सामग्री पर जाएँ

भूतयज्ञः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



ऋणचतुष्टयस्य पारं गत्वा पञ्चमो भूतयज्ञः प्रकल्पितः शास्त्रकारैः । समन्ततः अवस्थिता इयं संपूर्णा जीवसृष्टिः तस्यैव परमात्मनः अंशोद्भूता यस्माद् अस्माकम् उत्पत्तिः । एवं सहोत्पत्तिनिमित्तत्वात् कृमिकीटकपतङ्गदयोऽपि अस्माभिः आत्मीयताभावेन सम्बन्धम् अर्हन्ति । तमेव आत्मियताभावं प्रकटयितुं भूतेभ्यः बलिं ददानस्य भूतयज्ञः सम्पद्यते । बलि वैश्वदेवयज्ञ इत्यस्यैव नामान्तरम् । परिपक्वस्य भोजस्याल्पेनांशेन मन्त्रपूर्वकम् अग्नौ आहुतिः कीटादिभ्योऽन्नप्रदानं चात्र गृहस्थानां कर्म इति भगवान् मनुराह- वैश्वदेवस्य सिद्वस्य गृह्योऽग्नौ विधिपूर्वकम्

आभ्यः कुयद्दिवताभ्यो ब्राह्मणो होममन्वहम् ।
शुनां च पतितानां च श्वपचां पापरोगिणाम्
वायसानां कृमीणां च शनकैर्निर्वपेद् भुवि ।

इति । 'अन्नाद् भूतानि भवन्ति’ 'अन्नाद् भूतानि जायन्ते जातान्यन्नेन वर्धन्ते’ । इति तैत्तिरीयोपनिषदः कथनानुसारं त्यागपूर्वकं भोगस्य रक्षणमिति, सर्वभूतानां पोषणं सुखकामनां च सर्वोऽपि कुर्यादिति । अत एव 'केवलाघो भवति केवलादि’ । [ऋ-१०/११७/६] इतिऋचा,

‘भुञ्जते तेत्वघं पापा ये पचन्त्यात्मकारणात्’

इति भगवद्गीतायाः श्लोकार्धेन च-यदस्माकमस्ति तत्सर्वेभ्यो यथाशक्ति प्रेम्णा, दयया च दानं करणीयमिति’ यदि स्वयं भुङ्क्ते तर्हि सः पापी भवति इति ।

एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति॥
स गच्छति परं स्थानं तेजो मूर्तिपथार्जुन॥ इति ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भूतयज्ञः&oldid=463006" इत्यस्माद् प्रतिप्राप्तम्