सामग्री पर जाएँ

खेडामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(खेडामण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
खेडामण्डलम्
मण्डलम्
गुजरातराज्ये खेडामण्डलम्
गुजरातराज्ये खेडामण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters नडियाद
Area
  Total ४,२१८ km
Population
 (२०११)
  Total २२,९८,९३४
Languages
  Official गुजराती, हिन्दी
Website kheda.gujarat.gov.in
मध्यगुजरात

खेडामण्डलम् (गुजराती: ખેડા જિલ્લો, आङ्ग्ल: Kheda district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नडियाद इति नगरम् ।

भौगोलिकम्

[सम्पादयतु]

खेडामण्डलस्य विस्तारः ४,२१८ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे पञ्चमहलमण्डलं, पश्चिमे अहमदाबादमण्डलम्, उत्तरे साबरकाठामण्डलं, दक्षिणे आणन्दमण्डलम् अस्ति । अस्मिन् मण्डले ७२३ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले अष्ट नद्यः प्रवहन्ति । ताः यथा- मही, साबरमतीनदी, मेश्वो, खारी, लुणी, वात्रक, शेढी, मोहर ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं खेडामण्डलस्य जनसङ्ख्या २२,९८,९३४ अस्ति । अत्र ११,८७,०९८ पुरुषाः ११,११,८३६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५४१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.८१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३७ अस्ति । अत्र साक्षरता ८४.३१% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- १ बालासिनोर २ कपडवञ्ज ३ कठलाल ४ खेडा ५ महुधा ६ मातर ७ महेमदाबाद् ८ नडियाद ९ ठासरा १० वीरपुरम्

कृषिः वाणिज्यं च

[सम्पादयतु]

आम्लकी, बृहज्जम्बीरं, कदलीफलं, पपितफलं च अस्मिन् मण्डले उत्पाद्यमानानि फलानि सन्ति । आलुकं, वार्तिकी ('टमेटो'), वृन्ताकं, पलाण्डुः, मरीचिका च अस्मिन् मण्डले उत्पाद्यमानानि शाकानि सन्ति । आर्द्रकं ('जिञ्जर्'), हरिद्रा, जीरकः, मधुरिका/शालेयः च अस्मिन् मण्डले उत्पाद्यमानानि सुगन्धद्रव्याणि ('स्पैसस्') सन्ति । गुजरातराज्यस्य मण्डलेषु आम्लक्युत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । तमाखूत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । कृषिः, 'इलेक्ट्रिकल् एक्विप्मेण्ट्स्', वस्त्रोत्पादनं, 'सिरेमिक्', कर्गजोद्यमः, 'प्ल्यास्टिक्', आहारसंस्करणं, 'सिमेण्ट् एण्ड् जिप्सम्' च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि

[सम्पादयतु]

नडियाद-तः ३३ किलोमीटर्दूरे स्थिते डाकोरनगरे विद्यमानं प्रसिद्धं रणछोडरायमन्दिरं प्रमुखं वीक्षणीयस्थलम् अस्ति । रायोली इत्यत्र 'डायनोसार् एण्ड् फोसिल् पार्क्' अस्ति यत् अपरं वीक्षणीयस्थलम् अस्ति । नडियाद-नगरे स्थितं सन्तराममन्दिरमपि एकं वीक्षणीयस्थलम् अस्ति । कपडवञ्ज इत्यत्र विद्यमानः कुण्डः, 'बत्त्रीस् कोठा नी वाव्' इत्येतत् द्वयमपि वीक्षणीयस्थलमस्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=खेडामण्डलम्&oldid=478319" इत्यस्माद् प्रतिप्राप्तम्