प्लासीयुद्धम्
Battle of Plassey | |||||||||
---|---|---|---|---|---|---|---|---|---|
Part of the Seven Years' War | |||||||||
Lord Clive meeting with Mir Jafar after the Battle of Plassey, oil on canvas (Francis Hayman, c. 1762) |
|||||||||
|
|||||||||
प्रतिद्वन्द्विनः | |||||||||
Great Britain | Nawab of Bengal France |
||||||||
नेतारः आज्ञाकारिणश्च | |||||||||
Colonel Robert Clive
| Siraj ud-Daulah
Monsieur Sinfray |
||||||||
शक्तिः | |||||||||
750 European soldiers 100 Topasses 2,100 Indian sepoys 100 gunners 8 cannon (six 6-pounders and 2 howitzers) | 7,000 infantry 5,000 cavalry of Siraj ud-Daulah 35,000 infantry 15,000 cavalry of Mir Jafar 53 field pieces (mostly 32, 24 and 18-pounders) 50 French artillerymen (6 field pieces) total about 62,000 |
||||||||
हताहतानां सङ्ख्या हानिश्च | |||||||||
22 killed (5 Europeans, 13 Indians) 50 wounded (15 Europeans and 30 Indians)[१] | 500 killed and wounded |
पीठिका
[सम्पादयतु]ब्रीटीष् जनानां ईस्ट् इण्डिया समवयाः बङ्गाळस्य नवाबः अपि च तस्य फ्रेञ्च अनुयायी एतेषां प्लासी (प्लासी इति पदं बङ्गालीभाषायाः पलाशी इति कस्यचित् पुष्पस्य नाम्ना प्राप्तम्) स्थाने प्रचलिते निर्णायके युद्धे ब्रिटिष् जनाः विजयं प्राप्य अग्रे १९०वर्षाणि भारतं।भारतम् प्रशासितवन्तः । क्रि.श. १७५७तमवर्षसय जून् २३तमे दिने पश्चिमबङ्गालस्य भागीरथीनद्याः तटे विद्यमाने प्लासी इति स्थाने युद्धम् अभवत् । बङ्गालस्य अन्तिस्य स्वतन्त्रनवाबस्य सिराजुद्दौलस्य ब्रिटीष् साम्राज्यस्य ईस्ट् इण्डियासमवायस्य मध्ये घोरं युद्धं प्रावर्तत । अस्मिन् एव काले यूरोप् देशे सप्तवषाणि ब्रिटिष् प्रेञ्च् मध्ये युद्धं प्राचलत् । ब्रिटिष् जनैः विद्यमानवैरस्य कारणेन फ्रेञ्चजनाः भारतस्य प्लासीयुद्धे सहायरूपेण लघुसैन्यं प्रेषितवन्तः । सिराजुद्दौलस्य सैन्यं ब्रिटिष् सैन्यस्य अपेक्षया बलवत् आसीत् । परभवस्य शङ्कायां विद्यमानाः ब्रिटिष् अधिकारिणः सिराजुद्दौलस्य पदच्युतसेनापतिना मीर्जाफर् इत्यनेन सह जनद्वयं स्वपक्षे आकृष्टवन्तः । भ्रष्टः मीर्जाफर् सैन्यं रणक्षेत्रे आनीतवान् किन्तु युद्धे भागवहनस्य प्रयत्नमेव न कृतवान् । अतः सिराजुद्दौलस्य सैन्यं पराजयम् अवप्नोत् । आत्मरक्षणार्थं रहसि प्रच्छन्नं सिराजुद्दौलं बिटिश् जनाः अन्विष्य अमारयन् । अस्य पराजयस्य परिणामात् बङ्गालः पूर्णतया ब्रिटिष् हस्तगतः । मीर्जाफर् ब्रिटिष् अधिकारिणां गुलामः भूत्वा नवाबः अभवत् । ब्रिटिष् साम्राज्य भारते प्रतिष्ठापनस्य निर्णायकघटनासु प्लासीयुद्धम् अपि प्रधानम्। बङ्गालराज्यस्य कोशः धनकनकैः समृद्धम् आसीत् । आहारधान्यानि यथेष्टम् आसन् । एतानि सर्वाणि उपयुज्य ब्रिटिष् जनाः स्वस्य सैन्यबलं गणनीयप्रमाणेन समवर्धयन् । अनेन ते भारते सुदृढं रूढमूलाः अभवन् । दशवर्षानन्तरं सम्भूतं बक्सार्युद्धम् ईस्ट् इण्डिया समवायं इतोऽपि बलवत् अकरोत् ।
पृष्ठभूमिः
[सम्पादयतु]प्लासीयुद्धस्य सामान्यकारणं तु सिराजुद्दौलः क्रि.श.१७५६तमे जून् मासे पोर्ट् विलिय्म् इति प्रदेशम् आक्रान्तवान् इति । किन्तु प्रधानहेतुः तु ईस्ट् इणिया समवायस्य भूविस्तारस्य महाकाङ्क्षा एव । अस्य युद्धस्य कारणानि कानिचन अन्यकलहानि अपि ।
- क्रि.श.१७१७तमे वर्षे मुघल् राज्ञा अनुग्रहीतनिर्यातानुमतिः ब्रिटिष् जनैः दुरुपयुक्तः । भारतस्य अन्तः एव व्यवाहारं कर्तुं दत्तम् अनुमतिं करापकर्षस्य अनुमतिः इति परिगणय्य ब्रिटिश् अधिकारिणः बङ्गालस्य राज्ञे करं दातुं निराकृतवन्तः ।
- नवाबस्य आन्तरिके व्यवाहारे ब्रिटिश् जनानां हस्तक्षेपः आसीत् । तत्रापि नवाबस्य पितृव्यायाः घसेटि बेगम् इत्यस्याः ब्रिटिश् जनाः प्रोत्साहं दत्तवन्तः ।
- नवाबस्य अनुमतिं विना पोर्ट् विलियम् दुर्गे ब्रिटिश् जनैः शतघ्नी स्थापिता ।
- जगत् सेथ् इति कस्यचित् हैन्दस्य अपि च मारवाडीवणिजां बिटिष् ईस्ट् इण्दिया समवायस्य पक्षपातनीतिः ।
- युद्धार्थं उभयपक्षयोः सैन्यसम्मेलने आरब्धे ब्रिटिष् जनाः मद्रास् फोर्ट् सेयिण्ट् जार्ज् इत्यस्य ब्रिटिष् प्रेसिडेन्सि इति समवायस्य सहाय्यम् अयाचन्त । तदनुगुणं मद्रास्तः कर्नल् राबर्ट् क्लैव अड्मिरल् चार्ल्स् व्याट्सन् च सहायार्थम् आगच्छताम् । क्रि.श.१७५७तमे जनवरि द्वितीये दिने तौ कोल्कतायाः दुर्गं वशीकृतवन्तौ । नवाबः फेब्रवरि पञ्चमे दिने आक्रमणं क्रुतवान् चेदपि प्रयोजनं नाभवत् । फेब्रवरि सप्तमे दिने अलिनगरे सन्धिः अभवत् ।
संवृद्धः फ्रेञ्चप्रभावः
[सम्पादयतु]फ्रेञ्च गवर्नर जनरल् जोसेफ् फ्राङ्कोयि डूप्ले इत्यस्य अनधिकृतानुमत्या नवाबस्य आस्थाने फ्रेञ्च् जनानां प्रभावः संवर्धितः । बङ्गालराज्ये फेञ्च् जनानां वाणिज्यव्यवहारः अपि अधिकः अभवत् । फ्रेञ्च् अधिकारिणः नवाबस्य अधिकप्रमाणस्य शस्त्रात्राणि निर्वोढुं स्वसैनिकान् ऋणरूपेण प्रायच्छन् ।
अहमद् शहा अब्दालि
[सम्पादयतु]सिराजुद्दौलस्य उभयतः सङ्कटः आगतः । ब्रिटिष् जनानाम् ईस्ट् इण्डियासमवायः एकत्र अन्यत्र तस्य पश्चिमसीमायाम् अफघनस्य अहमद् शहा अब्दालि इत्यस्य सैन्येन अक्रमणम् कृतम् । अब्दालि सैन्यं क्रि.श.१७५६तमे वर्षे देहलीम् आक्रम्य अलुण्ठत् । सिराजुद्दौलः स्वसैन्यस्य बृहद्भागं स्वप्रियमित्रस्य अपि च प्रोत्साहकस्य पाट्नायाः दिवानस्य रामनारायणस्य नेतृत्वे अब्दालि सैन्येन सह योद्धुं प्रेषितवान् ।
आस्थाकापाट्यम्
[सम्पादयतु]एतन्मध्ये सिराजुद्दौलस्य मुर्शिदाबाद् नगरस्य आथाने अपि कापट्यम् आरब्धम् । सः तादृशः जनप्रियः राजा नासीत् । स्वस्य पितामहस्य अनन्तरं सिंहासनमागतस्य तस्य वयः २३वर्षाणि । स्वस्य शीघ्रकोपस्य कारणात् शत्रून् वर्धयति स्म । तस्य अरिषु अन्यतमा धनिका अपायकारिणी घसेटि बेगम् इत्येषा अस्य पितृव्या । अन्यः कश्चित् सहोदरबन्धुः राजा भवेत् इति अस्याः आशयः आस्तीत् । अपि च कोल्कतायाम् आक्रमणेन कुपितः अहम्मद् शहा, सेनामुख्यस्थानत् च्युतः मीर् जाफर् च सिराजुद्दौलस्य प्रबलाः श्त्रवः अभवन् ।
ईस्ट् इण्डिया समवायनीतिः
[सम्पादयतु]ब्रिटिष् समवायस्य पूर्वनिर्धारः आसीत् यत् राज्यस्य नायकत्वपरिवर्तनं स्वहिताय आवश्यकम् । क्रि.श.१७५२तमवर्षात् पूर्वमेव राबर्ट् ओर्मे इति कश्चित् राबर्ट् क्लैव् इत्यस्य लिखिते पत्रे सिराजुद्दौलस्य पितामहस्य पदच्युतिः समवायस्य अभिवृद्ध्यर्थे आवश्यकी इति लिखितवान् । क्रि.श.१७५६तमे वर्षे अलिवर्दि खानस्य अकालमृत्योः अनन्तरं तस्य उत्तराधिकारीत्वेन सिरजुद्दौलस्य नाम आसीत् । अयं अलिवर्दि खनस्य दत्तकपुत्रः अपि आसीत् । एतन्मध्ये अन्याः काश्चन घटनाः अमभवन् । अवकाशवादिनः ब्रिटिष् जनाः सिराजुद्दौलं विरुद्ध्य अलिवर्दि खनस्य पुत्रीं घसेटि बेगम् इत्येनां प्रेरेपितवन्तः ।
सैन्यानि
[सम्पादयतु]दक्षिणेशियाखण्डस्य इतिहासः | |||||
---|---|---|---|---|---|
पाषाणयुगः | ७०,०००-३३०० क्रैस्तपूर्वः | ||||
• कांस्ययुगः | • ७०००-३३०० क्रैस्तपूर्वः | ||||
हरप्पा महेञ्जोदरो संस्कृतिः | ३३०० -१७०० क्रैस्तपूर्वः | ||||
वैदिकयुगः | १५००-५०० क्रैस्तपूर्वः | ||||
लौहयुगः | १२००-३०० क्रैस्तपूर्वः | ||||
• षोडशमहाजनपदाः | • ७००-३०० क्रैस्तपूर्वः | ||||
• मगधसाम्राज्यम् | • ५४५ क्रैस्तपूर्वः | ||||
• मौर्यसाम्रज्यम् | • ३२१-१८४ क्रैस्तपूर्वः | ||||
• चोलसाम्राज्यम् | • २५० क्रैस्तपूर्वः | ||||
• सातवाहनसाम्राज्यम् | • २३० क्रैस्तपूर्वः | ||||
• कुषाणसाम्राज्यम् | • ६०-२४० क्रैस्ताब्दः | ||||
• गुप्तसाम्राज्यम् | • २८०-५५० क्रैस्ताब्दः | ||||
• पालसाम्राज्यम् | • ७५०- ११७४ क्रैस्ताब्दः | ||||
• राष्ट्रकुटसाम्राज्यम् | • ७५३ -९८२ क्रैस्ताब्दः | ||||
• सुलतानसाम्राज्यम् | • १२०६-१५९६ क्रैस्ताब्दः | ||||
होय्सळसाम्राज्यम् | १०४०-१३४६ क्रैस्ताब्दः | ||||
विजयनगरसाम्राज्यम् | १३३६-१६४६ क्रैस्ताब्दः | ||||
मुघलसाम्राज्यम् | १५२६-१८५८ क्रैस्ताब्दः | ||||
माराठासाम्राज्यम् | १६७४-१८१८ क्रैस्ताब्दः | ||||
शिक्खसाम्राज्यम् | १७९९-१८४९ क्रैस्ताब्दः | ||||
ब्रिटिशभारतम् | १८५८–१९४७ क्रैस्ताब्दः | ||||
भारतगणराज्यम् | १९४७–वर्तमानकालः | ||||
राष्ट्रियः इतिहासः भारतम् • भूटानदेशः • बाङ्गलादेशः नेपालदेशः • पाकिस्तान् • श्रीलङ्कादेशः | |||||
प्रादेशिकेतिहासः असम • वङ्गः हिमाचलप्रदेशः • पाञ्जाबराज्यम् • दक्षिणभारतम् • तिब्बतदेशः | |||||
राबर्ट क्लैवस्य सैन्ये केवलं १९५० युरोपियन् सैनिकाः आसन् । २१००भारतीयाः सैनिकाः कानिचन गिलिकास्त्राणि एव आसन् । किन्तु नवावस्य सैन्ये ५००००० सैनिकाः महाशतघ्न्यः तन्निर्वहणर्थं परिणिताः ४० फ्रेञ्च् सैनिकाः आसन् । तेषु १६००० सैनिकाः ब्रिटिष् अधिकारिभिः रहस्यसन्धितस्य मीर् जाफर् अधीनाः युद्धे भागं न अवहन् । अन्ते केवलं ५०००सैनिकाः युद्धम् अकुर्वन् । तथापि ब्रिटिष् सैन्यात् बलवत्तरम् एव आसीत् । किन्तु सेनापतिः मीर् मदन् इति जनः गोलिकाघातितः तस्मादेव मृतः । अतः नवाबस्य सैन्यः वैकल्पे पतितः । तेन युद्धस्य परिणामः एव व्यतिरिक्तः । युद्धस्यान्ते केवलं २०तः अपि न्यूनाः ब्रिटिष् सैनिकाः मृताः दृष्टाः ।
युद्धोत्तरम्
[सम्पादयतु]ब्रिटिष् अधिकारिणः सिराजुद्दौलस्य विद्रोहिनं मीर् जाफरं बङ्गालस्य नवाबम् अकुर्वन् । आत्मानं रक्षितुं रहसि सञ्चरन्तं सिराजुद्दौलम् अन्विष्य बन्धयित्वा अन्ते वधम् अकुर्वन् । घसेटि बेगम् इत्यादीः प्रबलमहिलाः निग्रह्य ढाकानगरस्य कारावारे अस्थापयन् । ब्रिटिष् जनानां व्यवहारेण असन्तुष्टः मीर् जफरः डच् जनान् सहायार्थं याचितवान् । तैः प्रेषिताः सप्त नावः ७००नाविकाः बिटिष् सैन्येन युद्धे पराजिताः । तदनन्तरं मीर् जाफरं सिंहासनात् अवतीर्य तस्य स्थाने तस्य जामातरं मीर् कासीम् इत्येनम् समारोपयन् । अयं स्वतन्त्रमनोवृत्तिं प्रदर्शितवान् इति क्रि.श.१७६४तमे वर्षे बक्सार् युद्धे तं जित्वा बङ्गालराज्यं पूर्णतया वशीकृत्य मीर् जाफरं पुनः अधीनराजम् अकुर्वन् ।
युद्धलाभः
[सम्पादयतु]एतस्मात् प्लासीयुद्धत् ब्रिटिष् समवायस्य अधिकलाभः अभवत् । भारते देशे अनेन एव ईस्ट् इण्डिया समवायस्य मूलं सुदृढम् अभवत् । राबर्ट् क्लैव् इत्येषः समवायस्य कृते २.५दशलक्ष पौण्ड् स्वहिताय २,२४०००पौण्ड् धनं नवाबस्य कोशतः सङ्ग्रहीतवान् । करसङ्ग्रहेषु ३००००पौण्ड् धनं क्लैव् हिताय तस्मै समर्पितम् । तस्मिन् काले ८००पौण्ड् धनेन आढ्यब्रिटष् जनद्वयस्य विलासिजीवनं निर्वोढुं शक्यते स्म । इत्युक्ते राबर्ट् क्लैव् कियान् धनवान् आसीदिति ज्ञायते । क्रि.श. १७७६तमे वर्षे क्लैव् बङ्गलस्य गवर्नर् अभवत् । दुर्व्यसनासक्तः सः क्रि.श.१७७४तमे वार्षे अत्मघातं कृतवान् ।
केचन कौतूहलवदंशाः
[सम्पादयतु]- राबर्ट् क्लैव् इत्यस्य कर्मचारिवर्गे वारन् हेश्टिङ्ग्स् कश्चित् तरुणः आसीत् । क्रि.श.१७५७तमे वर्षे नवाबस्य आस्थाने रेसिड्ण्ट् इति नियुक्तः । अग्रे सः भारतस्य प्रथमः गवर्नर् जनरल् अभवत् ।
- राबर्ट् क्लैव् अग्रे ”प्लास्याः बेरन्” इति उपदिं प्राप्तवान् । सः ऐर्लेण्डदेशे क्षेत्रं क्रीत्वा तस्य कस्यचित् भागस्य प्लासी इत्येव नाम अकरोत् । अद्यापि तेन नाम्ना एव तत् स्थानं लिमरिक्न् विश्वविद्यालयस्य आवरणे अस्ति ।
- अस्मिन् युद्धे फ्रेञ्ज् सैनिकेभ्यः वशीकृताः शतघ्न्यः कोलकतानगरस्य विक्टोरिया संस्मरणालये अद्यापि सन्ति ।
- मुर्शियाबादस्य समीपे जाफर् गञ्ज् इति स्थाने मीर् जाफरस्य गृहस्य भग्नावशेषाः सन्ति ।
टिप्पणी
[सम्पादयतु]- ↑ Harrington, pp. 81–82