भिक्षु अखण्डानन्द

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


भिक्षुः अखण्डानन्दः (गुजराती: ભિક્ષુ અખણ્ડાનન્દ, आङ्ग्ल: Bhikshu Akhandanand ) नामकः साधुः मुम्बई-नगरे पुस्तकक्रयणाय गतः । किन्तु व्यापारिणा पुस्तकस्य यद् मूल्यम् उक्तं तद् श्रुत्वा साधुः आश्चर्यम् आपन्नः सन् अपृच्छत् – “एतावत् मूल्यम् ? दरिद्रजनः कथं क्रीणीयात् ?” इति । पुस्तकम् अक्रीत्वा एव गृहं गतः । जनाः जलगृहं निर्मान्ति, अन्न-वस्त्रयोः दानं कुर्वन्ति, औषधं न्यूनधनेन ददति । किन्तु न्यूनेन मूल्येन पुस्तकदानार्थं किमर्थं न विचारयन्ति ? इत्थं विचारकः साधुः भिक्षुः अखण्डानन्दः आसीत् । अयमेव ‘सस्तु साहित्य वर्धक’ नामकं कार्यालयम् अरचयत् । एतस्य नाम्ना एव अखण्डानन्द मासिकपत्रिकायाः आरम्भः अभवत् ।

जन्म, परिवारश्च[सम्पादयतु]

साधुनः मूलनाम लल्लुभाई जगजीवनभाई ठक्कर इति आसीत् । १८७४ तमे वर्षे खेडामण्डलस्य बोरसद-ग्रामे तस्य जन्म अभवत् । ते आहत्य षड् भ्रातरः, भगिन्यश्च आसन् । तेषु अखण्डानन्दः सर्वानुजः आसीत्, अतः तस्य व्यावहारिकं ज्ञानम् नासीत् । पितुः जगजीवनस्य बोरसद-ग्रामे खाद्यापणः आसीत् । किन्तु युवावस्थायामेव सः मृतः । तदानीं लल्लुभाई इत्ययं पञ्चमकक्षायाम् आसीत् ।

बाल्यं, जीवनञ्च[सम्पादयतु]

पितुः अवसानानन्तरं लल्लुभाई इत्ययं कुटुम्बेन सह जम्बुसर-उपमण्डलस्य सरोद-ग्रामे निवासम् अकरोत् । लल्लुभाई इत्यस्य भ्राता तत्र खाद्यापणम् आरभत । प्राथमिकशिक्षणं समाप्य लल्लुभाई अपि आपणकार्यं कर्तुम् आरभत । एकवारं तेन कार्ये ध्यानं न दत्तम् । ज्येष्ठभ्राता क्रोधाविष्टः अभवत् । स्वाभिमानिने लल्लुभाई इत्यस्मै तद् न अरोचत । अतः लल्लुभाई षड् रूप्यकाणि नीत्वा गृहात् पलायितः मुम्बई-नगरम् अगच्छत् । तस्य ज्येष्ठभ्राता तस्य पलायनस्य विषये मुम्बई-नगरस्य आरक्षकान् अबोधयत् । अतः लल्लुभाई मुम्बई-रेलस्थानात् एव गृहीतः अपरे याने उपावेश्य गृहं प्रेषितः । ततः परं ज्येष्ठभ्रात्रा लल्लुभाई इत्यस्मै क्रयणकार्यं दत्तम् । भ्रमणस्य इच्छुकाय भ्रमणकार्यं प्रदत्तम् अतः सोऽपि प्रसन्नः आसीत् । भ्रमणकार्यरते लल्लुभाई इत्यस्मै धूमपानस्य (smoking) व्यसनम् अभवत् । दुर्गुणः इति जानन् अपि सः तद् व्यसनं त्यक्तुं न शक्तः । इत्थं लल्लुभाई इत्यस्य चञ्चलतायुतं बाल्यजीवनम् आसीत् ।

सत्सङ्गेन जीवनपरिवर्तनम्[सम्पादयतु]

एकदा लल्लुभाई इत्ययं क्रयणार्थं बहिर्गतः । किन्तु कथाकीर्तनं दृष्ट्वा तत्र औपविशत् । तत्र जानकीदास महाराज इत्ययं वक्ता आसीत् । लल्लुभाई इत्यनेन उक्तं “महाराज! अहं दीक्षां गृहीतुमिच्छामि” । जानकीदास महाराज इत्यनेन उक्तं “भवान् धूमपानं त्यक्तुं न शक्नोति चेद् संसारं कथं त्यक्ष्यति ?” प्रश्नं श्रुत्वा लल्लुभाई इत्ययम् आश्चर्यचकितः अभवत् । महाराज इत्यनेन मम व्यसनविषये कथं ज्ञातमिति विचार्य व्यसनम् अत्यजत् । व्यसनं तु गतं किन्तु गमनात् प्राग् क्षयरोगम् अयच्छत् ।

भरुच-नगरे गमनं पितुर्धनस्य विभाजनं च[सम्पादयतु]

रोगस्यास्य उपचाराय लल्लुभाई भरुच-नगरम् अगच्छत् । वैद्यस्य औषधिना रोगोऽपहतः किन्तु सप्तशतं व्ययः अभवत् । तद् लल्लुभाई गृहं गत्वा ज्येष्ठभ्रातरम् असूचयत् । ज्येष्ठभ्राता अपृच्छत् “एतावान् व्ययः औषध्याम् ?” एतद् श्रुत्वा लल्लुभाई इत्यनेन पितुर्धनस्य विभाजनं कर्तुम् उक्तम् । ज्येष्ठभ्राताऽपि तदेव ऐच्छत् ।

विभाजनान्ते व्यापाराः[सम्पादयतु]

विभाजनान्ते लल्लुभाई इत्यनेन बहवः व्यापाराः कृताः, यथा लोहवस्तुनः आपणः, आयुर्वेदीयः औषधापणः, प्रतिपादनसंस्था (insurance company) चालनं च । किन्तु कुत्रापि साफल्यं न प्रापत् । अन्ते सार्वजनिकवस्तूनाम् आपणम् औद्घाटयत् । तत्र आयः अभवत् । अतः स्वगृहं चालयितुं सः पितुः गृहात् स्वपत्नीम् आह्वयत् । किन्तु तस्य सांसारिक जीवनेऽपि कलहः आसीत् । तस्य कारणं लल्लुभाई इत्यस्य स्वेच्छाचारः आसीत् । तस्य पत्नी बोरसद-ग्रामस्य निकटवर्तिनः रुदेल-ग्रामस्य व्यापारिणः कन्या आसीत् । यदा व्यापारे व्ययः अभवत्, तदा श्वशुरः सहायताम् अददात् । किन्तु स्वाभिमानी लल्लुभाई इत्ययं तद् न स्व्यकरोत् । पुनःपुनः एतादृक्घटनया लल्लुभाई इत्यस्य मनः संसारात् निर्गतम् ।

संन्यासिजीवनम्[सम्पादयतु]

कलहवषात् तस्य मनः संसारात् निर्गतम् अतः सः संन्यासं गृहीतुं निर्णयम् अकरोत् । अहमदाबाद-नगरे साबरमत्याः तटे महाशिवरात्रिदिने लल्लुभाई इत्ययं शाङ्करसम्प्रदायस्य दीक्षान्ते भिक्षु अखण्डानन्द इति नाम्ना विख्यातः अभवत् । पतिः संन्यासी अभवत् इति पुनः पुनः विचार्य पत्नी सदाबेन दुःखाविष्टा सती सप्तमासान्ते दिवङ्गता । संन्यासं गृहीत्वा अखण्डानन्दः प्रयागम् अगच्छत् । ततः हरिद्वारस्य कुम्भोत्सवे अगच्छत् । अन्ते काशी (वाराणसी) प्राप्य लल्लुभाई इत्ययं वेदाभ्यासम् आरभत । एतावती यात्रा तेन पद्भ्यामेव कृता । ततः लखनऊ-नगरं गत्वा स्वामिनं रामतीर्थम् अमिलत् । तत्र कतिचित् दिनानि यावत् बनारस हिन्दु विश्वविद्यालये अतिष्ठत् । तत्र बनारस हिन्दु विश्वविद्यालस्य स्थापकेन मालवीय इत्यनेन सह तस्य परिचयः अभवत् । ततः परं सः प्रयागस्य कुम्भोत्सवे भागम् अगृह्णत् ।

सस्तु साहित्य वर्धक कार्यालयस्य स्थापना[सम्पादयतु]

ततः अखण्डानन्दः मुम्बई-नगरम् अगच्छत् । तत्र सः पुस्तकक्रयणाय एकस्मिन् ग्रन्थालयम् अगच्छत् । पुस्तकस्य मूल्यम् अधिकम् आसीत्, अतः अक्रीत्वा प्रत्यागतः । किन्तु ततः प्रेरणां प्राप्य 1907 तमे वर्षे ‘सस्तु साहित्य वर्धक’ नामकस्य कार्यालयस्य स्थापनाम् अकरोत् । संस्थायाः आन्तरिकानि सर्वाणि कार्याणि स्वमित्राय अमृतलाल इत्यस्मै अददात् । किन्तु कर्गदक्रयणं, पुस्तकविक्रयणं, धनार्जनम् इत्यादीनि कार्याणि सः स्वयमेव करोति स्म । इत्थं सः संस्थायाः व्यापम् अवर्धत । अतः कालान्तरे ग्रन्थालयं स्थापयितुं विशालस्य गृहस्य आवश्यकता अभवत् । किन्तु भाटकप्रदानाय धनं नासीत् । अन्ते भूतगृहम् इति नाम्ना प्रसिद्धं गृहं न्यूनेन भाटकेन स्वीचकार । शरीरेऽस्मिन् पञ्चभूतानि सन्ति इदं षष्ठमिति विचार्य तत्र ग्रन्थालयम् अस्थापयत् । आर्थिकमन्दतायाम् अखण्डानन्देन वार्षिकी ग्रन्थमाला आरब्धा । गुर्जर-प्रान्ते इयं प्रथमा योजना आसीत् । जनेभ्यः धनं स्वीकृत्य विविध ग्रन्थमाला इत्यस्य आरम्भम् अकरोत् । तत्र सफलतां च प्रापत् । सार्धैकवर्षे १५,००० पृष्ठानां वाचनं १.५० रूप्यकेषु प्राप्यते चेत् योजनायाः लाभः कः न गृह्णीयात् ? अनेन प्रकारेण सार्धत्रिवर्षस्य न्यूने समये ५४,००० धार्मिकपुस्तकानां विक्रयणम् अकरोत् ।

सस्तु साहित्य वर्धक कार्यालयस्य स्थानान्तरणम्[सम्पादयतु]

अस्य सस्तु साहित्य वर्धक कार्यालयस्य स्थापना मुम्बई-नगरे अभवत् । किन्तु अन्यनगरेभ्यः मुम्बई-नगरे व्ययः अधिकः आसीत्, अतः तत्र स्थित्वा पुस्तकानां प्रकाशनं कठिनमासीत् । अत एव अखण्डानन्दः पञ्चवर्षान्ते तस्य कार्यालयम् अहमदाबाद-नगरम् अनयत् । अहमदाबाद-नगरे कार्यालयाय उत्तमः अवसरः प्राप्तः । अत्र मुद्रणकार्यं, परिवहनकार्यं च न्यूनेन धनेन अभवत् । अतः अखण्डानन्दः सस्तु साहित्य वर्धक इत्यस्मै दरिद्र साहित्य इति नाम अददात् । गुर्जरप्रान्तस्य कोऽपि जनः वाचनरहितः मा भूदिति भावनया संस्कारलक्षी साहित्यार्थम् अखण्डानन्द इति नामकं सामयिकम् आरभत । एतेन सामयिकेन जनानां संस्कारनिर्माणे महत्वपूर्णं योगदानं प्रदत्तम् । एतादृशीं प्रवृत्तिं दृष्ट्वा अमेरिका-देशस्य प्रसिद्धलेखकेन सस्तु साहित्य वर्धक कार्यालयाय स्वपुस्तकमुद्रणस्य अधिकारः प्रदत्तः ।

अखण्डानन्दस्य जीवने महात्मनः प्रभावः[सम्पादयतु]

महात्मनः स्वतन्त्रतायाः आन्दोलने अखण्डानन्दः प्रत्यक्षं भागं न अगृह्णत्, किन्तु अखण्डानन्दस्य मनसि महात्मनः स्वदेशिविचाराणां प्रभावः आसीत् । अतः स्वयम् आजीवनं सम्पूर्णतया खादी-वस्त्रमेव अधरत् । कार्यालयेऽपि स्वदेशिवस्तूनाम् एव आग्रहः आसीत् । तदानीं गीता प्रेस इत्यस्य प्रसिद्धिः आसीत् । तथापि अखण्डानन्दस्य प्रवृत्त्या गीता प्रेस इत्यस्य सञ्चालकाः आकर्षिताः आसन् । एकस्मिन् दिने हनुमान प्रसाद पोद्दार, जयदयाल गोएन्का, बिरला इत्येते त्रयः अखण्डानन्दं मिलितुं पुष्पमालां नीत्वा गताः । किन्तु अखण्डानन्देन पुष्पमालाधारणं न कृतम् । सः હાર પેરે તેની હાર થાય (मालां यः धरते तस्य पराजयः भवति) इति उक्त्वा पाटलपुष्पं स्वीकृत्य मिष्ठान्नं च अखादीत् ।

अन्यानि कार्याणि[सम्पादयतु]

साहित्यसेवया सह अखण्डानन्देन अन्यसेवाः अपि कृताः । तेन दरिद्रजनेभ्यः न्यूनधने औषधप्रदानं कृतम् । पण्ढरपुर-नगरे दलितजनेभ्यः लघुधर्मशाला आसीत्, अतः वर्षायां जनाः क्लिन्दाः भवन्ति स्म । इदं दृश्यं दृष्ट्वा अखण्डानन्दस्य हृदयं दुःखम् अनुभवति स्म । अतः गाङ्गे बावा इत्यस्मात् पञ्चविंशतिसहस्रं धनं गृहीत्वा दलितजनेभ्यः धर्मशालानिर्माणम् अकारयत् ।

मृत्युः[सम्पादयतु]

संस्थायाः कार्ये इतस्ततः भ्रममाणस्य अखण्डानन्दस्य स्वास्थ्यम् असमिचीनम् अभवत् । अखण्डानन्दः त्रिभिः रोगैः पीडितः आसीत् । तथापि नडियाद-नगरात् अहमदाबाद-नगरं प्रति यातायातं करोति स्म । इत्थं लोकसेवायै जीवनं समर्प्य १९४२ तमस्य वर्षस्य जनवरी-मासस्य तृतीये दिनाङ्के (3/1/1942) अखण्डानन्देन देहत्यागः कृतः । तस्य अन्तिमा इच्छा साबरमती-तटे अग्निदाहस्य आसीत् । अत एव तस्य शिष्यैः नडियाद-तः साबरमतीपर्यन्तम् अन्तिमयात्रा कृता, तथा साबरमती-तटे तस्य अन्तिमसंस्कारः कृतः । इत्थं पञ्चभूतात्मकेन देहत्यागेन अखण्डानन्दः स्वर्गं गतः । किन्तु तस्य सेवाभावनया शब्दसृष्ट्या इदानीमपि सः अस्मत्सु राजते ।

"https://sa.wikipedia.org/w/index.php?title=भिक्षु_अखण्डानन्द&oldid=370602" इत्यस्माद् पुनः प्राप्तिः