भूविज्ञानस्य विविधानि मुखानि
भूमेः उद्भवः
[सम्पादयतु]अस्यां सृष्टौ सर्वस्य अपि वस्तुनः यथा आरम्भः इति भवति तथैव अन्त्यम् इत्यपि भवति इत्येषः प्रकृतेः नियमः । प्राणिनां, वृक्षसस्यानां, पक्षिणां वा जननं मरणं च अस्माभिः दृश्यते एव । तथैव भूमिः अपि प्रकृतेः एव सृष्टिः खलु ? तथा चेत् तस्याः भूमेः अपि जननं मरणं चापि भवेत् खलु ? तर्हि भूमिः कथं जाता ? तत्रत्याः शिलाः वा खनिजाः वा कथं रूपिताः अभवन् ? आकाशे दृश्यमानानि ग्रहनक्षत्रादीनि कदा जातानि ? तेषां सर्वेषां जन्मतः आरभ्य अद्यपर्यन्तं तेषु जातानि परिवर्तनानि कानि ? इत्यादयः कौतुकयुक्ताः प्रश्नाः मानवानां मनसि सदा उद्भवन्ति एव ।
पुराणेषु कल्पनाः
[सम्पादयतु]अस्माकं पुराणेषु भूमेः उद्भवस्य विषये स्वारस्यपूर्णाः कल्पनाः सन्ति । भगवतः महाविष्णोः रोमरन्ध्रेभ्यः असंख्यानि ब्रह्माण्डानि उद्भवन्ति । तथा उद्भूतं प्रत्येकम् अपि ब्रह्माण्डं विष्णुः अन्येन रूपेण प्रविशति । तस्य सर्वस्य अपि ब्रह्माण्डस्य अर्धभागे सः एव विष्णुः पुरुषरूपेण (मानवः इत्यस्मिन् अर्थे न उपयुक्तः पुरुषशब्दः) शयितवान् अस्ति । ब्रह्माण्डस्य स च भागः तस्य देहबलेन आवृत्तः अस्ति । सः पुरुषः गर्भोदकः विष्णुः इति निर्दिष्टः अस्ति । तस्य नाभितः कमलम् एकम् उद्भूतम् अस्ति । तत् कमलं सकलानां जीविनां सृष्टिकर्तुः ब्रह्मणः जन्मस्थानम् । सः ब्रह्मा ब्रह्माण्डस्य सम्पर्कव्यवस्थायां, निर्माणे च निरतानां विभिन्नानां देवतानां यजमानः । तस्य कमलकाण्डस्य अन्तर्भागे १४ लोकाः (ग्रहव्यूहाः) सन्ति । तेषु अस्माकम् एषा भूमिः कमलकाण्डस्य मध्यभागे स्थिता अस्ति । ततः उपरि उत्तमाः लोकाः सन्ति । अधः ७ अधोलोकाः सन्ति । एवं क्रमेण एव अग्रे गच्छन्ति ताः कल्पनाः । आधुनिकस्य विज्ञानस्य क्षेत्रे एतादृशीणां कल्पनानां किमपि मूल्यं न भवति चेदपि अस्माकं पूर्वजानां कल्पनाविलासस्य उत्तमः साक्षी अस्ति एषा कल्पना ।
आधुनिकचिन्तनम्
[सम्पादयतु]पुराणेषु यःकोपि उल्लेखः भवतु नाम । वयम् इदानीं भूमेः जन्मनः विषये आधुनिकानां चिन्तनानां परिशीलनं कुर्मः । अस्माकं सर्वेषां ज्ञानानुसारं भूमिः अपि आकाशकायेषु अन्यतमः आकाशकायः (ग्रहः) । इयं भूमिः अपि अन्ये आकाशकायाः इव सूर्यं परितः भ्रमति । अतः अस्याः भूमेः जन्मनः अन्येषाम् आकाशकायानाम् उद्भवेन सह च सम्बन्धः अस्ति ।
आकाशकायाः
[सम्पादयतु]आकाशकायाः कथं जाताः ? इति प्रश्नः प्रायः शतकद्वयतः विज्ञानिनां मनसि उद्भवन् अस्ति एव । किन्तु अस्य प्रश्नस्य उत्तरम् अप्रत्यक्षाणाम् आधाराणां द्वारा एव प्राप्तव्यं भवति । आकाशकायानां गात्रं, तेषु द्रव्यप्रमाणस्य वितरणं, कक्षापथानां वैशिष्ट्यम् इत्यादिभिः सह तेषु आकाशकायेषु सूर्ये च विद्यमानस्य मूलवस्तुनः सापेक्षसान्द्रताम् अपि मनसि निधाय चिन्तनीयं भवति । तदनन्तरम् एव ग्रहाणां जन्मनः विषये काचित् निश्चिता व्यवस्था कल्पनीया भवति । तदर्थं स्पष्टस्य तार्किकचिन्तनस्य आधारः अपि अपेक्षितः भवति । आधुनिके खगोलविज्ञानस्य क्षेत्रे जातानां सुदीर्घाणाम् अध्ययनानां फलरूपेण अद्य अस्माभिः आकाशकायाणां विषये बहुविधानि विवरणानि प्राप्यन्ते ।