सामग्री पर जाएँ

भारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
समरदृश्यम्

भारतीयेषु स्वातन्त्र्यभावनाजागरणाय सावरकरः ईशवीये १८५७तमे वर्षे सम्भूतस्य स्वतन्त्र्यसाधनसङ्ग्रामस्य चरितं समग्रं सप्रमाणं लिखितवान् । तस्य पुस्तकस्य नामाऽपि "१८५७ प्रथमस्वात्न्त्र्यसङ्ग्रामः" इति कृतवान् । आङ्ग्लपालकाः एतस्य सङ्ग्रामस्य गौरवं न्यूनीकर्तुमेव एतं सैनिकद्रोहमिति प्रचारितवन्तः । किन्तु सावरकरस्य पुस्तकेन तस्य सङ्ग्रामस्य सत्यस्वरूपं सर्वैः ज्ञातम् । १८५७ प्रथमस्वातन्त्र्यसाधनसङ्ग्रामस्य समाप्त्यनन्तरं ५० वत्सराणि समाप्तप्रायाणि । तस्मिन् अवसरे आङ्ग्लराजधान्यां लण्डन् नगर्याम् कञ्चन कार्यक्रमम् आयोजितवन्तः । एतस्य स्वातन्त्र्यसाधनङ्ग्रामस्य रजतोत्सवाय बारिष्टराणां, पण्डित श्यामजी कृष्णवर्मा, मेडम् कामा इत्यादिभ्यः अपि उत्तमः सहकारः लब्धः ।

छात्रान्दोलनम्

[सम्पादयतु]

प्रथमस्वातन्त्र्यसाधनसङ्ग्रामस्य गौरवचिह्नम् एकं निर्मितवन्तः। तत् चिह्नं भारतीयछात्राः, भारतदेशस्वातन्त्र्यानुरागिणः सर्वे वक्षःस्थले धृत्वा लण्डन् नगरवीथीषु सोत्साहम् अटितवन्तः । एतत् गौरवचिह्नं सगर्वं धृत्वा अटितेषु छात्रेषु मदनलाल् धिङ्ग्रा अन्यतमः । तद् धृत्वा यदा सः विद्यालयप्राङ्ग्णे अटन्नासीत्, तदा केचन आङ्ग्लेयछात्राः तम् परिहसितुं प्रयत्तवन्तः । धिङ्ग्रा कोपेन स्वछुरिकां हस्ते स्वीकृतवान्, तदा ते पलायिताः । अस्मिन् रजतोत्सवकार्ये लण्डन्-नगरे अभिनवभारतस्य कार्यक्रामाणां वेगः अभिवृध्दः । एतस्याः संस्थायाः सभ्याः रहसि विस्फोटनगोलिकाः निर्मान्ति स्म । लक्ष्यवेधने गोलकास्त्रप्रयोगस्य अभ्यासमपि आरब्धवन्तः । सावरकरेण लिखितं " १८५७ प्रथमस्वातन्त्र्यसङ्ग्रामः " इति ह्स्तलिखितपुस्तकं निगूढं भारतदेशम् आगतम् । तस्य पुस्तकस्य गूढतया मुद्रापण्स्य प्रचारनस्य च भार: गणेशेन स्वीकृत: । एषः विषयः सर्वकारेण ज्ञातः । एतत् पुस्तकं राजद्रोहवर्धकं भावयन् आङ्ग्लसर्वकारः मुद्रणार्थं स्वीकृतं मुद्रणालयं पिहितवान् लिखितपुस्तकमपि सर्वकारः स्वायत्तीकुर्यादिति विचिन्त्य गणेशः गूढतया फ्रान्सदेशं प्रेषितवान् । भारतीयभाषायां स्थितस्य तस्य पुस्तकस्य फ्रान्सदेशे मुद्रणम् असाध्यम् । अतः तत् आङ्ग्लभाषया अनूद्य मुद्रापणीयम् अभवत् । अनन्तरं तस्य पुस्तकस्य प्रतिकृतयः रहसि भारते प्रविष्टाः । अल्पदिनेष्वेव एतस्य विषयस्य वार्ता सर्वकारेण ज्ञाता । सार्वकार: झटिति पुस्तकस्य निषेधम् अकरोत् । गणेशसावरकरे राजद्रोहदोषम् आरोप्य अभियोगम् अरचयत् च । न्यायालयः तं दोषिणं निर्णीय आजीवनकारावासं प्राकटयत् ।