्तौ ।

ईश्वण्णनायकवाडी, तथा वीरपेद्दप्पः च लघुप्रमाणकानि दण्डनानि प्राप्तवन्तौ।

इतरविवरणानि

[सम्पादयतु]

२००१ तमवर्षस्य गणनानुसारं भाल्कीनगरस्य जनसङ्ख्या ३५,१०२। पुरुषाः ५३%, महिलाः ४७% । साक्षरताप्रमाणं ६७% एतत् प्रमाणं राष्ट्रियसाक्षरताप्रमाणस्य (५९.५%) अपेक्षया अधिकम् । एतेषु ६१% पुरुषाः ,३९% महिलाः ।. एतेषु ऊनषड्वर्षीयाः १४% । अधिकृता भाषा कन्नडमराठी तथा दक्खनी-उर्दुभाषया अपि व्यवहारः प्रचलति ।

इतरप्रेक्षणीयस्थानानि

[सम्पादयतु]

भाल्कीदुर्गम्

[सम्पादयतु]

भाल्कीनगरे एतत् दुर्गम् अस्ति । अत्र विविधानि भवनानि सन्ति । सत्यनिकेतनविद्यालयः, कुम्भेश्वरमन्दिरं(गणेशस्य) च दुर्गे स्तः । स्थानीयाः गडी शब्देन एतत् दुर्गं निर्दिशन्ति । एषः शब्दः दुर्गम् इत्यस्मिन् अर्थे मराठीभाषया, कन्नडभाषया च व्यवहारे अस्ति ।

भाल्केश्वरमन्दिरम्

[सम्पादयतु]

दुर्गस्य निकटे विद्यमानम् एतत् मन्दिरं शिवस्य । कृष्णवर्णस्य बसाल्ट् शिलाभिः निर्मिता सोपानयुक्ता पुष्करिणी अत्र अस्ति ।

राममन्दिरम्

[सम्पादयतु]

एतत् बालाजीमन्दिरम् इत्यपि प्रसिद्धम् अस्ति । नगरस्य गञ्जनामके भागे एतत् मन्दिरम् अस्ति । १९४५ तमे वर्षे प्रेमदासनामकः गुरुः एतस्य निर्माणं कृतवान् । मार्वाडीसमाजेन १९८०तमे वर्षे एतस्य जीर्णोद्धारः कृतः।

रामेश्वरटेकडी

[सम्पादयतु]

एषः कश्चन लघु पर्वतः । (टेकडीनाम मराठीभाषया लघुगिरिः इत्यर्थः) नगरात् द्विकिलोमीटरदूरे पूर्वोत्तरभागे अस्ति । अत्र किञ्चन मन्दिरम् अपि अस्ति । दुर्गसदृशात् एतस्मात् स्थानात् नगरस्य सुन्दरं वीक्षणं कर्तुं शक्यम् ।

प्राचीनं नगरम्

[सम्पादयतु]

दुर्गेण रक्षितः एषः भागः मध्यकालीनदक्खन् संस्कृतेः स्मारणं करोति । गृहाणां निर्माणशैली विशिष्टा अस्ति । चन्नबसवपट्टदेवरुस्वामिना संस्थापितम् ऐतिहासिकं हिरेमठसंस्थानम् अत्र एव अस्ति ।

भाल्कीजलागारः

[सम्पादयतु]

वर्षाजलस्य सङ्ग्रहणार्थम् निर्मितः एषः कृतकजलागारः सूर्यास्तदर्शनार्थं सुप्रसिद्धः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=भाल्की&oldid=364549" इत्यस्माद् प्रतिप्राप्तम्